________________
10
पृ० १७४ पं० १,१०.]
टिप्पणानि । पृ० १६० ५० १,१०. त्वन्मतात्तु वेदो...। अत्र 'त्वन्मतात्तु वेदो न ज्ञानं न ज्ञानतः' इति पाठो मूलत्वेन बोध्यः । त्वन्मताद् वेदः स्वयं न ज्ञानम्, न च ज्ञानतो जायते वेदस्यापौरुषेयत्वाङ्गीकारात् । अतः परमार्थत उपचारतो वा वेदस्य चेतनत्वाभाव इत्याशयः ।
पृ० १६० ५० ३. कुदुपादि। अत्र 'कुतुपादि...' इत्यपि शुद्धः पाठः स्यात् । "कुतूः कृत्तेः स्नेहपात्रम्, सैवाल्पा कुतुपः पुमान् ।" इति अमरकोषे २।९।३३ ।
पृ० १६० पं० ४. यदेतद। इत आरभ्य पृ० १७१ पर्यन्तं विहितया चर्चया कथञ्चित् समाना चर्चा पृ० ४३०४३५ मध्येऽपि वर्तत इति तत्रापि विलोकनीयं यथायोगम् ।
_पृ० १६० ५० १२. प्राणानत्ववदिति । "प्राणेऽन्नत्ववदिति' इति भा० प्रत्यनुसारी पाठोऽपि समीचीन एवात्र । "अन्नं वै चन्द्रमाः, अन्नं प्राणाः, उभयमेवोपैत्यजामित्वाय।" इति तैत्तिरीयब्राह्मणे ३।२।३।१९।
पृ० १६१ पं० ३, १३. उभयसत्त्वकार्यसत्त्वयोः । सप्तम्यन्तमेतत् । एतस्मिन् विकल्पद्वये इत्यर्थः ।
पृ० १६१ पं०८, २७. ननु घटसत्त्वं...। तुलना-"सर्वमभावः, भावेवितरेतराभावसिद्धेः । न, स्वभावसिद्धेर्भावानाम् ।" -न्यायसू० ४।१।३७-३८ । अर्थोऽस्य न्यायभाष्यादितोऽवगम्यः ।
पृ० १६२ पं० ६,७. सतो वैलक्षण्यात् । अत्र 'सतः' इति षष्ठयन्तं ज्ञेयम् । पृ० १६२ पं० १५. तुल्यजातीयेन [अतुल्यजातीयेन ] च । अत्र [ अतुल्यजातीयेन ]' इति परिहतुं शक्यम्।
पृ० १६३ पं० ८,९. जात्युत्तरता "जातिवादः । असदुत्तरं जातिः । “साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः।" 15 न्यायसू. १।२।१८ । विस्तरेण त्वस्याश्चतुर्विशतिर्भेदा न्यायसूत्रस्य पञ्चमाध्याये प्रथमाह्निके विलोकनीयाः।
पृ० १६५५० ५. सङ्गीत्या । सङ्केतेनेत्यर्थः । तुलना- “सङ्गीतिमात्रमत्र प्रत्ययहेतुः, अकृतसङ्केतस्य घटादिप्रत्ययाभावात् ।" इति विशेषावश्यकभाष्यस्खोपज्ञवृत्तौ पृ० ५।
पृ० १६५ पं० ८. अग्नेर्मङ्गलनामवत् । “तत्र नाममङ्गलं यजीवस्य अजीवस्य उभयस्य वा मङ्गलमिति नाम क्रियते, तद्यथा-सिन्धुविषयेऽग्निर्मङ्गलम् । लाडविषये दवरकवलनकम् । उभयं वन्दनविषयं मालेत्यादि ।" इति विशेषा- 20 वश्यकभाष्यखोपज्ञवृत्तौ।
पृ० १६५५० ९. एकान्तः । 'कार्यमेव असत्' इत्युक्तो कार्य सत्त्वं न निषिध्यते । तथा च कार्य सदपि असदपि च सम्भवतीत्यतः 'कार्यमसदेव' इत्येकान्तस्य त्यागो बोध्यः ।
पृ० १६५ पं० १२. यदि कार्य कथमसत् दीपेनेव क्रिययेति । दृश्यतां पृ० १७१ पं० ३-४। पृ० १६५ पं० २१. परिहारार्थमथोच्यते । (परिहारार्थमथोच्येत?)।
25 पृ० १६६ पं० ३, १७. अनुपादानमबुद्धिसिद्धं"नासत्, न सत्, न सदसत्; सदसतोवैधात् । उत्पादव्ययदर्शनात् । बुद्धिसिद्धं तु तदसत् ।"-न्यायसू० ४।१।४८-५० । दृश्यतां पृ. ४६० टि. १, पृ० ५०४ टि०३।
पृ० १६८पं० १९. यत एव..। “यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ।।७।" इति न्यायसूत्रे पाठः । 'पृ. ४३५ पं. ९' इत्यत्र च स एव पाठः स्वीकृतो नयचक्रवृत्तिकृद्भिः । दृश्यतां पृ० ४३५ टि. ४ ।
पृ० १७२ पं० १०. अज्ञानप्रतिबद्धैकान्तेऽपि चाज्ञानप्रतिबद्धत्वे । दृश्यतां पृ० ११३ पं० १९-२०। 30 पृ० १७२ पं० २३. सामान्यादिविचारप्रत्याख्यायिनः । षष्ठ्यन्तमेतत् ।
पृ० १७३ पं० १८. सन्निश्चये । अत्र सन्निश्रये इति भा० प्रतिपाठः समीचीनो भाति, 'तत्त्वेनैक्यम् आश्रित्य न्याय्यः [पृ० १७३ पं० २,१६] इत्यभिहितत्वात् ।
पृ० १७३ पं० २४-२५. भावे घनो..... मिति वा । दृश्यतां पृ० १८ पं० २१, पृ० ३८२ पं० १३-१५। पृ० १७४ पं० १,१०. न च विवि । अत्र 'न विवि...' इत्यपि पाठः समीचीनो भाति ।
35 १ कृत्तिः चर्म । तथा च स्त्रीलिङ्गः 'कुतू'शब्दः चर्ममयस्य तैलघृतादिस्नेहपात्रस्य वाचकः । सैवाल्पा कुतूः पुंलिङ्गेन 'कुतुप'शब्देन अभिधीयते। २ दृश्यतां पृ० १९० पं० १२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org