________________
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० १८३ ५० १२पृ० १८३ पं० १२. दर्शनचारित्र"। "मोहनीयबन्धो द्विविधः - दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च ।" - तत्त्वार्थभा० ८९।
पृ० १८३ पं० १५,२५. यदा तु" श्रमान्विताः । अतिस्थौल्यकार्यचिकित्सायामयं चरकसंहितायां श्लोकः ।
पृ. १८३ पं० १७,२७. अष्टादश.| "ज्ञानं चतुर्भेदं मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यायज्ञानमिति । अज्ञानं 5 त्रिभेदं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमिति । दर्शनं त्रिभेदं चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनमिति । लब्धयः पञ्चविधा दानलब्धिाभलब्धि गलब्धिरुपभोगलब्धिर्वीर्यलब्धिरिति । सम्यक्त्वं चारित्रं संयमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावा भवन्तीति ।"-तत्त्वार्थभा० २।५।
पृ० १८३ पं० १८. ज्ञानदर्शनवीर्यः। दृश्यतां पृ० ४७७ पं० १,९, पृ० ३७२ पं० २२ ।
पृ० १८३ पं० १९-२१. निर्वतितानि भावेन्द्रियम् । दृश्यतां पृ० ४७४ टि० १०, पृ० ४७६ टि० २ । 10 पृ० १८३ पं० २३,३०. जो सुत्ते... 'नो सुप्तः स्वमं पश्यति, सुप्तजागरिकायां वर्तमानः स्वमं पश्यति' इत्यर्थः ।
पृ० १८५ पं० १६-१७. निद्रा आचैतन्यविशेषः । दृश्यतां टिपृ० ६५ पं० १९ । पृ० १८६ पं० १,९. प्रत्यग्र। "प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ नूनश्च" - अमरको० ३।१।७७ ।
पृ० १८६ पं० ४. आपद्यते । अत्र 'आपद्यते कर्मादि पृथिव्यादि च' इत्यपि पाठः स्यात् । दृश्यतां पृ० १८६ पं० २४,२५। 15 पृ० १८६ पं० १५ - १६. मिथ्या"। "सकषायत्वाजीवः कर्मणो योग्यान् पुद्गलानादत्ते ।" - तत्त्वार्थसू० ८।२ ।
पृ० १८६ पं० १९ पुचि... । दृश्यतां पृ० ३६२ पं०९-११। 'पूर्व भदन्त ! कुकुटी पश्चादण्डकम् ? पूर्वमण्डकं पश्चात् कुक्कुटी?
कटी? रोह! या सा कुक्कटी सा कुतः? अण्डकतः। यत् तदण्डकं तत् कुतः? कुक्कटीतः । एवं रोह! पूर्वमपि एते पश्चादप्येते । द्वावप्येतौ शाश्वतौ भावौ । अनानुपूर्वी एषा रोह !' इत्यर्थः । ।
पृ० १८६ पं० २३. सव्वजीव... । दृश्यतां पृ० ३६१ पं०५-८ । 'सर्वे जीवा भदन्त ! एकैकस्य मातृतया 20 पितृतया भ्रातृतया भार्यातया पुत्रतया दुहितृतया? गौतम ! असकृत् अथवा अनन्तकृत्वः।' इत्यर्थः ।
पृ० १८६ पं० २४-२५. उच्छासनिःश्वासभाषामनस्त्वादिकार्मण: । दृश्यतां पृ० ३४८-३४९ ।
अतो द्रव्यनिद्रोपगता अपि क्वचिद् द्वितीयपौरुष्यादौ सततं जागरूका एव ।” इति आचाराङ्गसूत्रस्य शीलाङ्काचार्यरचितवृत्तौ । "या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥” इति भगवद्गीतायाम् २१६९ ।
१ "सम्प्रति प्रस्तावागतं स्थौल्यकार्यचिकित्साप्रधानभूतं स्वप्नं निद्रारूपं सर्वतो निरूपयति-यदा वित्यादि । मनसीति अन्तःकरणे, किंवा मनोयुक्त आत्मा मन इत्युच्यते । तस्मिन् क्लान्त इति निष्क्रिये । कर्मात्मान इति इन्द्रियाणि । क्लमान्विताः क्रियारहिताः । विषयेभ्यो रूपादिभ्यः । मनसोऽप्रवृत्त्या इन्द्रियाण्यपि न प्रवर्तन्त इति भावः । तदा स्वपितीति स्वप्नगुणयुक्तो भवति । स्वप्नश्च निरिन्द्रियप्रदेशे मनोऽवस्थानम् । किंवा कर्मात्मानः संसार्यात्मानः । मनसि क्लान्ते आत्मानः क्लान्ता भवन्ति, मनोधीनप्रवृत्तित्वादात्मनाम् । ततश्च मनोनिवृत्त्या आत्मानोऽपि न विषयान् गृह्णन्ति । इन्द्रियाणि चात्मनोऽप्रवृत्त्यैव न प्रवर्तन्ते।"-इति चक्रपाणिदत्तविरचितायां चरकसंहितावृत्तौ पृ० ११८। २ "खप्नाधिकारादेवेदमभिधातुमाह-सुत्ते णमित्यादि । सुत्तजागरेत्ति नातिसुप्तो नातिजाग्रदित्यर्थः।" इति भगवतीसूत्रस्य अभयदेवसूरिरचितवृत्तौ। ३ अचेतनस्य भाव आचैतन्यम् । ४ “मिथ्यादर्शनम् अविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति । तत्र सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनम् । तद् द्विविधम् - अभिगृहीतमनभिगृहीतं च । तत्र अभ्युपेत्य असम्यग्दर्शनपरिग्रहोऽभिगृहीतमज्ञानिकादीनां त्रयाणां त्रिषष्टानां कुवादिशतानाम् । शेषमनभिगृहीतम् । यथोक्ताया विरतेर्विपरीता अविरतिः । प्रमादः स्मृत्यनवस्थानं कुशलेष्वनादरो योगदुष्प्रणिधानं चैष प्रमादः । कषाया मोहनीये वक्ष्यन्ते [८१०] । योगस्त्रिविधः पूर्वोक्तः.[६।१] । एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन् पूर्वस्मिन् सति नियतमुत्तरेषां भावः । उत्तरोत्तरभावे तु पूर्वेषामनियम इति । सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते । कर्मयोग्यानिति अष्टविधे पुद्गलग्रहणकर्मशरीरग्रहणयोग्यानि । नामप्रत्ययाः सर्वतो योगप्रत्ययादिति वक्ष्यते [८।२५]।" इति तत्त्वार्थभाष्ये ८।१२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org