Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 556
________________ 10 पृ० १७४ पं० १,१०.] टिप्पणानि । पृ० १६० ५० १,१०. त्वन्मतात्तु वेदो...। अत्र 'त्वन्मतात्तु वेदो न ज्ञानं न ज्ञानतः' इति पाठो मूलत्वेन बोध्यः । त्वन्मताद् वेदः स्वयं न ज्ञानम्, न च ज्ञानतो जायते वेदस्यापौरुषेयत्वाङ्गीकारात् । अतः परमार्थत उपचारतो वा वेदस्य चेतनत्वाभाव इत्याशयः । पृ० १६० ५० ३. कुदुपादि। अत्र 'कुतुपादि...' इत्यपि शुद्धः पाठः स्यात् । "कुतूः कृत्तेः स्नेहपात्रम्, सैवाल्पा कुतुपः पुमान् ।" इति अमरकोषे २।९।३३ । पृ० १६० पं० ४. यदेतद। इत आरभ्य पृ० १७१ पर्यन्तं विहितया चर्चया कथञ्चित् समाना चर्चा पृ० ४३०४३५ मध्येऽपि वर्तत इति तत्रापि विलोकनीयं यथायोगम् । _पृ० १६० ५० १२. प्राणानत्ववदिति । "प्राणेऽन्नत्ववदिति' इति भा० प्रत्यनुसारी पाठोऽपि समीचीन एवात्र । "अन्नं वै चन्द्रमाः, अन्नं प्राणाः, उभयमेवोपैत्यजामित्वाय।" इति तैत्तिरीयब्राह्मणे ३।२।३।१९। पृ० १६१ पं० ३, १३. उभयसत्त्वकार्यसत्त्वयोः । सप्तम्यन्तमेतत् । एतस्मिन् विकल्पद्वये इत्यर्थः । पृ० १६१ पं०८, २७. ननु घटसत्त्वं...। तुलना-"सर्वमभावः, भावेवितरेतराभावसिद्धेः । न, स्वभावसिद्धेर्भावानाम् ।" -न्यायसू० ४।१।३७-३८ । अर्थोऽस्य न्यायभाष्यादितोऽवगम्यः । पृ० १६२ पं० ६,७. सतो वैलक्षण्यात् । अत्र 'सतः' इति षष्ठयन्तं ज्ञेयम् । पृ० १६२ पं० १५. तुल्यजातीयेन [अतुल्यजातीयेन ] च । अत्र [ अतुल्यजातीयेन ]' इति परिहतुं शक्यम्। पृ० १६३ पं० ८,९. जात्युत्तरता "जातिवादः । असदुत्तरं जातिः । “साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः।" 15 न्यायसू. १।२।१८ । विस्तरेण त्वस्याश्चतुर्विशतिर्भेदा न्यायसूत्रस्य पञ्चमाध्याये प्रथमाह्निके विलोकनीयाः। पृ० १६५५० ५. सङ्गीत्या । सङ्केतेनेत्यर्थः । तुलना- “सङ्गीतिमात्रमत्र प्रत्ययहेतुः, अकृतसङ्केतस्य घटादिप्रत्ययाभावात् ।" इति विशेषावश्यकभाष्यस्खोपज्ञवृत्तौ पृ० ५। पृ० १६५ पं० ८. अग्नेर्मङ्गलनामवत् । “तत्र नाममङ्गलं यजीवस्य अजीवस्य उभयस्य वा मङ्गलमिति नाम क्रियते, तद्यथा-सिन्धुविषयेऽग्निर्मङ्गलम् । लाडविषये दवरकवलनकम् । उभयं वन्दनविषयं मालेत्यादि ।" इति विशेषा- 20 वश्यकभाष्यखोपज्ञवृत्तौ। पृ० १६५५० ९. एकान्तः । 'कार्यमेव असत्' इत्युक्तो कार्य सत्त्वं न निषिध्यते । तथा च कार्य सदपि असदपि च सम्भवतीत्यतः 'कार्यमसदेव' इत्येकान्तस्य त्यागो बोध्यः । पृ० १६५ पं० १२. यदि कार्य कथमसत् दीपेनेव क्रिययेति । दृश्यतां पृ० १७१ पं० ३-४। पृ० १६५ पं० २१. परिहारार्थमथोच्यते । (परिहारार्थमथोच्येत?)। 25 पृ० १६६ पं० ३, १७. अनुपादानमबुद्धिसिद्धं"नासत्, न सत्, न सदसत्; सदसतोवैधात् । उत्पादव्ययदर्शनात् । बुद्धिसिद्धं तु तदसत् ।"-न्यायसू० ४।१।४८-५० । दृश्यतां पृ. ४६० टि. १, पृ० ५०४ टि०३। पृ० १६८पं० १९. यत एव..। “यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ।।७।" इति न्यायसूत्रे पाठः । 'पृ. ४३५ पं. ९' इत्यत्र च स एव पाठः स्वीकृतो नयचक्रवृत्तिकृद्भिः । दृश्यतां पृ० ४३५ टि. ४ । पृ० १७२ पं० १०. अज्ञानप्रतिबद्धैकान्तेऽपि चाज्ञानप्रतिबद्धत्वे । दृश्यतां पृ० ११३ पं० १९-२०। 30 पृ० १७२ पं० २३. सामान्यादिविचारप्रत्याख्यायिनः । षष्ठ्यन्तमेतत् । पृ० १७३ पं० १८. सन्निश्चये । अत्र सन्निश्रये इति भा० प्रतिपाठः समीचीनो भाति, 'तत्त्वेनैक्यम् आश्रित्य न्याय्यः [पृ० १७३ पं० २,१६] इत्यभिहितत्वात् । पृ० १७३ पं० २४-२५. भावे घनो..... मिति वा । दृश्यतां पृ० १८ पं० २१, पृ० ३८२ पं० १३-१५। पृ० १७४ पं० १,१०. न च विवि । अत्र 'न विवि...' इत्यपि पाठः समीचीनो भाति । 35 १ कृत्तिः चर्म । तथा च स्त्रीलिङ्गः 'कुतू'शब्दः चर्ममयस्य तैलघृतादिस्नेहपात्रस्य वाचकः । सैवाल्पा कुतूः पुंलिङ्गेन 'कुतुप'शब्देन अभिधीयते। २ दृश्यतां पृ० १९० पं० १२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662