________________
१० १९० ६०७-९.]
टिप्पणानि । पृ० १४८ पं० १०. श्वेतिका । अत्र 'श्वेतिका शब्देन श्वेतवर्णा 'पीतिका'शब्देन च पीतवर्णा मृद् विवक्षिता । पृ० १८९ पं० ५. पुरुष एवेदं...। दृश्यतां टिपृ० ५९ पं० २ टि० ।
पृ० १८९ पं० २१, २७. औषधव्यञ्जनादीनि । अत्र हस्तलिखितप्रत्यनुसारेण 'औषधाभ्यञ्जनादीनि' इति पाठः शुद्धः प्रतीयते, पादाभ्यञ्जनादेनेत्रोपकारित्वात् । दृश्यतां पृ० ४७५ पं० १, पृ० ३७२ पं० २१ ।
पृ० १८९ पं० २४, २८. एकोऽप्यह: । दृश्यतां पृ० २४५ पं० १-७।।
पृ० १९०५०७-९. अक्खरस्स.."चंदसूराणं । "सेव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणिों पजवग्गक्खरं निष्फज्जइ । सव्वजीवाणं पिअणं अक्खरस्स अणंतभागो णिच्चुग्घाडिओ। जति पुण सो वि वरिजेज तेण जीवो
१“अथ "भगवतो वस्तुतत्त्वज्ञानजिज्ञासयाह-एगे भवमित्यादि । एको भवानिति एकत्वाभ्युपगमे भगवता आत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगः सोमिलभट्टेन कृतः। द्वौ भवानिति च द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगो विहितः । अक्खये भवमित्यादिना च पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः । अणेगभूयभावभविए भवंति अनेके भूता अतीता भावाः सत्तापरिणामा भव्याश्च भाविनो यस्य स तथा । अनेन चातीतभविष्यत्सत्ताप्रश्नेन अनि यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति। तत्र च भगवता स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात् तमवलम्ब्य उत्तरमदायि-एगेवि अहमित्यादि । कथमेतदित्याह-दवट्याए एगोऽहंति । जीवद्रव्यस्य एकत्वेन एकोऽहम् । न तु प्रदेशार्थतया ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधकः । तथा च कञ्चित् स्वभावमाश्रित्य एकत्वसंख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं नाणदंसणट्रयाए दुवेवि अहंति । न चैकस्य खभावभेदो न दृश्यते, एको हि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् स्वभावाँल्लभत इति । तथा प्रदेशार्थतया असंख्येयप्रदेशतामाश्रित्य अक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात् । तथा अव्ययोऽप्यहम्, कतिपयानामपि च व्ययाभावात् । किमुक्तं भवति ? अवस्थितोऽप्यहम्, नित्योऽप्यहम् , असंख्येयप्रदेशिता हि न कदाचनापि व्यपैति, अतो नित्यताभ्युपगमेऽपि न दोषः । तथा उवओगट्रयाएत्ति विविधविषयान् उपयोगानाश्रित्य अनेकभूतभावभविकोऽप्यहम् । अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाञ्चेत्यनित्यपक्षोऽपि न दोषायेति ।" इलि अभयदेवसूरिरचितायां भगवतीसूत्रवृत्तौ । ज्ञाताधर्मकथासूत्रेऽपि पञ्चमाध्ययने शुकपरिव्राजकप्रश्ने एतादृश्येव अभयदेवसूरिरचिता वृत्तिः। २“सव्वागासेत्यादि । सर्वं च तदाकाशं च सर्वाकाशम् , लोकालोकाकाशमित्यर्थः । तस्य प्रदेशा निर्विभागा भागा सर्वाकाशप्रदेशाः, तेषामग्रं परिमाणं सर्वाकाशप्रदेशाग्रम् , तत् सर्वाकाशप्रदेशैरनन्तगुणितमनन्तशो गुणितमेकैकस्मिन्नाकाशप्रदेशेऽनन्तागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते पर्यायपरिमाणाक्षरं निष्पद्यते । इयमत्र भावना - सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशैरनन्तशो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं सर्वाकाशपर्यायाणामग्रं भवति । एकैकस्मिन्नाकाशप्रदेशे यावन्तोऽगुरुलघुपर्यायास्ते सर्वेऽपि एकत्र पिण्डिता एतावन्तो भवन्तीत्यर्थः । एतावत्प्रमाणं चाक्षरं भवति ।.......इह यद्यपि सर्व ज्ञानमविशेषेणाक्षरमुच्यते सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरं श्रुतज्ञानमवसेयम् । श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो मतिज्ञानमपि।"सब्वजीवाणं पीत्यादि । सर्वजीवानामपि णमिति वाक्यालङ्कारे अक्षरस्य श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मतिज्ञानस्यापि अनन्तभागः अनन्ततमो भागो नित्योद्धाटः सर्वदैवाप्रावृतः।.."तथा चाह-जइ पुण इत्यादि । यदि पुनः सोऽपि अनन्ततमो भाग आत्रियेत तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात् । जीवो हि नाम चैतन्यलक्षणः, ततो यदि प्रबलश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे चैतन्यमात्रमप्याब्रियेत तर्हि जीवस्य स्वस्वभावपरित्यागादजीवतैव संपनीपद्येत । 'अत्रैव दृष्टान्तमाह -सुट्टवीत्यादि । सुष्ठपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः । यथा निबिडनिबिडतरमेघपटलैराच्छादितयोरपि सूर्याचन्द्रमसोनैकान्तेन तत्प्रभानाशः एवमनन्तानन्तैरपि ज्ञानदर्शनावरणकर्मपरमाणुभिरेकैकस्यात्मप्रदेशस्य आवेष्टितपरिवेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्याप्यभावो भवति। अतः सिद्धोऽक्षरस्य अनन्ततमो भागो नित्योद्धाटितः।” इति नन्दीसूत्रस्य मलयगिरिरचितायां वृत्तौ। ३ दृश्यतां पृ० ३५१ पं० ४,५,६,२८ । “अहवा सव्वजहण्णो अणंतभागो निधुग्घाडो पुढविक्काए, चैतन्यमात्रमात्मनः । तं च उक्कोसथीणिद्धिसहितनाणदसणावरणोदए वि णो आवरिजति । जति पुण सो वि वरिजेज तेण जीवो अजीवयं पावे । सुट्ट...” इति जेसलमेरस्थायां जिनदासगणिमहत्तररचितायां नन्दीचूर्णौ पाठं दृष्ट्वा 'पुरा अयं पाठो नन्दीसूत्रे प्रसिद्ध आसीत्' इत्यनुमाय निर्दिष्टोऽयमस्माभिः पाठः। सम्प्रति तु नन्दीसूत्रे 'जति पुण सो वि आवरिजा तेण जीवो अजीवत्तं पावेज । सुट्ट...' ईदृशः पाठ उपलभ्यते इति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org