________________
न्यायागमानुसारिणीवृत्त्यलकृतस्य नयचक्रस्य [पृ० १९० ५० १०अजीवयं पावे । सुटुवि मेहसमुदए होइ पभा चंदसूराणं ॥ से तं साईयं सपज्जवसियं, से तं अणाइयं अपज्जवसिअं।" इति नन्दीसूत्रे [ सू० ४२ ] पाठ उपलभ्यते । "तेन विज्ञानमविनाभावित्वात् सिद्धमेव, शब्दानुविद्धत्वं तु साध्यत इति । नैतत् स्वाभिप्रेतोपपत्तिबलादेव, किं तर्हि ? भगवदाज्ञापि तथोपश्रूयते-सव्वजीवाणं पीत्यादि । 'अक्खराणक्खरसुता'दिभेदेन श्रुतज्ञानप्ररूपणायामेकेन्द्रियादिस्वामिकमुक्तं सूत्रे , तथा भाज्येऽपि-तं पि जति आवरिज्जेज्ज तेण जीवो अजीवतं 5 पावे । सुटुवि मेहसमुदए होइ पभा चंदसूराणं ॥” इति अष्टमारे नयचक्रवृत्तौ वक्ष्यते [पृ० ३७४-१], तदनुसारेण नयचक्रवृत्तिकृतां समये नन्दीसूत्रं तद्भाष्यं च पृथक् पृथगासीदिति प्रतीयते । कस्मिंश्चित् समये तु बृहत्कल्पसूत्रनियुक्ति भाष्यवत् तदुभयं परस्परं सम्मील्य एकीभूतं 'नन्दीसूत्र'नाम्नैव च उभयमपि प्रसिद्धिमापन्नमिति प्रतिभाति ।
पृ० १९० पं० १०. अद्यते । “अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते ।" - इति तैत्तिरीयोपनिषदि २।२ ।
पृ० १९० पं० १०-११. अनाद्यनन्तशोऽपि विपरि । अत्र 'अनाद्यनन्तशो विपरिवर्तितत्वात्' इति भा०10 प्रत्यनुसारी पाठः साधुः प्रतिभाति ।
पृ० १९० ५० १३. नाशस्यैतत् । अन्न 'नान्यस्यैतत्' इति भा०प्रति पाठःसाधुर्भाति, पुरुषादन्यस्यैतत् सर्व न घटत इत्याशयः । दृश्यतां पृ० १८९ पं० २६ ।
पृ० १९० ५० १८. भोक्तभोग्य । “भोज्यं भक्ष्ये ।।३।६९। भोग्यमन्यत् ।” -पा० सिद्धान्तकौ० । अत्र 'गिलति' इति शब्ददर्शनाद् भोज्यत्वं चेद् विवक्षितं तदा 'भोक्तृभोज्यभावाद्' इति हस्तलिखितप्रतिस्थः पाठोऽपि साधुः।। 15 पृ० १९० पं० २५-२६. स्वात्मनि छिनत्तीति । "स्वात्मनि वृत्तिविरोधात् । न हि तदेव अङ्गुल्यग्रं तेनैवाङ्गुल्यग्रेण स्पृश्यते सैवासिधारा तयैवासिधारया छिद्यते ।" - अभिधर्मकोशस्फुटार्था० १।३९। मध्यमकवृत्ति० पृ० ६२-६३ । __पृ० १९१ पं० १,५. तन्त्रवायक। अत्र भा०प्रत्यनुसारी 'तन्त्रवायकोशकारक' इति पाठोऽपि साधुः । "लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः ।२।५।१३। 'तन्त्रं तन्तून् वयति तन्त्रवायः इति स्वामी ।" - अमरकोषसुधा० ।
पृ० १५१ पं० ७-८. यथोर्णनाभिः. केशलोमानीति वा यथा सुदीप्तात् 'तथाक्षरात् । मुण्डकोप20 निषदि केशलोमानि' इत्यस्यानन्तरं 'तथाक्षरात्...' इति पाठोपलम्भेऽपि तत्र वक्ष्यमाणं 'यथा सुदीप्तात्...' इति चतुर्थमुदाहरण लाघवायात्रैवोपन्यस्तं नयचक्रवृत्तिकृद्भिरिति भाति ।
पृ० १९१ पं० १७. अजामेकां लोहितशुक्ल कृष्णां । दृश्यतां पृ० २६६ पं० ६,२६ ।
पृ० १९१ पं० २२. कः कण्टकानां । आचाराङ्ग-सूत्रकृताङ्गसूत्रयोः शीलाङ्काचार्यकृतवृत्तौ उत्पादादिसिद्धि-षड्दर्शनसमुच्चयबृहद्वृत्तिप्रभृतिग्रन्थेषु चोद्धृतेयं कारिका । "कण्टकस्य च तीक्ष्णत्वं मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां 25 स्वभावेन भवन्ति हि ॥” इत्यप्युद्धृतं पद्यं शीलाङ्काचार्यकृतायां सूत्रकृताङ्गवृत्तौ ।
पृ० १९२ पं० २, २७. "बहुधानमिति, धाना बीजानि, तदेवैकं सर्वबीजकम् ।" -वृषभदेवटी० पृ० २० ।
१ दृश्यतां टिपृ. ९ पं० ३१ टि. ७। २ दृश्यतां पृ० १९१ टि. ४ । “यथा लोके प्रसिद्ध उर्णनाभिलूताकीटः किञ्चित् कारणान्तरमनपेक्ष्य स्वयमेव सृजते स्वशरीराव्यतिरिक्तान् तन्तून् बहिः प्रसारयति पुनस्तानेव गृह्णते च गृह्णाति खात्मभावमेवापादयति । यथा च पृथिव्यामोषधयो ब्रीह्यादिस्थावराणीत्यर्थः, स्वात्माव्यतिरिक्ता एव सम्भवन्ति प्रभवन्ति । यथा च सतो विद्यमानाजीवतः पुरुषात् । केशाश्च लोमानि च सम्भवन्ति विलक्षणानि । यथैते दृष्टान्तास्तथा विलक्षणं सलक्षणं च निमित्तान्तराद्यनपेक्षाद् यथोक्तलक्षणादक्षरात् सम्भवति समुत्पद्यत इह संसारमण्डले विश्वं समस्तं जगत् । अनेकदृष्टान्तोपादानं तु सुखार्थप्रबोधनार्थम् ।.......... दृष्टान्तमाह - यथा सुदीप्तात् सुष्ठ दीप्तादिद्धात् पावकादग्नेर्विस्फुलिङ्गाः अन्यवयवाः सहस्रशोऽनेकशः प्रभवन्ते निर्गच्छन्ति सरूपा अग्निलक्षणा एव, तथोक्तलक्षणादक्षराद् विविधा हे सोम्य ! भावा जीवाः ''प्रजायन्ते तत्र चैव तस्मिन्नेवाक्षरेऽपियन्ति देहोपाधिविलयमनु विलीयन्ते.. अक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलय
निमित्तत्वम् ।” इति शंकराचार्यरचिते मुण्डकोपनिषद्भाष्ये। Jain Education International For Private & Personal Use Only
www.jainelibrary.org