Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 550
________________ पृ० १२९ पं० २३.] टिप्पणानि । विशिष्टं भवति । ... उक्तार्थानामपि प्रयोगो दृश्यते । तद्यथा - अपूपौ द्वावानय, ब्राह्मणौ द्वावानयेति ।" इति पातञ्जलमहाभाष्ये । " अधिपरी अनर्थकौ । १।४।९३। उक्तसंज्ञौ [ = कर्मप्रवचनीयसंज्ञौ ] स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति ।"पा० सिद्धान्तकौ० । “इदानीं संभूयार्थाभिधायकत्वमपि दर्शयितुमाह- अप्रयोगेऽधिपर्योश्च यावद् दृष्टं क्रियान्तरम् । तस्याभिधायको धातुः सह ताभ्यामनर्थकः ॥ [ वाक्यप० २।१९१] समुदाय एव विशिष्टार्थाभिधायक इत्यधिपर्योः केवलयोर्धातोश्चात्रानर्थकत्वमनर्थान्तरवाचकत्वमित्यर्थः ।" इति पुण्यराजविरचितायां वाक्यपदीयवृत्तौ । पृ० १२८ पं० ७. कुम्भकारवत्" । “उपपदमतिङ् । २।२।१९ । उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । " - पा० सिद्धान्तकौ० । ५७ पृ० १२८ पं० १०-११. अस्तिक्षीराश्नीत पिबतादिषु तिङन्तप्रतिरूपकनिपात ... | "अनेकमन्यपदार्थे । २।२।२४|'''''' सुबधिकारेऽस्तिक्षीरादीनामुपसंख्यानं कर्तव्यम् । अस्तिक्षीरा ब्राह्मणी । न वा कर्तव्यम् । किं कारणम् ? अव्ययत्वात् । अव्ययमेषोऽस्तिशब्दः । नैषोऽस्तेर्लट् । कथमव्ययत्वम् ? ' उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपातसंज्ञा भवन्ति' 10 इति निपातसंज्ञा । 'निपातोऽव्ययम्' इत्यव्ययसंज्ञा ।” - पा० म० भा० । “ अनेकमन्यपदार्थे | २|२| २४| अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते । स बहुव्रीहिः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः । मयूरव्यंसकादयश्च ।२।१।७२ । एते निपात्यन्ते । ...अनीत पिबत इत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता ।" - पा० सिद्धान्तकौ ० । पृ० १२८ पं० १४. शङ्कुलाखण्डप्रातिपक्ष्येण । "तृतीया तत्कृतार्थेन गुणवचनेन । उपादानविकलः, शङ्कुलाखण्डः, किरिकाणः । समर्थग्रहणं किमर्थम् ? 'तिष्ठ त्वं, शङ्कुलया, खण्डो धावति मुसलेन । किं त्वं करिष्यसि शङ्कुलया, खण्डो 15 विष्णुमित्र उपलेन ।” इति पातञ्जलमहाभाष्ये २|१|१| पृ० १२८ पं० १५-१६. देवदत्तस्य सापेक्षस्यापि समासः । “यदि सापेक्षम समर्थं भवतीत्युच्यते 'राजपुरुषोऽभिरूपः ' 'राजपुरुषो दर्शनीयः' अत्र वृत्तिर्न प्राप्नोति । नैष दोषः । प्रधानमत्र सापेक्षम् । भवति च प्रधानशब्दस्य सापेक्षस्यापि समासः । यत्र तर्ह्यप्रधानं सापेक्षं भवति तत्र वृत्तिर्न प्राप्नोति - 'देवदत्तस्य गुरुकुलम्' 'देवदत्तस्य गुरुपुत्रः ' 'देवदत्तस्य दासभार्या' इति । नैष दोषः । समुदायापेक्षात्र षष्ठी सर्व गुरुकुलमपेक्षते ।” - इति पातञ्जलमहाभाष्ये २1१1१120 विस्तरार्थिभिस्तु अस्य व्याख्यानं प्रदीपे उद्योते च विलोकनीयम् । पृ० १२८ पं० १८ - १९. अपशब्दो हि नाम... । “भूयांसोऽपशब्दाः ।... तद्यथा - 'गौः' इत्यस्य शब्दस्य 'गावी, गोणी, गोता, गोपोतलिका' इत्यादयो बहवोऽपभ्रंशाः ।" इति पातञ्जलमहाभाष्ये १|१| पस्पशाह्निके । " तत्र 'गौः ' इति प्रयोक्तव्ये अशक्त्या प्रमादादिभिर्वा गाव्यादयस्तत्प्रकृतयोऽपभ्रंशाः प्रयुज्यन्ते । ते च सास्नादिमत्येव लब्धस्वरूपाः साधुत्वं विजहति । अर्थान्तरे तु प्रयुज्यमानाः साधव एव विज्ञायन्ते । न ह्येतेषां रूपमात्रप्रतिबद्धमसाधुत्वम् । अखगोण्यादयः शब्दाः 25 साधवो विषयान्तरे । १।१४९ | आवपने 'गोणी' इति स्वविप्रयोगाभिधाने च 'अस्वः' इत्येतयोरवस्थितं साधुत्वम् |" इति भर्तृहरिविरचितायां वाक्यपदीय स्ववृत्तौ १।१४९ | पृ० १२९ पं० ३. पदान्तरविषयत्वात्, अज्ञात । अत्र 'पदान्तरविषयत्वात्, वाक्यभेद एव वा अज्ञात .... इति पाठः समीचीनो भाति । दृश्यतां टिपृ० ५७ पं० ३५ । 5 पृ० १२९ पं० १४. क्रियार्थत्वरूढस्य । अत्र हस्तलिखितप्रत्यनुसारी 'क्रियार्थे च रूढस्य' इति पाठः शोभन एव । 30 पृ० १२९ पं० १४ - १६. आख्यातस्य... । दृश्यतां टिपृ० ५५ पं० २८ । पृ० १२९ पं० १९. धातुप्रातिपदिक" । “अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।” - पा० १/२/४५ । “भूवादयो धातवः । " - पा० १|३|१| "क्रियावचनो धातुः । " - पा० म० भा० १|३|१| " सुप्तिङन्तं पदम् ।" - पा० १।४।१४ | पृ० १२९ पं० २३. 'न' इत्यनुवर्तनात् । 'न' इत्यनुवर्तनाद् 'न केवलो वाक्यभेद एव वा' इत्याशयः प्रतीयते । एवं च मूलेऽपि [पृ० १२९ पं० ३] 'न पदभेद एव पदान्तरविषयत्वात्, वाक्यभेद एव वा अज्ञातस्याग्निहोत्रस्य क्रिया- 35 विशेषणत्वेनानुवादात्' इति पाठः समीचीनो भाति । दृश्यतां टिपृ० ५७ पं० २८ । १ “ तिष्ठ त्वम्, शङ्कुलया न प्रयोजनम्, मुसलेन कृतः खण्डो धावतीत्यर्थः । 'शङ्कुलयेति सहयोगे तृतीया' इत्यपि कश्चित् । हे विष्णुमित्र त्वं शङ्कुलया किं करिष्यसि ? उपलेन पाषाणेन कृतः खण्ड इति द्वितीयार्थः । इति उद्दयोते । नय० दि०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662