Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 562
________________ पृ० २०१ पं० १,१०.] टिप्पणानि। पृ० १९२ पं० ३,१६, ३१. तदुपान्तिके । (तदु वान्तिके ?)। पृ० १९२ पं० १३. बहूनामाश्रयः । (बहूनां धानमाश्रयः?)। दृश्यतां पृ० २६५ पं० ८। पृ० १९२ पं० १४. यच्च चेतनं । अत्र यच्चेतनं इति य०प्रतिस्थः पाठः समीचीनः । पृ० १९२ पं० १६. अलोके । धर्माधर्मावच्छिन्नमाकाशं लोकः, तदनवच्छिन्नमाकाशमलोकः । पृ० १९३ पं० २, १७. वितट । “प्रपातस्त्वतटो भृगुः ॥" - अमरको० ।२।३।४। पृ० १९३ पं० ९. सर्वज्ञमेव । (सर्वज्ञ एव ?)। पृ० १९४ पं० ३. प्राप्तन्यो । आचारागसूत्रवृत्तिप्रभृतिषु उद्धृतेयं कारिका । पृ० १९४ पं० १७. जिनवचनोपजीवनम् । (जिवनवचनोपजीविनाम् ?)। दृश्यतां पृ० १९४ टि. ४ । पृ० १९५ पं० १५ - १६. कोऽसौ भेदो नाम नियतेरपि? क्रियासाध्यासाध्यार्थरूपत्वाद् । अत्र 'कोऽसौ भेदो नाम ? नियतेरपि क्रिया-क्रियासाध्यासाध्यार्थरूपत्वाद्' इति य०प्रत्यनुसारी पाठो योजना च 10 सम्यक् प्रतीयेते । दृश्यतां पृ० १९५ पं० २१ । __ पृ० १९५ पं० २२. सत्यप्यभेदबुद्धयाभासभावे सतीति । अत्र 'सत्यप्यभेदबुद्धयाभासभावेऽसतीति' इति पाठः स्यात् । पृ० १९५ पं० २३. परमार्थतो भेदः । अत्र 'परमार्थतोऽभेदः' इति पाठो रम्यो भाति । पृ० १९५ पं० २५. तदा तदाभासाद् । अत्र 'तदाऽभेदाभासाद्' इति पाठो रम्यो भाति । 15 पृ० १९६ पं० ४, २७. बाल्यकौमार' । दृश्यतां पृ० २०६ पं० १४ । पृ० १९७ पं० ६-७. नियताया. 'उत्पत्तेः । अत्र 'नियतायाः' इत्यस्य 'उत्पत्तेः' इत्यादिना सम्बन्धः । पृ० १९७ पं० २१ - २२. ब्रीहि भेदाद्वा भिन्ना । व्रीहिरित्येका अङ्कुरादिभेदाद् भिन्ना । अथवा अङ्कुर इत्यभिन्ना रूपादिभेदाद् भिन्ना नियतिरित्याशयोऽत्र भाति ।। पृ० १९८ पं० ६,१६,१९,२३. स्त्रीपुंस... । अचतुरविचतुरस्त्रीपुंसधेन्वनडुहर्सामवाङ्मनसाक्षिध्रुवदारगवोर्वष्ठीव- 20 रात्रिन्दिवाहर्दिवसरजसनिश्रेयसपुरुषायुषद्यायुषच्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः [पा० ५।४।७७] । एते पञ्चविंशतिरजन्ता निपात्यन्ते.......।"-पा० सिद्धान्तकौ०। पृ० १९९ पं० १. मृद्रव्य... । अत्र 'मृदूर्खादित्वेन' इति 'मृदूर्धादित्वघटत्वेन' इति वा पाठोऽपि स्यात् । पृ० १९९ पं० ४. एवं । अत्र 'एवं च' इति पठनीयम् । पृ० १९९ पं० ५. अन्यत्रविधानप्रतिषेध । अन्यत्र विधानं यस्मिन् प्रतिषेधे विवक्षितं सोऽन्यत्रविधानप्रतिषेधः । 25 पृ० १९९ पं० ७. अस्तिभवति । दृश्यतां पृ० ३२४ पं० २७-२८ । पृ० २०० पं० ६. एकप्रयोजनेनान्योन्या । अत्र 'एकप्रबन्धेनान्योन्या” इत्येव शुद्धः पाठः । दृश्यतां पृ० २९४ पं० १७, पृ० ४५३ टि०२। पृ० २०० पं० २४. प्रविशीर्णो विशीर्य विशीर्यमाणो । अत्र यदि 'प्र'शब्दसूचितं प्रकर्ष दर्शयितुं 'विशीर्य' इति पदमुपात्तं तर्हि यथाश्रुतं साध्वेव । अन्यथा तु 'प्रविशीर्णो विशीर्यमाणो' इत्येतावतापि निर्वहिष्यति । ___ पृ० २०१५० १,१०. व्यवस्थावकाशक्रमेण । (व्यवस्थाविकाशक्रमेण ? )। 30 १ "एवं कारणरूपमात्मानमुद्दिश्य अथेदानीं कार्यरूपेणोद्दिशति-तदेजति । तदेव सर्वप्राणिरूपेण वस्थितं सत् एजति कम्पवद् भवति क्रियावद् भवति । तन्नेजति, तदेव च न चलति स्थावररूपावस्थितं सत् । तदरे, तदेव च दूरे आदित्यनक्षत्रादिरूपेणावस्थितम् । तत् उ अन्तिके, उः समुच्चये, तदेव च अन्तिके पृथिव्यादिरूपेणावस्थितम् । तदन्तरस्य सर्वस्य, तदेव च अस्य सर्वस्य प्राणिजातस्य विज्ञानघनरूपेणावस्थितं सत् अन्तर्मध्यत आस्ते । तदु सर्वस्यास्य बाह्यतः, तदेव च सर्वस्यास्य प्राणिजातस्य बाह्यतः जडरूपेणावस्थितमास्ते । चेतनाचेतनरूपमनन्तं सर्वगं ब्रह्मेत्यर्थः ।" इति उवटविरचिते शक्लयजुर्वेदभाष्ये । ईशावास्योपनिषद्यपि दृश्यते इयं 'तदेजति...' इति कारिका ६। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662