Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 560
________________ १० १९० ६०७-९.] टिप्पणानि । पृ० १४८ पं० १०. श्वेतिका । अत्र 'श्वेतिका शब्देन श्वेतवर्णा 'पीतिका'शब्देन च पीतवर्णा मृद् विवक्षिता । पृ० १८९ पं० ५. पुरुष एवेदं...। दृश्यतां टिपृ० ५९ पं० २ टि० । पृ० १८९ पं० २१, २७. औषधव्यञ्जनादीनि । अत्र हस्तलिखितप्रत्यनुसारेण 'औषधाभ्यञ्जनादीनि' इति पाठः शुद्धः प्रतीयते, पादाभ्यञ्जनादेनेत्रोपकारित्वात् । दृश्यतां पृ० ४७५ पं० १, पृ० ३७२ पं० २१ । पृ० १८९ पं० २४, २८. एकोऽप्यह: । दृश्यतां पृ० २४५ पं० १-७।। पृ० १९०५०७-९. अक्खरस्स.."चंदसूराणं । "सेव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणिों पजवग्गक्खरं निष्फज्जइ । सव्वजीवाणं पिअणं अक्खरस्स अणंतभागो णिच्चुग्घाडिओ। जति पुण सो वि वरिजेज तेण जीवो १“अथ "भगवतो वस्तुतत्त्वज्ञानजिज्ञासयाह-एगे भवमित्यादि । एको भवानिति एकत्वाभ्युपगमे भगवता आत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगः सोमिलभट्टेन कृतः। द्वौ भवानिति च द्वित्वाभ्युपगमे अहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोगो विहितः । अक्खये भवमित्यादिना च पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः । अणेगभूयभावभविए भवंति अनेके भूता अतीता भावाः सत्तापरिणामा भव्याश्च भाविनो यस्य स तथा । अनेन चातीतभविष्यत्सत्ताप्रश्नेन अनि यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति। तत्र च भगवता स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात् तमवलम्ब्य उत्तरमदायि-एगेवि अहमित्यादि । कथमेतदित्याह-दवट्याए एगोऽहंति । जीवद्रव्यस्य एकत्वेन एकोऽहम् । न तु प्रदेशार्थतया ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधकः । तथा च कञ्चित् स्वभावमाश्रित्य एकत्वसंख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं नाणदंसणट्रयाए दुवेवि अहंति । न चैकस्य खभावभेदो न दृश्यते, एको हि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् स्वभावाँल्लभत इति । तथा प्रदेशार्थतया असंख्येयप्रदेशतामाश्रित्य अक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात् । तथा अव्ययोऽप्यहम्, कतिपयानामपि च व्ययाभावात् । किमुक्तं भवति ? अवस्थितोऽप्यहम्, नित्योऽप्यहम् , असंख्येयप्रदेशिता हि न कदाचनापि व्यपैति, अतो नित्यताभ्युपगमेऽपि न दोषः । तथा उवओगट्रयाएत्ति विविधविषयान् उपयोगानाश्रित्य अनेकभूतभावभविकोऽप्यहम् । अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाञ्चेत्यनित्यपक्षोऽपि न दोषायेति ।" इलि अभयदेवसूरिरचितायां भगवतीसूत्रवृत्तौ । ज्ञाताधर्मकथासूत्रेऽपि पञ्चमाध्ययने शुकपरिव्राजकप्रश्ने एतादृश्येव अभयदेवसूरिरचिता वृत्तिः। २“सव्वागासेत्यादि । सर्वं च तदाकाशं च सर्वाकाशम् , लोकालोकाकाशमित्यर्थः । तस्य प्रदेशा निर्विभागा भागा सर्वाकाशप्रदेशाः, तेषामग्रं परिमाणं सर्वाकाशप्रदेशाग्रम् , तत् सर्वाकाशप्रदेशैरनन्तगुणितमनन्तशो गुणितमेकैकस्मिन्नाकाशप्रदेशेऽनन्तागुरुलघुपर्यायभावात् पर्यायाग्राक्षरं निष्पद्यते पर्यायपरिमाणाक्षरं निष्पद्यते । इयमत्र भावना - सर्वाकाशप्रदेशपरिमाणं सर्वाकाशप्रदेशैरनन्तशो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं सर्वाकाशपर्यायाणामग्रं भवति । एकैकस्मिन्नाकाशप्रदेशे यावन्तोऽगुरुलघुपर्यायास्ते सर्वेऽपि एकत्र पिण्डिता एतावन्तो भवन्तीत्यर्थः । एतावत्प्रमाणं चाक्षरं भवति ।.......इह यद्यपि सर्व ज्ञानमविशेषेणाक्षरमुच्यते सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरं श्रुतज्ञानमवसेयम् । श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो मतिज्ञानमपि।"सब्वजीवाणं पीत्यादि । सर्वजीवानामपि णमिति वाक्यालङ्कारे अक्षरस्य श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि ततो मतिज्ञानस्यापि अनन्तभागः अनन्ततमो भागो नित्योद्धाटः सर्वदैवाप्रावृतः।.."तथा चाह-जइ पुण इत्यादि । यदि पुनः सोऽपि अनन्ततमो भाग आत्रियेत तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात् । जीवो हि नाम चैतन्यलक्षणः, ततो यदि प्रबलश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे चैतन्यमात्रमप्याब्रियेत तर्हि जीवस्य स्वस्वभावपरित्यागादजीवतैव संपनीपद्येत । 'अत्रैव दृष्टान्तमाह -सुट्टवीत्यादि । सुष्ठपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः । यथा निबिडनिबिडतरमेघपटलैराच्छादितयोरपि सूर्याचन्द्रमसोनैकान्तेन तत्प्रभानाशः एवमनन्तानन्तैरपि ज्ञानदर्शनावरणकर्मपरमाणुभिरेकैकस्यात्मप्रदेशस्य आवेष्टितपरिवेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्याप्यभावो भवति। अतः सिद्धोऽक्षरस्य अनन्ततमो भागो नित्योद्धाटितः।” इति नन्दीसूत्रस्य मलयगिरिरचितायां वृत्तौ। ३ दृश्यतां पृ० ३५१ पं० ४,५,६,२८ । “अहवा सव्वजहण्णो अणंतभागो निधुग्घाडो पुढविक्काए, चैतन्यमात्रमात्मनः । तं च उक्कोसथीणिद्धिसहितनाणदसणावरणोदए वि णो आवरिजति । जति पुण सो वि वरिजेज तेण जीवो अजीवयं पावे । सुट्ट...” इति जेसलमेरस्थायां जिनदासगणिमहत्तररचितायां नन्दीचूर्णौ पाठं दृष्ट्वा 'पुरा अयं पाठो नन्दीसूत्रे प्रसिद्ध आसीत्' इत्यनुमाय निर्दिष्टोऽयमस्माभिः पाठः। सम्प्रति तु नन्दीसूत्रे 'जति पुण सो वि आवरिजा तेण जीवो अजीवत्तं पावेज । सुट्ट...' ईदृशः पाठ उपलभ्यते इति ध्येयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662