________________
पृ० २३० ५० १६-२८.]
टिप्पणानि। स हेतुः विपरीतोऽस्माद् विरुद्धोऽन्यस्त्वनिश्चितः ॥” इति प्रमाणसमुच्चये ।
__ पृ० २३० पं० १०-११. दृष्टान्तः साध्यानुगतः । “त्रिरूपो हेतुरित्युक्तं पेक्षधर्म च संस्थितः । रुढे रूँपद्वयं शेषं दृष्टान्तेन प्रदर्यते ॥ साध्येनानुगमो हेतोः साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः स साधयेतरो द्विधा ॥"प्रमाणसमु०.४।१,२। "दृष्टान्तो द्विविधः-साधम्र्येण वैधज्रेण च । तत्र साधम्र्येण तावत् यत्र हेतोः सपक्ष एवास्तित्वं ख्याप्यते, तद्यथा- यत् कृतकं तदनित्य दृष्टं यथा घटादिरिति । वैधर्येणापि यत्र साध्याभावे हेतोरभाव एव कथ्यते, तद्यथा-यन्नित्यं । तदकृतकं दृष्टं यथाकाशमिति । नित्यशब्देनाबानित्यत्वस्याभाव उच्यते, अकृतकशब्देनापि कृतकत्वस्याभावः, यथा भावाभावोऽभाव इति ।" -न्यायप्रवेश. पृ० १-२ ।
पृ. २३० पं० ११. तद्विपर्यये तदाभासा...| "साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः [पृ० २] 1... भसिद्धानकान्तिकविरुद्वा हेत्वाभासाः [पृ०३] 1. "दृष्टान्ताभासो द्विविधः साधर्म्यण वैधयेण च [पृ० ५] 1एषां पक्षहेतुदृष्टान्तानां वचनानि साधनाभासम् [पृ० ७ ] ।" - न्यायप्रवेश० ।
10 __ पृ० २३० पं० १२. तत्साधनदोषो। The refutation [दूषण] consists in showing that the formulation of a syllogism is defective [ at] etc. The fallacies of refutation [दूषणाभासाः ] are called Jatis -न्यायमुख. पृ० ५४ । “साधनदोषोद्भावनानि दूषणानि । साधनदोषो न्यूनत्वम् । पक्षदोषः प्रत्यक्षादिविरुद्वत्वम् । हेतुदोषोऽसिद्धानैकान्तिकविरुद्धत्वम् । दृष्टान्तदोषः साधनधर्माद्यसिद्धत्वम् । तस्योद्भावनं
दूषणम् । अभूतसाधनदोषोद्भावनानि दूषणाभासानि । सम्पूर्ण साधने न्यूनत्ववचनम् । अदुष्टपक्षे पक्षदोष-15 वचनम् । सिद्धहेतुकेऽसिद्धहेतुकवचनम् ।..'अदुष्टदृष्टान्ते दुष्टदृष्टान्तवचनम् । एतानि दूषणाभासानि । न ह्येभिः परपक्षो दूव्यते, निरवद्यत्वात् तस्य ।"-न्यायप्रवेश० पृ. ८ । “वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् । दूषणं निरवये तु दूषणाभासनामकम् ॥२६॥” इति सिद्धसेनसूरिप्रणीते न्यायावतारे । “साधनदोषोद्भावनं दूषणम् । अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ।" - प्रमाणमीमांसा० २।१।२८-२९ । न्यायबिन्दु[ ३।१३८-१४१]-हेतुतत्त्वोपदेश[ पृ० २५८ प्रभृतिग्रन्थेवपि दूषण-तदाभासा लक्षिताः ।
-20 पृ० २३० पं० १६-१८. शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्तमात्रमिदं..... अनादिनिधनं ब्रह्म। 'अनादिनिधनं ब्रह्म...' इतीयं वाक्यपदीयकारिका कमलशीलेन तत्त्वसंग्रहपञ्जिकायां [पृ० ६७ ] अभयदेवसूरिभिः सन्मति
१“एतेन 'ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुः' इति प्रत्युक्तम् ।” -न्यायवा० १।१।३५ । “दिनागस्यैव प्रदेशान्तरहेतुलक्षणम् -ग्राह्यधर्मः पक्षधर्मः तदंशेन तस्यैव पक्षस्यांशेन साध्यधर्मसामान्येन व्याप्तो हेतुरिति । तदेव तद्धेदुलक्षणमुपन्यस्यास्मिन् पूर्वोक्तं दोषमतिदिशति-एतेनेति ।" -न्यायवार्तिकतात्पर्यटीका. ११३५ । "आचार्यरपि निर्दिष्टमीदृक् संक्षेपलक्षणम् । ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुरितीदृशम् ॥१३८५॥" - तत्त्वसंग्रह. । २ कारिकेयं वादन्यायस्य शान्तरक्षितकृतटीकायाम् [पृ० ९२] उद्धृता, तत्र च यद्यपि 'पक्षधर्मे च' इति पाठो दृश्यते तथाप्यशुद्धः स स्यादिति भाति । प्रमाणसमुच्चयस्य विशेषतश्च जिनेन्द्रबुद्धिरचित विशालामलवती'टीकाया भोटभाषानुवादानुसारेण [पृ. २१२ B, Derge edition ] 'पक्षधर्मस्तु' इति 'पक्षधर्मो हि' इति वा पाठोऽत्र स्यादिति भाति । अयं च भोटभाषानुवादोऽत्रैव टिप्पणेषु वक्ष्यमाणे भोटपरिशिष्टे द्रष्टव्यः। ३'रूढेः' इति पञ्चम्यन्तं पदम् , 'रूढेः संस्थितः' इति अन्वयः। ४ तत्त्वसंग्रहपञिका. पृ० ४१९। ५ सम्पूर्णेयं कारिका दशवैकालिकसूत्रस्य हरिभद्रसूरिकृतवृत्तावुद्धृता पृ० ३४ B । विशेषा. वश्यकभाष्यस्य कोहार्यवृत्तौ [ पृ० १५४ B] न्यायवार्तिक-तात्पर्यटीका[ १।११३७ ]प्रभृतिषु च अंशत उद्धृता उपलभ्यते । ६ “सर्वपरिकल्पातीततत्त्वं भेदसंसर्गसमतिक्रमेण समाविष्टं सर्वाभिः शक्तिभिर्विद्याऽविद्याप्रविभागरूपमप्रविभागं काल
1 एतदनुसार्येव प्रमाणवार्तिके[१३] हेतुबिन्दौ च धर्मकीर्तिना “पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभाषनियमाद् , हेत्वाभासास्ततोऽपरे ॥” इति लक्षणं प्रणीतमिति ध्येयम् । 2 "आचार्यैरिति तन्मताविरोधं प्रतिपादयति । ग्राह्मधर्म इति ग्रामस्य साध्यधर्मिणो धर्मः पक्ष इति यावत् ।" - तत्त्वसंग्रहपञ्जिका. पृ० ४०९। 3 "भेदसंसर्गसमतिक्रमेणेति मेदो व्यतिरेकः, संसर्ग एकत्वम् । एतद्वयसमतिक्रमेण ताभिः शक्तिभिरध्यासितम्"विद्याऽविद्याप्रविभागरूपम् इति । एतदुक्तं भवति - विद्यारूपमङ्गीकृत्योक्तं 'सर्वविकल्पातीततत्त्वम्' इति । अविद्यानिबन्धनरूपमङ्गीकृत्योक्तं 'समाविष्टं सर्वाभिः शक्तिभिः' इति ।..... अपूर्वापरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org