Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 554
________________ ६१ पृ० १५४ पं० १३.] टिप्पणानि । पृ० १४९ पं० १४. वाचादिशासाना"प्रयुक्तस्य चैकार्थत्वात्। (वाचादिक्सास्ना प्रयुक्तस्य चैकार्थत्वात् ? वा वाग्दिक्सास्त्रा..... प्रयुक्तस्यैकार्थत्वात् ?)। 'गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ।" इति अनेकार्थसंग्रहे हैमे, श्लो० ६ । दृश्यतां पृ० ५२४ पं० ५। पृ० १५० ५० ५,२५. वचनच्छलात् । “वचनविघातोऽर्थविकल्पोपपत्त्या छलम् । तत् त्रिविधं वाक्छलं सामान्यउछलमुपचारच्छलं चेति । अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् । संभवतोऽर्थस्यातिसामान्ययोगादसंभूतार्थकल्पना सामान्यच्छलम् । धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ।"-न्यायसू० १।२।१०-१४ । अस्य 'विस्तरेणार्थो न्यायभाष्यादितोऽवगन्तव्यः। पृ० १५० ५० १०. 'मिष्यते विवक्ष्यते । अत्र 'मिष्टतो विवक्ष्यते इति प्रतिस्थः पाठः समीचीन एवेति स एवादरणीयः, तुलना-“इष्टतो व्यवस्था।"-पा० म० भा० ११३।६। “इष्टतोऽवधारणार्थः ।"-पा० म० भा० २।।२०। पृ० १५० पं० १९. प्राप्तिसंवादि । दृश्यतां पृ० १४२ पं० ७ । 10 पृ० १५१ पं० ३. सर्व र्थाभावा । दृश्यतां पृ० १५१ पं० २५, पृ० १५२ पं० ४,१६ । पृ० १५१ ५० ५. केदमभिहितं......। दृश्यतां पृ० १५२ पं० १६ । पृ० १५३ पं० ९. इतिकर्तव्यताकर्तव्यतया । इतिकर्तव्यतात्मिकया कर्तव्यतयेत्यर्थोऽत्र य०प्रतिपाठस्वीकारे । 'इतिकर्तव्यतया' इति भा० प्रतिपाठोऽपि अत्र समीचीन इति ध्येयम् । पृ० १५३ पं० १०. कातरसतेन । 'कातरशतेन शूरं शूरसहस्रेण पण्डितं भर । अलसं येन वा तेन वा नवरं 15 कृतघ्नं परिहर ॥' इत्यर्थः। पृ० १५३ पं० १८. घृतं दाहयेदग्निम् । अत्र 'घृतं दाहयेदग्नौ' इति रम्यं भाति । पृ० १५४ पं० ११-१२. इषे त्वोर्जे त्वा । कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां काठकसंहितायां चोपलभ्यमानो मन्त्रपाठ उद्धृतोऽत्र नयचक्रवृत्तिकृता । शुक्लयजुर्वेदे तु '..'वायव स्थ देवो वः...' इति पाठ इति ध्येयम् । पृ० १५४ पं० १३. द्वे विद्ये । “द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति-परा चैवापरा च ॥४॥ 20 तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा । यया तदक्षरम १ "इषे त्वोर्जे त्वा । दर्शयागं चिकीर्षुरमावास्यायां प्रातरग्निहोत्रं हुत्वा दर्शयागार्थ 'ममाग्ने वर्चः' इत्यादिभिर्मन्त्रैवह्निषु समिदाधानरूपमन्वाधानं कृत्वा वत्सापाकरणार्थमन्त्रेग पलाशशाखां छिन्द्यात् ।। इडित्यन्नम् , सर्वः प्राणिभिरिष्यमाणत्वात् । ऊर्ग बलहेतू रसः । 'ऊर्ज बलप्राणनयोः' [पा० धा० चुरादि.] इति धातुः । ऊज्यते बलं सम्पाद्यतेऽनया रसरूपयेति ऊ । हे पलाशशाखे देवानां भागरूपद्ध्यर्थं त्वामाच्छिनद्मि । तस्य देवस्य बलप्रदरसाथ त्वामाच्छिनीति वाक्यार्थः ।... वायवः स्थोपायवः स्थ।..... उप समीपे यजमानगृहे पुनरायन्ति आगच्छन्तीत्युपायवः । हे वत्साः तृणभक्षणाय प्रथम मातृसकाशादपेत्य खेच्छयैवारण्ये गन्तारो भवत । सायं पुनर्यजमानगृहे समागन्तारो भवत । ..... देवो वः सविता प्राप तु श्रेष्ठतमाय कर्मणे । हे गावः प्रेरको देवोऽन्तर्यामी परमेश्वरोऽत्यन्तश्रेष्ठाय इन्द्रदधिरूपाय कर्मणे युष्मानरण्ये घासमत्तुं प्रार्पयतु प्रेरयत्विति प्रथममन्त्रार्थः ।" इति सायणभाष्ये । २ "द्वे विद्ये वेदितव्ये ज्ञातव्ये इति एवं ह स्म किल यद् ब्रह्मविदो वेदार्थाभिज्ञाः परमार्थदर्शिनो वदन्ति । के ते इत्याह-परा च परमात्मविद्या, अपरा च धर्माधर्मतत्साधनफलविषया ।...... उपनिषद्वद्याक्षरविषयं हि विज्ञानमिह परा विद्येति प्राधान्येन विवक्षितम् , नोपनिषच्छब्दराशिः । वेदशब्देन तु सर्वत्र शब्दराशिर्विवक्षितः । शब्दराश्यधिगमेऽपि यत्नान्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधिगमः सम्भवतीति पृथक्करणं ब्रह्मविद्यायाः-अथ परा विद्येति । अद्रेश्यमदृश्यं सर्वेषां बुद्धीन्द्रियाणामगम्यम् ।..अग्राह्य कर्मेन्द्रियाविषयम् ।... अगोत्रमनन्वयमित्यर्थः । न हि तस्य मूलमस्ति येनान्वितं स्यात् ।...वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा, अविद्यमाना वर्णा यस्य तदवर्णम् ।.."चक्षुश्च श्रोत्रं च नामरूपविषये करणे...अविद्यमाने यस्य तदचक्षुःश्रोत्रम् ।.."तदपाणिपादं कर्मेन्द्रियरहितम् । नित्यमविनाशि । विभुं विविधं ब्रह्मादिस्थावरान्तप्राणिभेदैर्भवतीति विभुं सर्वगतमाकाशवत् । 'शब्दादयः. स्थूलकारणानि, तदभावात् सुसूक्ष्मम् ।.."न व्येतीयव्ययम् ।...यदेवलक्षणं भूतयोनिं भूतानां कारणं परिपश्यन्ति धीरा धीमन्तो विवेकिनः । ईदृशमक्षरं यया विद्ययाधिगम्यते सा परा विद्येति समुदायार्थः।" इति शंकराचार्यकृते मुण्डकोपनिषद्भाष्ये। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662