________________
पृ० १२९ पं० २३.]
टिप्पणानि ।
विशिष्टं भवति । ... उक्तार्थानामपि प्रयोगो दृश्यते । तद्यथा - अपूपौ द्वावानय, ब्राह्मणौ द्वावानयेति ।" इति पातञ्जलमहाभाष्ये । " अधिपरी अनर्थकौ । १।४।९३। उक्तसंज्ञौ [ = कर्मप्रवचनीयसंज्ञौ ] स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति ।"पा० सिद्धान्तकौ० । “इदानीं संभूयार्थाभिधायकत्वमपि दर्शयितुमाह- अप्रयोगेऽधिपर्योश्च यावद् दृष्टं क्रियान्तरम् । तस्याभिधायको धातुः सह ताभ्यामनर्थकः ॥ [ वाक्यप० २।१९१] समुदाय एव विशिष्टार्थाभिधायक इत्यधिपर्योः केवलयोर्धातोश्चात्रानर्थकत्वमनर्थान्तरवाचकत्वमित्यर्थः ।" इति पुण्यराजविरचितायां वाक्यपदीयवृत्तौ ।
पृ० १२८ पं० ७. कुम्भकारवत्" । “उपपदमतिङ् । २।२।१९ । उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । " - पा० सिद्धान्तकौ० ।
५७
पृ० १२८ पं० १०-११. अस्तिक्षीराश्नीत पिबतादिषु तिङन्तप्रतिरूपकनिपात ... | "अनेकमन्यपदार्थे । २।२।२४|'''''' सुबधिकारेऽस्तिक्षीरादीनामुपसंख्यानं कर्तव्यम् । अस्तिक्षीरा ब्राह्मणी । न वा कर्तव्यम् । किं कारणम् ? अव्ययत्वात् । अव्ययमेषोऽस्तिशब्दः । नैषोऽस्तेर्लट् । कथमव्ययत्वम् ? ' उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपातसंज्ञा भवन्ति' 10 इति निपातसंज्ञा । 'निपातोऽव्ययम्' इत्यव्ययसंज्ञा ।” - पा० म० भा० । “ अनेकमन्यपदार्थे | २|२| २४| अनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते । स बहुव्रीहिः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः । मयूरव्यंसकादयश्च ।२।१।७२ । एते निपात्यन्ते । ...अनीत पिबत इत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता ।" - पा० सिद्धान्तकौ ० । पृ० १२८ पं० १४. शङ्कुलाखण्डप्रातिपक्ष्येण । "तृतीया तत्कृतार्थेन गुणवचनेन । उपादानविकलः, शङ्कुलाखण्डः, किरिकाणः । समर्थग्रहणं किमर्थम् ? 'तिष्ठ त्वं, शङ्कुलया, खण्डो धावति मुसलेन । किं त्वं करिष्यसि शङ्कुलया, खण्डो 15 विष्णुमित्र उपलेन ।” इति पातञ्जलमहाभाष्ये २|१|१|
पृ० १२८ पं० १५-१६. देवदत्तस्य सापेक्षस्यापि समासः । “यदि सापेक्षम समर्थं भवतीत्युच्यते 'राजपुरुषोऽभिरूपः ' 'राजपुरुषो दर्शनीयः' अत्र वृत्तिर्न प्राप्नोति । नैष दोषः । प्रधानमत्र सापेक्षम् । भवति च प्रधानशब्दस्य सापेक्षस्यापि समासः । यत्र तर्ह्यप्रधानं सापेक्षं भवति तत्र वृत्तिर्न प्राप्नोति - 'देवदत्तस्य गुरुकुलम्' 'देवदत्तस्य गुरुपुत्रः ' 'देवदत्तस्य दासभार्या' इति । नैष दोषः । समुदायापेक्षात्र षष्ठी सर्व गुरुकुलमपेक्षते ।” - इति पातञ्जलमहाभाष्ये २1१1१120 विस्तरार्थिभिस्तु अस्य व्याख्यानं प्रदीपे उद्योते च विलोकनीयम् ।
पृ० १२८ पं० १८ - १९. अपशब्दो हि नाम... । “भूयांसोऽपशब्दाः ।... तद्यथा - 'गौः' इत्यस्य शब्दस्य 'गावी, गोणी, गोता, गोपोतलिका' इत्यादयो बहवोऽपभ्रंशाः ।" इति पातञ्जलमहाभाष्ये १|१| पस्पशाह्निके । " तत्र 'गौः ' इति प्रयोक्तव्ये अशक्त्या प्रमादादिभिर्वा गाव्यादयस्तत्प्रकृतयोऽपभ्रंशाः प्रयुज्यन्ते । ते च सास्नादिमत्येव लब्धस्वरूपाः साधुत्वं विजहति । अर्थान्तरे तु प्रयुज्यमानाः साधव एव विज्ञायन्ते । न ह्येतेषां रूपमात्रप्रतिबद्धमसाधुत्वम् । अखगोण्यादयः शब्दाः 25 साधवो विषयान्तरे । १।१४९ | आवपने 'गोणी' इति स्वविप्रयोगाभिधाने च 'अस्वः' इत्येतयोरवस्थितं साधुत्वम् |" इति भर्तृहरिविरचितायां वाक्यपदीय स्ववृत्तौ १।१४९ |
पृ० १२९ पं० ३. पदान्तरविषयत्वात्, अज्ञात । अत्र 'पदान्तरविषयत्वात्, वाक्यभेद एव वा अज्ञात .... इति पाठः समीचीनो भाति । दृश्यतां टिपृ० ५७ पं० ३५ ।
5
पृ० १२९ पं० १४. क्रियार्थत्वरूढस्य । अत्र हस्तलिखितप्रत्यनुसारी 'क्रियार्थे च रूढस्य' इति पाठः शोभन एव । 30 पृ० १२९ पं० १४ - १६. आख्यातस्य... । दृश्यतां टिपृ० ५५ पं० २८ ।
पृ० १२९ पं० १९. धातुप्रातिपदिक" । “अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।” - पा० १/२/४५ । “भूवादयो धातवः । " - पा० १|३|१| "क्रियावचनो धातुः । " - पा० म० भा० १|३|१| " सुप्तिङन्तं पदम् ।" - पा० १।४।१४ |
पृ० १२९ पं० २३. 'न' इत्यनुवर्तनात् । 'न' इत्यनुवर्तनाद् 'न केवलो वाक्यभेद एव वा' इत्याशयः प्रतीयते । एवं च मूलेऽपि [पृ० १२९ पं० ३] 'न पदभेद एव पदान्तरविषयत्वात्, वाक्यभेद एव वा अज्ञातस्याग्निहोत्रस्य क्रिया- 35 विशेषणत्वेनानुवादात्' इति पाठः समीचीनो भाति । दृश्यतां टिपृ० ५७ पं० २८ ।
१ “ तिष्ठ त्वम्, शङ्कुलया न प्रयोजनम्, मुसलेन कृतः खण्डो धावतीत्यर्थः । 'शङ्कुलयेति सहयोगे तृतीया' इत्यपि कश्चित् । हे विष्णुमित्र त्वं शङ्कुलया किं करिष्यसि ? उपलेन पाषाणेन कृतः खण्ड इति द्वितीयार्थः । इति उद्दयोते । नय० दि०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org