________________
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० १५४ पं० २३धिगम्यते ॥५॥ यत् तदद्रेश्यमग्राह्यमगोन्नमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्म तदन्ययं यद् भूतयोनि परिपश्यन्ति धीराः ॥६॥" इति मुण्डकोपनिषदि ।
पृ० १५४ पं० २३. नियोगार्थस्य । “कोऽयं नियोगो नाम ? निशब्दो निःशेषार्थः, योगार्थो युक्तिः, निरवशेषो योगो नियोगः निरवशेषत्वम् अयोगस्य मनागप्यभावात् । अवश्यकर्तव्यता हि नियोगः।"-प्रमाणवार्तिकालं. पृ० ८ । नियोगस्य 5 स्वरूपं प्रकारादिकं च विस्तरेण प्रमाणवार्तिकालङ्कारे[पृ०८-१५] अष्टसहस्यां [पृ०५-१०] तत्त्वार्थश्लोकवार्तिके[पृ० २६१
२६५] न्यायकुमुदचन्द्र[पृ० ५८२-५८८ प्रभृतिग्रन्थेषु च विलोकनीयम् । “प्रमाणान्तरागोचरः शब्दमात्रालम्बनो। 'नियुक्तोऽस्मि' इति प्रत्यात्मवेदनीयः सुखादिवत् अपरामृष्टकालत्रयो लिङ्गादीनामों विधिः।" इति विधिविवेके पृ० ४८ ।'
पृ० १५४ पं० २५,२६. °जुहोत्यनुवाद इति । व्यत्यया...। "जुहोत्यनुवाद इति चेत् । व्यत्यया...' इत्यपि पाठः स्यादत्र । दृश्यतां 'पृ०१५४ टि० १२' इत्यत्र भा० प्रतिस्थं पाठान्तरम् । 10 पृ० १५५ पं०४-५, सप्तिड...तदपिच...... अन 'तदपिच' इत्यस्य स्थाने 'सोऽपिच' इति पातञ्जल महाभाष्ये पाठः । अस्याः कारिकाया विस्तरेण व्याख्यानं पातञ्जलमहाभाष्य-सिद्धान्तकौमुद्यादिभ्योऽवगन्तव्यम् ।
पृ० १५५ पं० ९. कोशपान...। "तुलाश्यापो विष कोशो दिव्यानीह विशुद्धये। महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥ २।९५॥.. देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् । संश्राव्य पाययेत् तस्माजलं तु प्रसृतित्रयम् ॥२॥११२॥ अर्वाक् चतुर्दशादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ॥२॥११३॥” इति याज्ञवल्क्य15 स्मृतौ । “अतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । शास्त्रविद्भिर्यथा प्रोक्तं सर्वकालाविरोधिनम् ॥ पूर्वाह्ने सोपवासस्य स्नातस्याद्रपटस्य च । सशूकस्याव्यसनिनः कोशपानं विधीयते ॥ इच्छतः श्रद्दधानस्य देवब्राह्मणसन्निधौ । यद्भक्तः सोऽभियुक्तः स्यात् तदैवत्यं तु पाययेत् । अभ्यर्च्य देवतां स्नाप्य जलस्य प्रसृतित्रयम् ॥ सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वाऽशुभम् । रोगोऽग्निातिमरणमर्थभ्रंशो धनक्षयः । प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना ॥” इति नारदस्मृतौ ४।३२७-३३०॥
पृ० १५५ पं० १०. कुन एव ज्ञायते । (कुत एतज्ज्ञायते ?)। 20 पृ० १५५ पं० १४. देशविशेषस्य वा। दृश्यतां पृ० १२१ पं० ११-१२।
पृ. १५६ पं०८. प्रकृताध्ययनक्रियेणेति । प्रकृता अध्ययनक्रिया येन स प्रकृताध्ययनक्रियः, तेन प्रकृताध्ययनक्रियेण सब्रह्मचारिणा इत्यर्थे यथाश्रुतं साध्वेव । अत्र अस्वारस्ये तु 'प्रकृताध्ययनक्रिययेति' इति कल्पनीयमन्त्र ।
पृ० १५६ पं० २२. शब्दार्थयोः....."पुनर्वचनं च । अत्र 'पुनर्वचनं वा' इति प्रतिस्थः पाठोऽपि सङ्गत एव । “शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् । [न्यायसू० ५।२।१४], अन्यत्रानुवादात् शब्दपुनरुक्तमर्थपुनरुक्तं वा । 25 'नित्यः शब्दः, नित्यः शब्दः' इति शब्दपुनरुक्तम् । अर्थपुनरुक्तम् 'अनित्यः शब्दः, निरोधधर्मको ध्वानः' इति । अनुवादे त्वपुनरुक्तम् , शब्दाभ्यासादर्थविशेषोपपत्तेः । यथा 'हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्' [न्यायसू० ११३३९] इति । अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् [न्यायसू० ५।२।१५], पुनरुक्तमिति प्रकृतम्, निदर्शनम्-'उत्पत्तिधर्मकत्वाद
:शब्दस्तेन स्वशब्देन ब्रूयात् 'अनुत्पत्तिधर्मकं नित्यम्' इति । तच्च पुनरुक्कै वेदितव्यम् । अर्थसंप्रत्ययाथै शब्दप्रयोगे प्रतीतः सोऽर्थोऽर्थापत्त्येति ।" इति न्यायभाष्ये । 30 पृ० १५७ पं० ३. विधिविषयविप्रकृष्टीभूतार्थत्वात् । दृश्यतां पृ० १५८ पं० १३ ।
पृ० १५७ पं० १८. जुहोतेरनुवादत्वे [वा] । अत्र '[वा]' इति त्याज्यम् ।
पृ० १५८ पं० २४-२७. गुडस्य चाक्षुष्यत्वात् 'चक्षुस्तेजोमयं तस्य । अत्र 'गुडस्याचक्षुष्यत्वात्' इत्येव शुद्धं प्रतीयते । गुडस्य चक्षु हितकरत्वाभावादित्यर्थः । एतच 'चक्षुस्तेजोमयं तस्य' इत्यादिना दर्शयति ग्रन्थकारः ।
पृ० १५९ पं० २७. शङ्खः कदल्या.उन्मत्तगङ्गाप्रतिमं बभूव । 'उन्मत्तगङ्गप्रतिमम्' इति तत्त्वार्थश्लोकवार्तिके 35 [ पृ०२८९ ] प्रमेयकमलमार्तण्डे [ पृ० ६६७ ] प्रमाणमीमांसायां [ पृ० ६८ ] चोद्धृतः पाठः ।
१“शरीरावयवाद् यत् ।”-पा० ५।१।६। २ "चक्षुरित्यादि । चक्षुरिन्द्रियस्य तैजसस्य श्लेष्मत आप्यात् तैजसविरुद्धत्वेन हेतुना विशेषादिति वातपित्तभयादधिकत्वेन भयं भवति ।" इति चक्रपाणिदत्तविरचितायां चरकसंहितावृत्तौ पृ० ३९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org