________________
न्यायागमानुसारिणीवृत्त्यलकृतस्य नयचक्रस्य पृ० २३० पं० १०. पृ० २३० ५० १०. हेतुः पक्षधर्मः। दृश्यतां टिपृ० २८ पं० २९ । “अनुमानं द्विधा, स्वार्थं त्रिरूपालिङ्गतोऽर्थदृक् । पूर्ववत् फलमर्थः स्वरूपं चातुल्यमेतयोः ॥२॥१॥......पैरार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम् । तत्रानुमेयनिर्देशो हेत्वर्थविषयो मतः ॥३१॥"साध्यधर्मो यतो हेतुस्तदाभासश्च भूयसा । तस्मात् तद्विस्तरः पूर्व हेत्वाद्यर्थात् प्रदर्यते ॥... संपक्षे सन्नसन् द्वेधा पक्षधर्मः पुनस्त्रिधा । प्रत्येकमसपक्षेऽपि सदसविविधत्वतः ॥...तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये।
१ प्रमाणवा०मनो० परिशिष्ट. पृ० ५२४ । “अनुमानं द्विधा- स्वार्थ परार्थं च । तेत्र स्वार्थ त्रिरूपाल्लिङ्गतोऽर्थदृक् । वक्ष्यमाणत्रिलक्षणाल्लिङ्गाद् यदनुमेयार्थदर्शनं तत् स्वार्थमनुमानम् । पूर्ववत् फलमत्रापि। यथा प्रत्यक्षे [ विषयसंवित्तिः खसंवित्तिश्चेति ] प्रतीतिद्वयमेव आश्रित्य फलमुक्तमेवमत्रापि । यद्युभयमपि प्रतीतिलक्षणम् कोऽनयोर्विशेष इति चेत् , अर्थः स्वरूपं चातुल्यमेतयोः । प्रत्यक्षानुमानयोरों [ =आलम्बनं ] भिन्नः । तदाकारविशेषाच स्वरूपमपि भिन्नम्।” इति
दिङ्गागविरचितायां प्रमाणसमुच्चयवृत्तौ पृ० २८ B, पृ० १११. Narthang edition.। अस्या वृत्तेः संस्कृतभाषाया05 मनुपलम्भात् भोटभाषानुवादानुसारेण कल्पितमेतदस्माभिः संस्कृते अस्या भोटभाषानुवादोऽत्रैव टिप्पणेषु वक्ष्यमाणे "भोटपरिशिष्टे द्रष्टव्यः। २ प्रमाणवार्तिकालं. पृ. ४६७ । प्रमाणवा. मनो. टि. पृ० ४१३ । “यथा खस्मिन् त्रिरूपाल्लिङ्गाद् लिङ्गिनि ज्ञानमुत्पन्नं तथा परस्मिन् त्रिरूपाल्लिङ्गाल्लिङ्गिज्ञानोत्पिपादयिषया त्रिरूपलिङ्गाख्यानं परार्थमनुमानम, कारणे कार्योपचारात् ।" इति दिङ्गागविरचितायां प्रमाणसमुच्चयवृत्तौ पृ. ४४ A, १२६ A, Narthang edition. संस्कृतभाषायामस्या वृत्तेरनुपलब्धेरस्या भोटभाषानुवादोऽत्रैव टिप्पणेषु वक्ष्यमाणे भोटपरिशिष्टे द्रष्टव्यः । ३ न्यायवार्तिकतात्पर्यटीका. १।१।३५ । न्यायमुख. पृ० ११ । प्रमाणवार्तिकालंकारे त्वत्र ‘पक्षधर्मः' [पृ० ५१० ] इति पाठः तथापि भोटभाषानुवादेषु 'ब्स्गुब् ब्याड छोस्' इति पाठदर्शनात् 'साध्यधर्मः' इत्येव समीचीनम् । न्यायवार्तिकतात्पर्यटीकायामपि 'साध्यधर्मः' इत्येव पाठः । ४ प्रमाणवार्तिकालं. पृ. ५८० । Therefore I shall now in. dicate the various characteristics of this.-न्यायमुख. पृ० ११। ५ यद्यप्यत्र प्रमाणसमुच्चयस्य कनकवर्म-वसुधररक्षितविरचितभोटभाषानुवादानुसारेण प्रमाणवार्तिकालङ्कारे च 'हेत्वाद्यर्थात्' इत्येव पाठः, तथापि प्रमाणवार्तिकालंकारे एव इत ऊर्ध्वम् “अत एव 'हेत्वाभासात् पूर्वम्' इत्युक्तम् , हेतुश्चाभासश्च हेत्वाभासम् , आभासश्च प्रत्यासत्तेर्हेत्वाभास एव, नाभासमात्रम् ।” इत्यभिहितत्वाद् ‘हेत्वाद्यर्थात्' इत्यस्य स्थाने 'हेत्वाभासात्' इत्यपि पाठः स्यादिति सम्भाव्यते । प्रमाणसमुच्चयस्य जिनेन्द्रबुद्धिविरचितायां 'विशालामलवती'टीकायां त्वेवं दृश्यते - “साध्यधर्मो यतो हेतुरित्यादि । 'भूयसा' इति पदम् असिद्धस्य अपक्षधर्मस्यापि हेत्वाभासत्वज्ञापनार्थम् । अयं का रिकार्थः - यस्मात् हेतुस्तदाभासश्च भूयसा पक्षधर्म एव तस्मात् हेतु-विरुद्ध-अनैकान्तिकत्वेभ्यः पूर्व पक्षधर्मविस्तरः प्रदर्यते इति। एतदुक्तं भवति--- यस्मात् पक्षधर्मत्वमिदं बहूनां सामान्य रूपं तस्मात् पक्षधर्मप्रभेद एव हेत्वादेः पूर्वं प्रदर्श्यते ।” - विशालामलवती. पृ. १५४ A. Derge edition. । संस्कृतभाषायामस्याः टीकाया अनुपलम्भादस्या भोटभाषानुवादोऽत्र संस्कृतेऽस्माभिः परिवर्त्य लिखित इति 'ध्येयम् । ६प्रमाणवार्तिकालं. पृ० ५८०,६०१ । न्यायमुख. पृ. २९,३० । न्यायवार्तिक-तात्पर्यटीका. १।१।३५ ।
___ 1 धर्मकीर्तिरपि दिङ्गागमेवानुसृत्य प्रमाणविनिश्चये लक्षणमत्र प्रणीतवानिति वादिदेवसूरिप्रणीतस्याद्वादरत्नाकरानुसारेण प्रतीयते । तथाहि -"अपि च "धर्मकीर्तिरपि न्यायविनिश्चयस्य आद्य-द्वितीय-तृतीयपरिच्छेदेषु यथाक्रमं 'प्रत्यक्ष कल्पनापोढम. भ्रान्तम्' इति 'तत्र स्वार्थ त्रिरूपाल्लिङ्गतोऽर्थक्' इति 'परार्थमनुमानं तु स्वदृष्टार्थप्रकाशनम्' इति त्रीणि लक्षणानि तिमिराशु. भ्रमणनौयानसंक्षोभाद्यनाहितविभ्रममविकल्पकं ज्ञानं प्रत्यक्षम्' इति 'विलक्षणालिङ्गाद् यदनुमेयेऽर्थे ज्ञानं तत् स्वार्थमनुमानम्' इति 'यथैव हि स्वयं त्रिरूपाल्लिङ्गतो लिङ्गिनि ज्ञानमुत्पन्नं तथैव परत्र लिङ्गिज्ञानोत्पिपादयिषया त्रिरूपलिङ्गाख्यानं परार्थमनुभानम्' इति च व्याचक्षाणो लक्ष्यस्यैव विधिमन्वकीर्तयत् ।" इति स्याद्वादरलाकरे पृ० २३ । न्यायविनिश्चय इति प्रमाणविनिश्चयस्यैव नामान्तरं ज्ञेयम् । प्रमाणविनिश्चयस्य भोटभाषानुवादेऽक्षरशः सर्वमेतदुपलभ्यते, पृ० २६१ B, २७६ A, २९९ A. Narthang redition.। पृ० १५४,१६७ A, १८७ A. Derge edition. । अयं भोटभाषानुवादो 'बस्तनू-ऽग्युर' संग्रहे 'म्दो' वर्ग 'चे ९५] पुटे द्रष्टव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org