Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 555
________________ न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० १५४ पं० २३धिगम्यते ॥५॥ यत् तदद्रेश्यमग्राह्यमगोन्नमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्म तदन्ययं यद् भूतयोनि परिपश्यन्ति धीराः ॥६॥" इति मुण्डकोपनिषदि । पृ० १५४ पं० २३. नियोगार्थस्य । “कोऽयं नियोगो नाम ? निशब्दो निःशेषार्थः, योगार्थो युक्तिः, निरवशेषो योगो नियोगः निरवशेषत्वम् अयोगस्य मनागप्यभावात् । अवश्यकर्तव्यता हि नियोगः।"-प्रमाणवार्तिकालं. पृ० ८ । नियोगस्य 5 स्वरूपं प्रकारादिकं च विस्तरेण प्रमाणवार्तिकालङ्कारे[पृ०८-१५] अष्टसहस्यां [पृ०५-१०] तत्त्वार्थश्लोकवार्तिके[पृ० २६१ २६५] न्यायकुमुदचन्द्र[पृ० ५८२-५८८ प्रभृतिग्रन्थेषु च विलोकनीयम् । “प्रमाणान्तरागोचरः शब्दमात्रालम्बनो। 'नियुक्तोऽस्मि' इति प्रत्यात्मवेदनीयः सुखादिवत् अपरामृष्टकालत्रयो लिङ्गादीनामों विधिः।" इति विधिविवेके पृ० ४८ ।' पृ० १५४ पं० २५,२६. °जुहोत्यनुवाद इति । व्यत्यया...। "जुहोत्यनुवाद इति चेत् । व्यत्यया...' इत्यपि पाठः स्यादत्र । दृश्यतां 'पृ०१५४ टि० १२' इत्यत्र भा० प्रतिस्थं पाठान्तरम् । 10 पृ० १५५ पं०४-५, सप्तिड...तदपिच...... अन 'तदपिच' इत्यस्य स्थाने 'सोऽपिच' इति पातञ्जल महाभाष्ये पाठः । अस्याः कारिकाया विस्तरेण व्याख्यानं पातञ्जलमहाभाष्य-सिद्धान्तकौमुद्यादिभ्योऽवगन्तव्यम् । पृ० १५५ पं० ९. कोशपान...। "तुलाश्यापो विष कोशो दिव्यानीह विशुद्धये। महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥ २।९५॥.. देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् । संश्राव्य पाययेत् तस्माजलं तु प्रसृतित्रयम् ॥२॥११२॥ अर्वाक् चतुर्दशादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ॥२॥११३॥” इति याज्ञवल्क्य15 स्मृतौ । “अतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । शास्त्रविद्भिर्यथा प्रोक्तं सर्वकालाविरोधिनम् ॥ पूर्वाह्ने सोपवासस्य स्नातस्याद्रपटस्य च । सशूकस्याव्यसनिनः कोशपानं विधीयते ॥ इच्छतः श्रद्दधानस्य देवब्राह्मणसन्निधौ । यद्भक्तः सोऽभियुक्तः स्यात् तदैवत्यं तु पाययेत् । अभ्यर्च्य देवतां स्नाप्य जलस्य प्रसृतित्रयम् ॥ सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वाऽशुभम् । रोगोऽग्निातिमरणमर्थभ्रंशो धनक्षयः । प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना ॥” इति नारदस्मृतौ ४।३२७-३३०॥ पृ० १५५ पं० १०. कुन एव ज्ञायते । (कुत एतज्ज्ञायते ?)। 20 पृ० १५५ पं० १४. देशविशेषस्य वा। दृश्यतां पृ० १२१ पं० ११-१२। पृ. १५६ पं०८. प्रकृताध्ययनक्रियेणेति । प्रकृता अध्ययनक्रिया येन स प्रकृताध्ययनक्रियः, तेन प्रकृताध्ययनक्रियेण सब्रह्मचारिणा इत्यर्थे यथाश्रुतं साध्वेव । अत्र अस्वारस्ये तु 'प्रकृताध्ययनक्रिययेति' इति कल्पनीयमन्त्र । पृ० १५६ पं० २२. शब्दार्थयोः....."पुनर्वचनं च । अत्र 'पुनर्वचनं वा' इति प्रतिस्थः पाठोऽपि सङ्गत एव । “शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् । [न्यायसू० ५।२।१४], अन्यत्रानुवादात् शब्दपुनरुक्तमर्थपुनरुक्तं वा । 25 'नित्यः शब्दः, नित्यः शब्दः' इति शब्दपुनरुक्तम् । अर्थपुनरुक्तम् 'अनित्यः शब्दः, निरोधधर्मको ध्वानः' इति । अनुवादे त्वपुनरुक्तम् , शब्दाभ्यासादर्थविशेषोपपत्तेः । यथा 'हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्' [न्यायसू० ११३३९] इति । अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् [न्यायसू० ५।२।१५], पुनरुक्तमिति प्रकृतम्, निदर्शनम्-'उत्पत्तिधर्मकत्वाद :शब्दस्तेन स्वशब्देन ब्रूयात् 'अनुत्पत्तिधर्मकं नित्यम्' इति । तच्च पुनरुक्कै वेदितव्यम् । अर्थसंप्रत्ययाथै शब्दप्रयोगे प्रतीतः सोऽर्थोऽर्थापत्त्येति ।" इति न्यायभाष्ये । 30 पृ० १५७ पं० ३. विधिविषयविप्रकृष्टीभूतार्थत्वात् । दृश्यतां पृ० १५८ पं० १३ । पृ० १५७ पं० १८. जुहोतेरनुवादत्वे [वा] । अत्र '[वा]' इति त्याज्यम् । पृ० १५८ पं० २४-२७. गुडस्य चाक्षुष्यत्वात् 'चक्षुस्तेजोमयं तस्य । अत्र 'गुडस्याचक्षुष्यत्वात्' इत्येव शुद्धं प्रतीयते । गुडस्य चक्षु हितकरत्वाभावादित्यर्थः । एतच 'चक्षुस्तेजोमयं तस्य' इत्यादिना दर्शयति ग्रन्थकारः । पृ० १५९ पं० २७. शङ्खः कदल्या.उन्मत्तगङ्गाप्रतिमं बभूव । 'उन्मत्तगङ्गप्रतिमम्' इति तत्त्वार्थश्लोकवार्तिके 35 [ पृ०२८९ ] प्रमेयकमलमार्तण्डे [ पृ० ६६७ ] प्रमाणमीमांसायां [ पृ० ६८ ] चोद्धृतः पाठः । १“शरीरावयवाद् यत् ।”-पा० ५।१।६। २ "चक्षुरित्यादि । चक्षुरिन्द्रियस्य तैजसस्य श्लेष्मत आप्यात् तैजसविरुद्धत्वेन हेतुना विशेषादिति वातपित्तभयादधिकत्वेन भयं भवति ।" इति चक्रपाणिदत्तविरचितायां चरकसंहितावृत्तौ पृ० ३९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662