________________
पृ० २०१ पं० १,१०.]
टिप्पणानि।
पृ० १९२ पं० ३,१६, ३१. तदुपान्तिके । (तदु वान्तिके ?)। पृ० १९२ पं० १३. बहूनामाश्रयः । (बहूनां धानमाश्रयः?)। दृश्यतां पृ० २६५ पं० ८। पृ० १९२ पं० १४. यच्च चेतनं । अत्र यच्चेतनं इति य०प्रतिस्थः पाठः समीचीनः । पृ० १९२ पं० १६. अलोके । धर्माधर्मावच्छिन्नमाकाशं लोकः, तदनवच्छिन्नमाकाशमलोकः । पृ० १९३ पं० २, १७. वितट । “प्रपातस्त्वतटो भृगुः ॥" - अमरको० ।२।३।४। पृ० १९३ पं० ९. सर्वज्ञमेव । (सर्वज्ञ एव ?)। पृ० १९४ पं० ३. प्राप्तन्यो । आचारागसूत्रवृत्तिप्रभृतिषु उद्धृतेयं कारिका । पृ० १९४ पं० १७. जिनवचनोपजीवनम् । (जिवनवचनोपजीविनाम् ?)। दृश्यतां पृ० १९४ टि. ४ ।
पृ० १९५ पं० १५ - १६. कोऽसौ भेदो नाम नियतेरपि? क्रियासाध्यासाध्यार्थरूपत्वाद् । अत्र 'कोऽसौ भेदो नाम ? नियतेरपि क्रिया-क्रियासाध्यासाध्यार्थरूपत्वाद्' इति य०प्रत्यनुसारी पाठो योजना च 10 सम्यक् प्रतीयेते । दृश्यतां पृ० १९५ पं० २१ ।
__ पृ० १९५ पं० २२. सत्यप्यभेदबुद्धयाभासभावे सतीति । अत्र 'सत्यप्यभेदबुद्धयाभासभावेऽसतीति' इति पाठः स्यात् ।
पृ० १९५ पं० २३. परमार्थतो भेदः । अत्र 'परमार्थतोऽभेदः' इति पाठो रम्यो भाति । पृ० १९५ पं० २५. तदा तदाभासाद् । अत्र 'तदाऽभेदाभासाद्' इति पाठो रम्यो भाति । 15 पृ० १९६ पं० ४, २७. बाल्यकौमार' । दृश्यतां पृ० २०६ पं० १४ । पृ० १९७ पं० ६-७. नियताया. 'उत्पत्तेः । अत्र 'नियतायाः' इत्यस्य 'उत्पत्तेः' इत्यादिना सम्बन्धः ।
पृ० १९७ पं० २१ - २२. ब्रीहि भेदाद्वा भिन्ना । व्रीहिरित्येका अङ्कुरादिभेदाद् भिन्ना । अथवा अङ्कुर इत्यभिन्ना रूपादिभेदाद् भिन्ना नियतिरित्याशयोऽत्र भाति ।। पृ० १९८ पं० ६,१६,१९,२३. स्त्रीपुंस... । अचतुरविचतुरस्त्रीपुंसधेन्वनडुहर्सामवाङ्मनसाक्षिध्रुवदारगवोर्वष्ठीव- 20
रात्रिन्दिवाहर्दिवसरजसनिश्रेयसपुरुषायुषद्यायुषच्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः [पा० ५।४।७७] । एते पञ्चविंशतिरजन्ता निपात्यन्ते.......।"-पा० सिद्धान्तकौ०।
पृ० १९९ पं० १. मृद्रव्य... । अत्र 'मृदूर्खादित्वेन' इति 'मृदूर्धादित्वघटत्वेन' इति वा पाठोऽपि स्यात् । पृ० १९९ पं० ४. एवं । अत्र 'एवं च' इति पठनीयम् । पृ० १९९ पं० ५. अन्यत्रविधानप्रतिषेध । अन्यत्र विधानं यस्मिन् प्रतिषेधे विवक्षितं सोऽन्यत्रविधानप्रतिषेधः । 25 पृ० १९९ पं० ७. अस्तिभवति । दृश्यतां पृ० ३२४ पं० २७-२८ ।
पृ० २०० पं० ६. एकप्रयोजनेनान्योन्या । अत्र 'एकप्रबन्धेनान्योन्या” इत्येव शुद्धः पाठः । दृश्यतां पृ० २९४ पं० १७, पृ० ४५३ टि०२।
पृ० २०० पं० २४. प्रविशीर्णो विशीर्य विशीर्यमाणो । अत्र यदि 'प्र'शब्दसूचितं प्रकर्ष दर्शयितुं 'विशीर्य' इति पदमुपात्तं तर्हि यथाश्रुतं साध्वेव । अन्यथा तु 'प्रविशीर्णो विशीर्यमाणो' इत्येतावतापि निर्वहिष्यति । ___ पृ० २०१५० १,१०. व्यवस्थावकाशक्रमेण । (व्यवस्थाविकाशक्रमेण ? )।
30
१ "एवं कारणरूपमात्मानमुद्दिश्य अथेदानीं कार्यरूपेणोद्दिशति-तदेजति । तदेव सर्वप्राणिरूपेण वस्थितं सत् एजति कम्पवद् भवति क्रियावद् भवति । तन्नेजति, तदेव च न चलति स्थावररूपावस्थितं सत् । तदरे, तदेव च दूरे आदित्यनक्षत्रादिरूपेणावस्थितम् । तत् उ अन्तिके, उः समुच्चये, तदेव च अन्तिके पृथिव्यादिरूपेणावस्थितम् । तदन्तरस्य सर्वस्य, तदेव च अस्य सर्वस्य प्राणिजातस्य विज्ञानघनरूपेणावस्थितं सत् अन्तर्मध्यत आस्ते । तदु सर्वस्यास्य बाह्यतः, तदेव च सर्वस्यास्य प्राणिजातस्य बाह्यतः जडरूपेणावस्थितमास्ते । चेतनाचेतनरूपमनन्तं सर्वगं ब्रह्मेत्यर्थः ।" इति उवटविरचिते शक्लयजुर्वेदभाष्ये । ईशावास्योपनिषद्यपि दृश्यते इयं 'तदेजति...' इति कारिका ६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org