Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 500
________________ पृ० ४ ०९, १५.] टिप्पणानि । समानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः । श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् २ । तथा अवशब्दोऽधः शब्दार्थः, अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमप्यवधिः । अवधिश्चासौ ज्ञानं चावधिज्ञानम् ३ । तथा परिः सर्वतोभावे, अवनम् अवः,···अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवः मनः पर्यवः, सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः । अथवा मनःपर्यय इति पाठः, सर्वतः तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च मन:पर्ययज्ञानम् । अथवा 5 मनःपर्यायज्ञानमिति पाठः, ततः मनांसि मनोद्रव्याणि पर्येति सर्वात्मना परिच्छिनत्ति मनःपर्यायम्, ......मनःपर्यायं च तद् ज्ञानं च मनःपर्यायज्ञानम् । यद्वा मनसः पर्याया मनः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः तेषु तेषां सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् ४ । तथा केवलमेकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् । अथवा शुद्धं केवलम् तदावरणमलकलङ्कस्य निःशेषतोऽपगमात् । सकलं वा केवलम् प्रथमत एवाशेषतदावरणापगमतः सम्पूर्णोत्पत्तेः । असाधारण वा केवलम् अनन्यसदृशत्वात् । अनन्तं वा केवलम् ज्ञेयानन्तत्वात् । केवलं च तद् ज्ञानं च केवलज्ञानम् ५ ।” इति 10 मलयगिरिविरचितायां नन्दिसूत्रवृत्तौ पृ० ६५-६६ । दृश्यताम् अनुयोगद्वारसू० १ । "ज्ञानं वक्ष्यामः - मतिश्रुतावधिमनः पर्याय केवलानि ज्ञानम् ।११९ मतिज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानमित्येतद् मूलविधानतः पञ्चविधं ज्ञानम् । प्रभेदास्त्वस्य पुरस्ताद् वक्ष्यन्ते । मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् | १|१३| मतिज्ञानं स्मृतिज्ञानं संज्ञाज्ञानं चिन्ताज्ञानं तथा आभिनिबोधिकज्ञानमित्यनर्थान्तरम् । तदिन्द्रियानिन्द्रियनिमित्तम् | १|१४| तदेतद् मतिज्ञानं द्विविधं भवति - इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च । 15 तत्रेन्द्रियनिमित्तं स्पर्शनादीनां पञ्चानां स्पर्शादिषु पञ्चस्वेव स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोधज्ञानं च । " - तत्त्वार्थभा० । पृ० ४ पं० १. तत्थाभिनिबोहिअनाणंति । “इतेः स्वरात् तश्च द्विः |८|१|४२ | पदात् परस्य इतेरादेर्लुग् भवति स्वरात् परश्च तारो द्विर्भवति । किं ति । जंति । दिट्ठे ति । न जुत्तं ति । स्वरात् तह त्ति । झति । पिओ त्ति । पुरिसोत्ति ।" इति आचार्य हेमचन्द्रकृतप्राकृतव्याकरणानुसारेण अत्र इतेरिकारस्य लुग् ज्ञातव्यः । पृ० ४. पं० १. श्रुतज्ञान | श्रुतज्ञानस्य विस्तरेण स्वरूपं 'पृ० ९ पं० ३ पूर्वमहोदधिसमुत्पतितनयप्राभृत' इत्यस्य 20 टिप्पणादवगन्तव्यम् । तथा दृश्यतां टिपृ० ६ पं० ३१ । ७ पृ० ४ पं० २. घटादेः । यदि हि एकान्तेन नित्यो घटस्तदा तस्य सर्वदावस्थितत्वात् कुम्भकारप्रयत्रजन्यत्वाभावात् कुम्भकाराय घटादेर्वेतनप्रदानं निरर्थकमिति भावः । “एवंविधवस्तूपनिबन्धनैव च वर्णाश्रमप्रतिनियतरूपा यमनियमगम्यागम्यभक्ष्याभक्ष्यादिव्यवस्था कुम्भकार देश्व मृदानयनावमर्दनशिवकस्थासकादिकरणप्रवृत्तौ वेतनकादिदानस्य साफल्यम् ।" - तत्त्वार्थ ० सिद्धसेनवृ० १|३४| 25 पृ० ४ पं० ३. चिकीर्षा । “एकान्तनाशिनि च कृतनाशाकृताभ्यागमौ स्याताम्, स्मृति - प्रत्यभिज्ञान-निहितप्रत्युन्मार्गण - प्रभृतयश्च प्रतिप्राणिप्रतीता व्यवहारा विशीर्येरन् ।” - प्रमाणमी० १|१|४२ | “ पदार्थास्थैर्यपक्षेपूर्वदृष्टस्य स्मरणम्, स्मृत कस्यचित् प्रत्यभिज्ञानम्, प्रत्यभिज्ञातस्य गृहादेरर्धकृतस्य समापनम्' इत्यादयश्च व्यवहारा विलुप्येरन् ।” इति न्यायमञ्जय क्षणभङ्गनिराकरणे । “सर्वथा भेदे हि बद्ध-मुक्तपर्याययोः अन्यो बद्धः अन्यश्च मुच्यते इति बद्धस्यैव मोक्षार्था प्रवृत्तिर्न स्यात् । सन्तानापेक्षया बद्धस्यैव मोक्ष इत्यपि अनल्पतमोविलसितम्, सन्तानस्यैवोक्तप्रकारेणासम्भवात् । तथा निहितमन्त्रिताधीतस्मृतिः 30 दत्तग्रहादिश्व एकात्मापह्नवे दुर्घट इति । " - न्यायकुमु० पृ० २० । नावक्तव्यः । “अवक्तव्यैकान्तोऽपि असद्वादः, स्ववचनविरोधात्, पृ० ४ पं० ३–४. स्वरूपानवधारणे सदामौनव्रतिकवत् । " - तत्त्वार्थराजवा० १|६| पृ० ४ पं० ९,१५. काल “ॐ ब्रह्मवादिनो वदन्ति - किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन कच सम्प्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥ कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः 35 पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥” इति श्वेताश्वतरोपनिषदि । "कालो सहाव णियई पुव्वकयं पुरिस कारणेगंता । मिच्छत्तं ते चेव समासभ होंति सम्मत्तं ॥ " - सन्मति ० ३।५३ । अस्य व्याख्या - "काल-स्वभाव-नियति-पूर्वकृत-पुरुषकारणरूपा एकान्ताः सर्वेऽपि एकका मिथ्यात्वम् । त एव समुदिताः परस्पराजहद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते इति तात्पर्यार्थः ।” इत्यादिविस्तरेण अभयदेवसूरिरचितायां सन्मतिवृत्तौ अवलो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662