________________
.
-
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० २१९ पं० ३.. पृ० २१९ पं० ३. स्वपन्नपि स । (स्वपन्नपि च?)।
पृ० २१९ पं० १३-१५. ज्ञः स्वातन्ये सर्वत्र । क्रमेण पुरुषनियतिकालवादा अत्र विवक्षिताः । पृ० २१९ पं० १६. द्रव्यार्थप्रसवाद् । अत्र 'द्रव्यार्थप्रभवात् ।' इत्यपि सम्यग् भाति ।
पृ० २२१ पं० १,९,१४,१६. सत्त्वस्य "सत्त्वस्य कालसत्त्वपुरुषसत्त्वयो ‘सत्त्वातल्यता पूर्वत्र । सत्त्वस्य । 'पं० १,९,१४,१६' इत्यत्र यथासङ्खयं स्थितेष्वेतेषु पाठेषु 'सत्त्व'स्थाने 'स्वत्व'शब्दः समीचीनः स्यादित्यपि . भाति । दृश्यतां पृ० २२० पं० ४, टि० ११ । प्रतिषु सर्वत्र 'सत्त्व'स्थाने 'सत्व'शब्द एव दृश्यते इत्यपि ध्येयम् ।
पृ० २२१ पं० ८. समनन्तरानुलोमाः पूर्वविरुद्धा निवृत्तनिरनुशयाः । दृश्यतां पृ० ४५५ ६० ७ । उद्धृतमिदं विशेषावश्यकभाष्यस्य कोट्टार्यवृत्तौ कोट्याचार्यवृत्तौ [पृ० ६५३ ] च।
पृ० २२१ पं० १७. सत्त्वाविनाभावित्वेन । अयं पाठः शोभन एव भाति, दृश्यतां पृ० २२१ पं० ६ । 10 पृ० २२२ पं० ५,१७,२९,३०. मयूराण्डक। अत्र 'मयूरांगक' इति प्रतिस्थः पाठः शोभन एव भाति । एवं च 'तथा मयूराङ्गकबहादीनामेव पञ्चवर्णता, मयूरादिबएण्येव च विचित्राणि' इत्यपि मूलमत्र सम्भाव्यते ।
पृ० २२२ पं०८,१९. केनाञ्जितानि । उद्धृतेयं कारिका शीलाङ्काचार्यकृतायाम् आचारागसूत्रवृत्तौ । पृ० २२२ पं० १७. मयूर"। "मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितःः॥" - विशेषावश्यकमलधारिवृ० पृ० ७०२ ।
पृ० २२२ पं० १८. नोदकादीनाम् । (नोदरादीनाम् ?)। 15 पृ० २२३ पं० ७. तदपि । हस्तलिखितप्रतिस्थः 'तमिति' इति पाठोऽप्यन्त्र कथञ्चित् सङ्गच्छेत ।
पृ० २२४ पं० ४,१४. क्रियायाः । पञ्चम्यन्तोऽयं निर्देशः । दृश्यतां पृ० २२५ पं० २९ । पृ० २२४ पं० १०. घृताद्यवस्था । भा० प्रतावयं पाठः, स च समीचीनतरः । य० प्रतौ तु घृतावस्था' इति पाठः ।
पृ० २२४ पं० १८. अत्यासन्न । “तत बुद्धिमान् नास्तिक्यबुद्धिं जह्याद् विचिकित्सां च । कस्मात् ? प्रत्यक्षं - 'ह्यल्पम् , अनल्पमप्रत्यक्षमस्ति यदागमानुमानयुक्तिभिरुपलभ्यते । यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते तान्येव सन्ति 20 चाप्रत्यक्षाणि । सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्याद् मनोनवस्थानात् समानाभिहारादभिभवादतिसौक्ष्म्याच प्रत्यक्षानुपलब्धिः । तस्मादपरीक्षितमेतदुच्यते-प्रत्यक्षमेवास्ति, नान्यदस्तीति ।" - चरकसं० १।११।७-८ ।
पृ० २२५ पं० ५,२६. कटुकः। दृश्यतां टिपृ० ६४ पं० २३ । पृ० २२६ पं० १९-२०. "नाहं कर्तेति भावानां । “नाहं कर्तेति भूतानां" - आचारागसूत्रशीला० पृ० १७ ॥
पृ० २२७ पं० ६. तत्पट उत्पद्यते । (न घट उत्पद्येत ? )। 25 पृ० २२८ पं० १,४. 'स्थितः, योऽस्ति । अत्र "स्थितो योऽस्ति' इति सम्यक् ।
पृ० २२८ पं० ५,६. किमिदं । 'किमिदं भदन्त ! अस्ति इत्युच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव । किमिदं भदन्त ! 'समयः' इत्युच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव' इत्यर्थः ।
पृ० २२८५० ७. आवलिको... “तत्कृतः कालविभागः ।४।१५/."तत्र परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाहनक्षेत्रव्यतिक्रमकाल: समय इत्युच्यते परमदुरधिगमोऽनिर्देश्यः।......ते त्वसंख्येया आवलिका । ताः 30 संख्येया उच्छासस्तथा निश्वासः । तौ बलवतः पट्विन्द्रियस्य कल्यस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । तेऽष्टात्रिंशदधं च नालिका । ते द्वे मूहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पक्षः ।...'' इति तत्त्वार्थभाष्ये।
पृ० २२८ पं० ९. स्वशक्ति..। “स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे । क्रियाणामभिनिष्पत्तौ सामर्थ्य साधनं विदुः ॥ ३७॥१॥ क्रियानिवृत्तौ द्रव्यस्य शक्तिः साधनं साध्यतेऽनेन क्रियेति भाष्यकारप्रभृतयो विदुः ।" - वाक्यपदीयवृ० ।
पृ. २२९५० ९. भरत-मरुदेव्या...।"अहो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं भरतो ॐभरताधिपः॥ पूर्वमप्राप्तधर्माऽपि परमानन्दनन्दिता। योगप्रभावतः प्राप मरुदेवा परं पदम् ॥” इति योगशास्त्रे ११०,११॥
पृ० २२९ पं० १९. अधुनाऽनादित्व। प्रतिस्थपाठानुसारेण 'अथानादित्व' इति पाठः स्यादत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org