________________
पृ० २३० ५० ९.]
टिप्पणानि । पृ० २२९ पं० २१,२२,२३. निर्हेतुकहेतुक । भावप्रधानोऽयं 'निर्हेतुक निर्देशः, तेन अन्तवत्त्वानुमाने आदिमत्त्वानुमाने च निर्हेतुकत्वस्य हेतुत्वेन विवक्षितत्वात् 'निर्हेतुकहेतुक' इत्युक्तमत्र, दृश्यतां पृ० २२९ पं० १८ ।
__ पृ० २३० पं० ९. साधनदूषणा । “साधनं दूषणं चैव साभासं परसंविदे । प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥ इति शास्त्रार्थसंग्रहः ।" इति न्यायप्रवेशके हेतुतत्त्वोपदेशे च । दिमागविरचिते न्यायमुखेऽपि अवश्यं 'साधनं दूषणं चैव...' इदृशी कारिका ग्रन्थारम्भे आसीदिति 'साभासोक्त्याधुपक्षेप. ॥[४।२७]।' इति प्रमाणवार्तिककारिकाया । व्याख्याविलोकनेन प्रतिभाति । यद्यपि अस्य चीनभाषानुवादमवलम्ब्य Prof. Giuseppe Tucci इत्येभिर्विहिते English ingang "I have compiled this book, because I desire to assertain what is the real nature of the arguments to prove (a thesis as well ] as to refute it.” [न्यायमुख. पृ० ५] इति दृश्यते तथाप्ययं चीनभाषानुवादो बहुषु स्थलेषु संक्षिप्तोऽस्पष्टश्च भाति ।
पृ० २३० पं० ९. पक्ष...। "पेक्षादिवचनानि हि साधनं, तत्र तु स्वयम् । साध्येत्वेनेप्सितः पक्षो विरुद्धार्थानिरा-10 कृतः ॥२॥ पक्षेत्यादि, पक्षहेतुदृष्टान्तवचनैर्हि परेषामप्रतीतोऽर्थः प्रतिपाद्यते ।" इति दिनागरचिते न्यायमुखे प्रतीयते । "परार्थमनमानं तु स्वदृष्टार्थप्रकाशनम् । तत्रानमेयनिर्देशो हेत्वर्थविषयो मतः ॥३१॥ स्वरूपेणैव निर्देश्यः स्वयमिष्टोsनिराकृतः । प्रत्यक्षार्थानुमानाप्तप्रसिद्धेन स्वधर्मिणि ॥३॥२॥” इति दिमागविरचिते प्रमाणसमुच्चये।
१“स्वयूथ्यानां [ = न्यायमुखटीकाकारादीनां ] पूर्वपक्षपरिहारोक्तिः - पक्षवचनं साधनं साभासत्वादिति चेत् , न, प्रत्यक्षेगानेकान्तात् । प्रत्यक्षं साभासमपि न कस्यचित् प्रमाणस्य साधनम् । वचनात्मत्वे सति साभासत्वात् साधनत्वमिति चेत्, न, दूषणेनानेकान्तात् । दूषणं साभासवचनात्मत्वेऽपि न साधनम।" इति मनोरथनन्दिरचितायां प्रमाणवार्तित ४।२७ “अन्यः पुनराह -- 'प्रतिज्ञा साधनं साभासत्वेनोक्तेः, साभासत्वस्य साधनत्वेन सह दर्शनात् । दूषणवाद्याहप्रत्यक्षेण अनेकान्तः । वचनात्मकत्वेन विशेषणाददोष इति परिहारः । दूषणेनानेकान्त इति चेत् , अदूषणत्वे सतीति परिहारः।' तदेतत् सकलमसत् ।...” इति प्रमाणवार्तिकालङ्कारे पृ० ४९३ । इयं च साभासत्वोक्त्यादिचर्चा न्यायमुखे 'साधनं दूषणं चैव साभासं......।' इत्येतादृशपाठसम्भवे घटत इति ध्येयम् । २ दृश्यतां पृ० ३०६ पं० २२ । ३ "तत्र पक्षादिवचनानि साधनम् । पक्षहेतुदृष्टान्तवचनैर्हि प्राश्निकानामप्रतीतोऽर्थः प्रतिपाद्यत इति । तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः, 'प्रत्यक्षाद्यविरुद्धः' इति वाक्यशेषः । [पृ० १] एषां [=पक्ष-हेतु-दृष्टान्तानां ] वचनानि परप्रत्यायनकाले साधनम् । एतान्येव त्रयोऽवयवा इत्युच्यन्ते।" - न्यायप्रवेश० पृ० १-३ । “वादिना खयं साधयितुमिष्टोऽर्थः साध्यः साध्यते येन तत् साधनं हेतोस्त्रिरूपवचनम्।"हेतुतत्त्वोप० । ४ "न्यायमुखप्रकरणे 'तत्र तु खयं........"कृतः' इति पाठात् ।”-प्रमाणवार्तिकालं० पृ० ५१०, ५१९,५२२,५६१ । प्रमाणवा० मनो० पृ० ४४३ । न्यायवार्तिकतात्पर्यटीका. १।१।३३ । ५ The proposition and the other terms are called the proof [ साधन ]. Here is called "proposition' only that particular argument that we want to prove in accordance with our own opinion. It must be such as no argument contradictory [to it ] can exclude it. "The proposition etc."; this means that through the formulation of a proposition, & reason and an example, an argument which has not yet been understood by onother [ man ], is made evident to him.-न्यायमुख. पृ० ५.। ६प्रमाणवार्तिकालंकार पृ० ४८८। प्रमाणवा० मनो० पृ. ४२०। ७प्रमाणवार्तिकालंकार. पृ० ५४५, ५४६,५४९ । प्रमाणवार्तिकमनोरथनन्दिवृत्ति. पृ० ४२४,४४५,४५८,४५९। ८ यद्यपि प्रमाणसमुच्चयो नेदानी संस्कृतभाषायामुपलभ्यते तथापि भोटभाषानुवादमवलम्ब्य प्राचीनेषु च ग्रन्थेषु विद्यमानानि दिङ्गागवचनानि संगृह्य समालोच्य च मया सङ्कलिता इमाः कारिका इति ध्येयम् । .
नय०टि० १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org