________________
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० १४० पं० २५पृ० १४० पं० २५. यशसंस्थाभिरग्निष्टोमादिभिरिष्टिभिश्चा...। दृश्यतां टिपृ० ५३ टि० ३ । - पृ० १४१ पं० ४. तदनुष्ठातव्यम् । दृश्यतां पृ० १५२ पं० १५।
पृ० १४१ पं० ५. मीमांसकैरेवं । अत्र 'मीमांसकैरेव' इति भा० प्रतिस्थः पाठः समीचीनतरः । - पृ० १४१ पं० ६. यज्ञेन यज्ञम। “अथातो धर्मजिज्ञासा ।१।१।१। चोदनालक्षणोऽर्थो धर्मः ।१।१।२। तस्मा5 चोदनालक्षणोऽर्थः श्रेयस्करः । एवं तर्हि श्रेयस्करो जिज्ञासितव्यः, किं धर्मजिज्ञासया? उच्यते-य एव श्रेयस्करः स एव धर्मशब्देनोच्यते । कथमवगम्यताम् ? यो हि यागमनुतिष्ठति तं धार्मिक इति समाचक्षते । यश्च यस्य कर्ता स तेन व्यपदिश्यते, यथा पाचको लावक इति । तेन यः पुरुषं निःश्रेयसेन संयुनक्ति स धर्मशब्देनोच्यते । न केवलं लोके, वेदेऽपि 'यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन्' [ ऋग्वेद० १०९०।१५] इति यजतिशब्दवाच्यमेव धर्म समाम
नन्ति ।" इति मीमांसादर्शनस्य शाबरभाष्ये। 10 पृ० १४१ पं० १८. भावनस्य....."हेतुकर्तृसाधनसाध्यस्य । भावयतीति भावनः, तस्य भावनस्य, भवन्तं
धर्म भावयत इत्यर्थः। तथा च हेतुकर्तृसाधनोऽयं भावनशब्दः, "स्वतन्त्रः कर्ता । तत्प्रयोजको हेतुश्च ।" [पा० १४५४-५५] इति हेतुसंज्ञायाः कर्तृसंज्ञायाश्च व्याकरणेन विधानात् ।
पृ० १४२ पं० १. तदनुबन्धाचे । दृश्यतां पृ० १४६ पं० १०,२०, पृ० १४७ पं० १२, पृ० १४९ पं० २१ ।
पृ० १४२ पं० १०. योगविभागा।"चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । [पा० २।१।३६। ] ... ... .. योग15 विभागः करिष्यते-'चतुर्थी' । चतुर्थी सुबन्तेन सह समस्यते । ततः 'तदर्थार्थ' ।" इति पातञ्जलमहाभाष्ये ।२।१॥३६॥
पृ० १४३ पं० १०. प्रागुक्तविधिना । प्रथमे विधिनये विस्तरेणाभिहितमेतत् । दृश्यतां पृ० ३५। पृ० १४३ पं० ११. चानिष्ठ । दृश्यतां पृ० ३५ पं० २१ टि० ८, टिष्ट० २६ पं० १७ । पृ० १४४ पं० ३-४. प्राग् नासीत् बाध्यत्वाच्च । दृश्यतां पृ० १४६ पं० ७ ।
पृ० १४४ पं० ८. 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः।' इति मुद्रितायां कैवल्योप20 निषदि महानारायणोपनिषदि च दर्शनादस्माभिरप्ययं पाठः स्वीकृतः, तथापि "तथा च वेदेऽप्युक्तम्-न प्रजया न धनेन त्यागेनैकेनामृतत्वमानशुः ॥” इति उत्तराध्ययनसूत्रबृहद्वृत्तौ [ ४।१७, पृ० ४०१ ] दर्शनात् सर्वासु हस्तलिखितनयचक्रप्रतिषु च 'न कर्मणा प्रजायन धनेन त्यागेनैकेनामृतत्वमानसः' इति पाठोपलब्धेः नै कर्मणा न प्रजया न धनेन त्यागेनैकेनामृतत्वमानशुः' इत्यपि पाठः पुरा प्रसिद्ध आसीदिति प्रतिभाति । तथा च 'नै कर्मणा न प्रजया न धनेन त्यागेनैकेना
मृतत्वमानशुः' इति प्रत्यनुसारी पाठः शुद्ध एवात्र । 25 पृ० १४४ पं० ११. पुरुष एवेदं । दृश्यतां टिपृ० ५९ पं० २।
पृ० १४५ पं० १७. काक्वनुमत्या । “काकुलनिविकारः स्यात् ।।" इति अभिधानचिन्तामणौ ६।४६ । पृ० १४७ पं० २०. कारणभावादतथाता च । (°कारणभावोऽतथाता च?)। पृ० १४८ पं० २४. परान्तर्बुध्नादि । (परान्तबुध्नादि...)। दृश्यतां पृ० ९० पं० ३,१६ ।
१ "देवाः प्रजापतिप्राणरूपाः यज्ञेन यथोक्तेन मानसेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिमयजन्त पूजितवन्तः । तस्मात् तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि मुख्यान्यासन्" । इति सायणभाष्ये। २ "स्वतन्त्रः कर्ता श४५४। क्रियायां स्वातत्र्येण विवक्षितोऽर्थः कर्ता स्यात् । तत्प्रयोजको हेतुश्च ।१।४।५५। कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् । हेतुमति च ।३।१।२६। प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोणिच् स्यात् । भवन्तं प्रेरयति भावयति ।” -पा० सिद्धान्तकौ०। ३ हस्तलिखितनयचक्रप्रत्यनुसारेण 'न कर्मणा प्रजया न धनेन त्यागेनैकेनामृतत्वमानशुः' इत्यपि शुद्धः पाठः स्यादत्र । “न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः” इति सांख्यकारिकायक्तिदीपिकायाम् [पृ० १९] उद्धृतः पाठः। ४“कायत्यर्थान्तरं काकुः पुंस्त्रीलिङ्गः, 'कौशिशमि' -[ हैमउणा० ७४९ 1 इति कुः । ककते प्रकृतार्थातिरिक्त वाञ्छतीति वा, हृदयस्थवस्तुप्रतीतेरीषद्भमिर्वा काकुः, तद्व्यापारसम्पाद्यत्वाद्वा । ध्वनेर्विकारोऽन्यथापत्तिर्ध्वनिविकारः।” इति हेमचन्द्रसूरिप्रणीतायाम् अभिधानचिन्तामणिखोपज्ञवृत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org