________________
पृ० १४० पं० ४,२२.]
टिप्पणानि । पृ० १३६. पं० ३-४,२१-२५. त्वदभिप्रायवत् । दृश्यतां पृ० १५२ पं० २० ।
पृ० १३६ पं० ८. पुरुष एवेदं । “पुरुष एवेद, सर्वं यद्भूतं यच भव्यम् । उतामृतत्वस्येशानो यदन्नेनाति॒िरोहति ॥" इति ऋग्वेदे पुरुषसूक्ते १०।९०। वचनमिदं यजुर्वेदेऽप्युपलभ्यते । दृश्यतां पृ० १४४ पं० ११, पृ० १८९ ५० ५।
__पृ० १३६ ५० ५. विध्यन्तरविधान...."मष्टाश्रिमित्यादि [पृ० १३७ पं० १] । 'विध्यन्तरविधानशैल्या तसिद्धिः, यूपं छिनत्ति..... पालाशमष्टाश्रिमित्यादिवत्' इत्यपि मूलं सम्भाव्यतेऽत्र ।
पृ० १३७ पं० १,१०. एतदपि । दृश्यतां पृ० १५३ पं० ५।
पृ० १३७ पं० २,१२. संस्कृतः सन्"। "संस्कारास्त्वावर्तेरन् , अर्थकालत्वात् । तत्कालास्तु यूपकर्मत्वात् तस्य धर्मविधानात् सर्वार्थानां च वचनादन्यकालत्वम् । सकृन्मानं च दर्शयति ।" इति मीमांसादर्शने ११।३।४।५-७ ।
पृ. १३७ पं० ४,१५. ननु तच्छब्दता...। "तद्यत्तादात् ताच्छब्द्य तस्येदं ग्रहणम् ।" इत्यपि पातञ्जलमहाभाष्ये [१।१।२८,२९] उपलभ्यते पाठः । एवं च तदनुसारेण 'ननु तद्यत्तादर्थ्यात् ताच्छब्धं तस्येदं ग्रहणम् , यथेन्द्रार्था स्थूणेन्द्रः। 10 इत्यपि मूलं चिन्त्यम् । हस्तलिखितप्रतिषु तु अशुद्धः पाठोऽत्र ।
पृ० १३७ पं० २३. यथा यूपं । दृश्यतां टिपृ० ५९ ५० ५। पृ० १३८ पं० ३,११ न च च्छेदनमेवे। (न च च्छेदनेनैवे...?)। पृ० १३८ पं० ८,२३. शैली। दृश्यतां पृ० १५३ पं० ५। पृ० १३९ पं० १,९. ननु सेवादिवत् । दृश्यतां पृ० १५३ पं० २२-२३ । पृ० १४०पं० २,१४. वेदवादासाधुता: । दृश्यतां पृ० १५३ पं० २३ । पृ० १४० पं० ४,२२. अथ अग्निहोत्र... दृश्यतां पृ० १५२ पं० १४ ।
१ 'भाव्यम् इति यजुर्वेदे पाठः, तत्र वं व्याख्यायते – “स एव पुरुषः, पूर्वपर्यायविशेषिते 'एव'शब्दः, नान्यः । इदं वर्तमानकं सर्व यच्च भूतमतीतं यच्च भाव्यं भविष्यत् तस्य कालत्रयस्य ईशानः । न केवलं कालत्रयस्य ईशानः, उत अमृतत्वस्यापि मोक्षस्यापि, 'उत'शब्दोऽपिशब्दार्थे । कस्मात् कारणात् ? यत् अन्नेन अमृतेन अतिरोहति अतिरोहं करोति सर्वस्येश्वर इति ।" इति उवटविरचिते शुक्लयजुर्वेदभाष्ये ३१।२। “यत् इदं वर्तमानं जगत् तत् सर्व पुरुष एव । यद् भूतमतीतं जगत् यच्च भाव्यं भविष्यं जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट् पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्द्रष्टव्यमिति भावः । उतापि च अमृतत्वस्य देवत्वस्य ईशानः स्वामी स पुरुषः, यद् यस्मात् अन्नेन प्राणिनां भोग्येन अन्नेन फलेन निमित्तभूतेन अतिरोहति स्वीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात् पुरुष एव । प्राणिनां कर्मफलोपभोगाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुत्वमित्यर्थः । यद्वा सर्व पुरुषश्चेत् तर्हि परिणामीत्याशङ्कयाह - अमृतत्वस्य अमरणधर्मस्येशानः मुक्तेरीशः। यो हि मोक्षेश्वरो नासौ म्रियत इत्यर्थः । किञ्च, यजीवजातमन्नेनातिरोहति उत्पद्यते तस्य सर्वस्य चेशानः, ब्रह्मादिस्तम्बपर्यन्तो भूतग्राम उक्तः, तस्यान्नेनैव स्थितेः। 'इतः प्रदानाद्धि देवा उपजीवन्ति' इति श्रुतेः।" इति महीधरविरचितायां शुक्लयजुर्वेदवृत्तौ ३१।२ । महीधरविरचितवृत्तिसदृश्येव व्याख्यात्र ऋग्वेदस्य सायणभाष्ये। २ “संस्कारा।११।३।४।५। यूपसंस्कारा ये पशुतन्त्रमध्ये क्रियन्ते तथा प्रोक्षणमञ्जनमुच्छ्रयणं परिव्याणं च, तेषु चिन्त्यते-किं तस्य तस्य पशोर्भेदेन कर्तव्याः अथवा तन्त्रमिति । किं प्राप्तम् ? संस्कारास्त्वावर्तेरन् यूपस्य, न यथा यूपास्तन्त्रं तथा स्युः । किं कारणम् ? अर्थकालत्वात् । अर्थः पशोर्नियोजनम् । तत्काला एते संस्काराः । तत्र गृह्यते विशेषः । यस्य पशोर्नियोजनकाले कृतास्तदर्था इति । इतरयोस्तु पश्वोरप्राप्तकालत्वात् तादर्थेन नास्ति प्रयोगः । तस्मादावर्तेरन् । यथा अग्नेः संमार्जनम् । तत्कालास्तु।११।३।४।६। सत्यमावर्तेरन्, यद्येते नियोजनकाला भवेयुः । तत्कालास्त्वेते दीक्षाकालाः । कथं ज्ञायते ? यूपकर्मत्वात् । नैते नियोजनार्थाः । यूप एतैः क्रियते । यूपो नियोजनार्थः । स च दीक्षासु कर्तव्यः । 'दीक्षासु यूपं छिनत्ति' इति वचनात् । संस्कारैश्च स क्रियते । तस्मादू दीक्षाकाला एवैते संस्काराः । ननु छेदनमात्रं तत्र यूपस्य श्रूयते, न यूपक्रिया। उच्यते-न किञ्चिद् द्रव्यं यूपाख्यमस्ति यस्य छेदनमुच्येत । तदेतदेवं ज्ञायते - दीक्षासु छेदनादिभिर्दूपं करोतीति । छेदनग्रहणं च मुख्यत्वात् प्रदर्शनार्थम् । यत् कारणम् । नासौ छेदनेन केवलेन यूपो भवति इति । तस्माद् यूपवत् संस्कारा अपि
कृन्मानं च दर्शयति ।११।३।४।७. सकृन्मितं खातं यूपं दर्शयति । तस्मादपि तत्रं संस्काराः।” इति शाबरभाष्ये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org