________________
६१
पृ० १५४ पं० १३.]
टिप्पणानि । पृ० १४९ पं० १४. वाचादिशासाना"प्रयुक्तस्य चैकार्थत्वात्। (वाचादिक्सास्ना प्रयुक्तस्य चैकार्थत्वात् ? वा वाग्दिक्सास्त्रा..... प्रयुक्तस्यैकार्थत्वात् ?)। 'गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ।" इति अनेकार्थसंग्रहे हैमे, श्लो० ६ । दृश्यतां पृ० ५२४ पं० ५।
पृ० १५० ५० ५,२५. वचनच्छलात् । “वचनविघातोऽर्थविकल्पोपपत्त्या छलम् । तत् त्रिविधं वाक्छलं सामान्यउछलमुपचारच्छलं चेति । अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् । संभवतोऽर्थस्यातिसामान्ययोगादसंभूतार्थकल्पना सामान्यच्छलम् । धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् ।"-न्यायसू० १।२।१०-१४ । अस्य 'विस्तरेणार्थो न्यायभाष्यादितोऽवगन्तव्यः।
पृ० १५० ५० १०. 'मिष्यते विवक्ष्यते । अत्र 'मिष्टतो विवक्ष्यते इति प्रतिस्थः पाठः समीचीन एवेति स एवादरणीयः, तुलना-“इष्टतो व्यवस्था।"-पा० म० भा० ११३।६। “इष्टतोऽवधारणार्थः ।"-पा० म० भा० २।।२०। पृ० १५० पं० १९. प्राप्तिसंवादि । दृश्यतां पृ० १४२ पं० ७ ।
10 पृ० १५१ पं० ३. सर्व र्थाभावा । दृश्यतां पृ० १५१ पं० २५, पृ० १५२ पं० ४,१६ । पृ० १५१ ५० ५. केदमभिहितं......। दृश्यतां पृ० १५२ पं० १६ ।
पृ० १५३ पं० ९. इतिकर्तव्यताकर्तव्यतया । इतिकर्तव्यतात्मिकया कर्तव्यतयेत्यर्थोऽत्र य०प्रतिपाठस्वीकारे । 'इतिकर्तव्यतया' इति भा० प्रतिपाठोऽपि अत्र समीचीन इति ध्येयम् ।
पृ० १५३ पं० १०. कातरसतेन । 'कातरशतेन शूरं शूरसहस्रेण पण्डितं भर । अलसं येन वा तेन वा नवरं 15 कृतघ्नं परिहर ॥' इत्यर्थः।
पृ० १५३ पं० १८. घृतं दाहयेदग्निम् । अत्र 'घृतं दाहयेदग्नौ' इति रम्यं भाति ।
पृ० १५४ पं० ११-१२. इषे त्वोर्जे त्वा । कृष्णयजुर्वेदस्य तैत्तिरीयसंहितायां काठकसंहितायां चोपलभ्यमानो मन्त्रपाठ उद्धृतोऽत्र नयचक्रवृत्तिकृता । शुक्लयजुर्वेदे तु '..'वायव स्थ देवो वः...' इति पाठ इति ध्येयम् ।
पृ० १५४ पं० १३. द्वे विद्ये । “द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति-परा चैवापरा च ॥४॥ 20 तत्रापरा । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा । यया तदक्षरम
१ "इषे त्वोर्जे त्वा । दर्शयागं चिकीर्षुरमावास्यायां प्रातरग्निहोत्रं हुत्वा दर्शयागार्थ 'ममाग्ने वर्चः' इत्यादिभिर्मन्त्रैवह्निषु समिदाधानरूपमन्वाधानं कृत्वा वत्सापाकरणार्थमन्त्रेग पलाशशाखां छिन्द्यात् ।। इडित्यन्नम् , सर्वः प्राणिभिरिष्यमाणत्वात् । ऊर्ग बलहेतू रसः । 'ऊर्ज बलप्राणनयोः' [पा० धा० चुरादि.] इति धातुः । ऊज्यते बलं सम्पाद्यतेऽनया रसरूपयेति ऊ । हे पलाशशाखे देवानां भागरूपद्ध्यर्थं त्वामाच्छिनद्मि । तस्य देवस्य बलप्रदरसाथ त्वामाच्छिनीति वाक्यार्थः ।... वायवः स्थोपायवः स्थ।..... उप समीपे यजमानगृहे पुनरायन्ति आगच्छन्तीत्युपायवः । हे वत्साः तृणभक्षणाय प्रथम मातृसकाशादपेत्य खेच्छयैवारण्ये गन्तारो भवत । सायं पुनर्यजमानगृहे समागन्तारो भवत । ..... देवो वः सविता प्राप
तु श्रेष्ठतमाय कर्मणे । हे गावः प्रेरको देवोऽन्तर्यामी परमेश्वरोऽत्यन्तश्रेष्ठाय इन्द्रदधिरूपाय कर्मणे युष्मानरण्ये घासमत्तुं प्रार्पयतु प्रेरयत्विति प्रथममन्त्रार्थः ।" इति सायणभाष्ये । २ "द्वे विद्ये वेदितव्ये ज्ञातव्ये इति एवं ह स्म किल यद् ब्रह्मविदो वेदार्थाभिज्ञाः परमार्थदर्शिनो वदन्ति । के ते इत्याह-परा च परमात्मविद्या, अपरा च धर्माधर्मतत्साधनफलविषया ।...... उपनिषद्वद्याक्षरविषयं हि विज्ञानमिह परा विद्येति प्राधान्येन विवक्षितम् , नोपनिषच्छब्दराशिः । वेदशब्देन तु सर्वत्र शब्दराशिर्विवक्षितः । शब्दराश्यधिगमेऽपि यत्नान्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधिगमः सम्भवतीति पृथक्करणं ब्रह्मविद्यायाः-अथ परा विद्येति । अद्रेश्यमदृश्यं सर्वेषां बुद्धीन्द्रियाणामगम्यम् ।..अग्राह्य कर्मेन्द्रियाविषयम् ।... अगोत्रमनन्वयमित्यर्थः । न हि तस्य मूलमस्ति येनान्वितं स्यात् ।...वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा, अविद्यमाना वर्णा यस्य तदवर्णम् ।.."चक्षुश्च श्रोत्रं च नामरूपविषये करणे...अविद्यमाने यस्य तदचक्षुःश्रोत्रम् ।.."तदपाणिपादं कर्मेन्द्रियरहितम् । नित्यमविनाशि । विभुं विविधं ब्रह्मादिस्थावरान्तप्राणिभेदैर्भवतीति विभुं सर्वगतमाकाशवत् । 'शब्दादयः. स्थूलकारणानि, तदभावात् सुसूक्ष्मम् ।.."न व्येतीयव्ययम् ।...यदेवलक्षणं भूतयोनिं भूतानां कारणं परिपश्यन्ति धीरा धीमन्तो विवेकिनः । ईदृशमक्षरं यया विद्ययाधिगम्यते सा परा विद्येति समुदायार्थः।" इति शंकराचार्यकृते मुण्डकोपनिषद्भाष्ये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org