Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 545
________________ न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० ११५ ५०७पृ० ११५ पं० ७. दवट्टियणय...। "अत्र च कुण्ठधियोऽप्यन्तेवासिनो योग्यताप्रतिपादनार्थः प्रकरणारम्भः प्रतिपादितः । सा च विशिष्टसामान्यविशेषात्मकतदुपायभूतार्थप्रतिपादनमन्तरेणातः प्रकरणान्न सम्पद्यत इति प्रकरणाभिधेयं योग्यतोपायभूतमर्थं तित्थयरवयणसंगह विसेसपत्थारमूलवागरणी । दव्वडिओ य पजवणयो य सेसा वियप्पा सिं ॥ १३ ॥ इत्यनया गाथया निर्दिशति । अस्याश्च समुदायार्थः पातनिकयैव प्रतिपादितः । अवयवार्थस्तु-तरन्ति संसारार्णवं येन तत् तीर्थ 5 द्वादशाङ्गं तदाधारो वा सङ्घः, तत् कुर्वन्ति उत्पद्यमानमुत्पादयन्ति तत्स्वाभाव्यात् तीर्थकरनामकर्मोदयाद्वेति । तीर्थकराणां वचनम् आचारादि, अर्थतस्तस्य तदुपदिष्टत्वात् । तस्य सङ्ग्रह-विशेषौ द्रव्य-पर्यायौ सामान्य-विशेषशब्दवाच्यावभिधेयौ, तयोः प्रस्तारः, प्रस्तीर्यते येन नयराशिना सङ्ग्रहादिकेन स प्रस्तारः, तस्य सङ्ग्रह-व्यवहारप्रस्तारस्य मूलव्याकरणी आद्यवक्ता ज्ञाता वा स्तकः, दतिवनं द्रव्यं सत्तेति यावत् , तत्र 'अस्ति' इति मतिरस्य द्रव्यास्तिकः,...द्रव्यमेव वार्थोऽस्येति व्यार्थिकः द्रव्ये वा स्थितो द्रव्यस्थितः । परि समन्तात् अवनम् अवः पर्यवो विशेषः तज्ज्ञाता वक्ता वा नयनं नयः नीतिः पर्यवनयः, 10 अत्र छन्दोभङ्गभयात् 'पर्यायास्तिकः' इति वक्तव्ये 'पर्यवनयः' इत्युक्तम्, तेनात्रापि पर्याय एव अस्ति इति मतिरस्येति द्रव्यास्तिकवद् व्युत्पत्तिद्रष्टव्या । स च विशेषप्रस्तारस्य ऋजुसूत्रशब्दादेः आयो वक्ता । शेषास्तु नैगमादयो विकल्पा भेदा अनयोः द्रव्यार्थिकपर्यायार्थिकयोः, सिं इति प्राकृतशैल्या. द्विवचनस्थाने बहुवचनम् ।..."दव्वटिओ य पज्जवणओ य' इत्यादिपश्चाधैकदेशस्य विवरणायाह सूरिः-व्वट्टियनयपगडी सुद्धा संगह परूवणाविसओ। पडिरूवं पुण वयणथनिच्छ ववहारो॥ १४ ॥ इति गाथासूत्रम् । अत्र च सङ्ग्रहनयप्रत्ययः शुद्धो द्रव्यास्तिकः, व्यवहारनयप्रत्ययस्त्वशुद्ध इति तात्पर्यार्थः । 15 अवयवार्थस्तु द्रव्यास्तिकनयस्य व्यावर्णितस्वरूपस्य प्रकृतिः स्वभावः शुद्धा इत्यसङ्कीर्णा विशेषासंस्पर्शवती सङ्ग्रहस्य अभेद ग्राहिनयस्य, प्ररूपणा प्ररूप्यतेऽनयेति कृत्वा उपवर्णना पदसंहतिः, तस्या विषयोऽभिधेयः, विषयाकारेण विषयिणो वृत्तस्य विषयव्यवस्थापकत्वादुपचारेण विषयेण विषयिप्रकथनमेतत् ।...सर्व सन्मात्रतया सङ्गहन् सङ्ग्रहः शुद्धा द्रव्यास्तिकप्रकृतिरिति स्थितम् । तामेवाशुद्धां 'पडिरूवं पुण' इत्यादिगाथापश्चार्धन दर्शयत्याचार्यः । प्रतिरूपं प्रतिबिम्ब प्रतिनिधिरिति यावत्, विशेषेण घटादिना द्रव्येण सङ्कीर्णा सत्ता । पुनरिति प्रकृति स्मारयति । तेनायमर्थः-विशेषेण सङ्कीर्णा सत्ता प्रकृतिः स्वभावः 20'वचनार्थनिश्चयः' इति, हेयोपादेयोपेक्षणीयवस्तुविषयनिवृत्तिप्रवृत्त्युपेक्षालक्षणव्यवहारसम्पादनार्थमुच्यते इति वचनम् , तस्य 'घटः' इति विभक्तरूपतया 'अस्ति' इत्यविभक्तात्मतया प्रतीयमानो व्यवहारक्षमोऽर्थः, तस्य निश्चयः निर्गतः पृथग्भूतः चयः परिच्छेदः, तस्य इति द्रव्यास्तिकस्य व्यवहारः इति लोकप्रसिद्धव्यवहारप्रवर्तनपरो नयः । सोऽभिमन्यते-यदि हि हेयोपादेयोपेक्षणीयस्वरूपाः परस्परतो यस्वरूपाः परस्परतो विभिन्नस्वभावाः सद्रूपतया शब्दप्रभवे संवेदने भावाः प्रतिभान्ति ततो निवृत्तिप्रवृत्त्यु पेक्षालक्षणो व्यवहारस्तद्विषयः प्रवृत्तिमासादयति, नान्यथा, न चैकान्ततः सन्मात्राविशिष्टेषु भावेषु संग्रहाभिमतेषु पृथक्स्वरूप25 तया परिच्छेदोऽबाधितरूपो व्यवहारनिबन्धनं संभवतीति ।..'यद्वा प्रतिशब्दो वीप्सायाम् , रूपशब्दश्च वस्तुन्यत्र प्रवर्तते । तेनायमर्थः-रूपं रूपं प्रति वस्तु वस्तु प्रति यो वचनार्थनिश्चयः तस्य प्रकृतिः स्वभावः स व्यवहारः इति । तथाहिप्रतिरूपमेव वचनार्थनिश्चयो व्यवहारहेतुर्न पुनरस्तित्वमात्रनिश्चयः, यतः 'अस्ति' इत्युक्तेऽपि श्रोता शङ्कामुपगच्छन् लक्ष्यते, अतः 'किमस्ति' इत्याशङ्कायां "व्यम्' इत्युच्यते । तदपि किम? पृथिवी । सापि का? वक्षः । सोऽपि कः? प्यर्थित्वे यावत् 'पुष्पितः' 'फलितः' इत्यादि तावन्निश्चिनोति यावद् व्यवहारसिद्धिरिति । व्यवहारो हि नानारूपतया सत्तां 30व्यवस्थापयति, तथैव संव्यवहारसंभवात् । अतो व्यवहरतीति व्यवहार इत्यन्वर्थसंज्ञां बिभ्रत् अशुद्धा द्रव्यास्तिकप्रकृतिभवति ।"-सन्मतिः । पृ० ११५ पं० ९. द्रोरवयवो...। "दोश्च"--पाणिनि० ४।३।१६१ । दृश्यतां टिपृ० १६ पं० ३० । पृ० ११५ पं० २०. मन्यते लोकोऽलौकिकैकान्तं । (मन्यते-अलौकिकैकान्तं...?)। पृ० ११६ पं० ३. अज्ञानोक्तिविरोध । दृश्यतां पृ० ११३ पं० ५। 35 पृ० ११७ पं० १९. क्षणसद्रूप । (क्षणवद्रूप?)। 'क्षणतद्रूप' इति य० प्रतिपाठोऽप्यत्र शुद्धो भाति । पृ० ११८ पं० १६. वातादि। प्रकोपादिस्वरूपं चरकसंहितायां प्रथमे सूत्रस्थाने द्वादशे वातकलाकलीयेऽध्याये विलोकनीयम् । पृ० ११८ पं० २०. रसवीर्य विशेष । रसादिविशेषस्वरूपं चरकसंहितायां सूत्रस्थाने षड्विंशे आत्रेयभद्रकाप्यीयेऽध्याये विलोकनीयम् । भागाभाग । (भाव ?) (भावाभाव ?) । “यथास्वयुक्त्यपेक्षिणौ हि भावाभावौ"-चरकसं० 40 १।११।४४ । संयोग । “संयोगः पुन योर्बहूनां वा द्रव्याणां संहतीभावः तद्यथा मधुसर्पिषोः ।"-चरकसं० ३।१।३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662