SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ १६ न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [पृ० १२७ पं० ११-१४__ पृ० १२७ पं० ११-१४. संसर्गो........"शब्दस्यार्थव्यवच्छेदे विशेषस्मृतिहेतवः । उद्धृताविमौ श्लोको काव्यप्रकाश[ २।१९ टीकादिषु व्याख्यातौ च तत्र । इदं पुनरवधेयम् - मुद्रिते वाक्यपदीयेऽन्यत्र च बाहुल्येन ‘शब्दार्थस्थानवच्छेदे' इति पाठो दृश्यते तथापि 'शब्दस्यार्थच्यवच्छेदे' इति प्राचीनः पाठः, स च शुद्ध एव । अर्थव्यवच्छेदे स्वार्थनिर्णये कर्तव्ये इत्याशयः । सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तावपि उद्धृतमिदं श्लोकद्वयम्, तत्र च 'शब्दस्यार्थव्यवच्छेदे' 5 इत्येव पाठो दृश्यते । पुण्यराजविरचिता वाक्यपदीयत्तिरपि एतत्पाठानुकूलैव भाति । पृ० १२७ पं० १५. आसन्नश्रुतोऽग्निहोत्रशब्दः, तच्चोदित । अत्र य० प्रत्यनुसारी 'आसन्नश्रुताग्निहोत्र. शब्दात्तच्चोदित' इति पाठोऽपि समीचीन एव । पृ० १२८ पं० ७. प्रलम्बते...। “अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।१।२।४५। ..... निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या । खञ्जति । निखक्षति । लम्बते । प्रलम्बते। किं पुनरत्र प्रातिपदिकसंज्ञया प्रार्थ्यते ? 'प्रातिपदिका दिति 10 स्वाधुत्पत्तिः। 'सुबन्तं पदम्' इति पदसंज्ञा । पदस्य पदादिति निघातो यथा स्यात् ।............ अधिपरी अनर्थको१।४।९३ ।.......... अथवा नेमावनर्थको । किं तद्यनर्थकावित्युच्यते। अनर्थान्तरवाचिनावनर्थको धातुनोक्ता क्रियामाहतुः । तद १"वाक्यात् प्रकरणादर्थादौचित्याद् देशकालतः । शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ॥ २॥३१६ ॥ तत्र वाक्याच्छब्दार्थनिर्णयो यथा 'कटं करोति भीष्ममुदारं दर्शनीयम्' इति...... भीष्मगुणान्वितस्यैव कटस्य करणं वाक्यार्थः ।... तथात्र प्रकरणमप्यशब्दं शब्दार्थनिर्णयनिमित्तम् , यथा ग्रामप्रस्तावे सैन्धवानां चोदनमश्वानयनपर्यवसायि भवति । भोजनप्रस्तावे तु तदेव लवणप्रतीतिमुपजनयतीति । अर्थस्तु शाब्दत्वाच्छब्दार्थनिर्णयं प्रकल्पयति, यथा 'अञ्जलिना जुहोति, अजलिना सूर्यमुपतिष्ठते, अञ्जलिना पूर्णपात्रमाहरति' इत्यत्र जुहोतीत्याद्यर्थवशाद् विभिन्नार्थवाचकोऽजलिशब्दः ।.........औचित्यादपि शब्दार्थव्यवस्थानं दृश्यते, यथा 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः॥' इत्यत्र अनुक्तक्रियापदानि साधनान्येव औचित्यवशात् स्वसमुचित क्रियापदावगल्या..... वाक्यार्थस्य प्रतीतिमुपजनयन्ति । तथा च यो निम्बं परशुना छिनत्ति यश्चैनं गन्धेनानुलिम्पति सर्वस्य तस्य 'दुस्त्यजा प्रकृतिः' इति कृत्वा कटुरेव, दौर्मनस्यदाननिपुण एव । इति कस्यचित् खलत्वप्रतिपादनमत्र तात्पर्यार्थः ।. देशाच्छब्दार्थनिर्णयो यथा 'मथुरायाः प्राचीनादुदीचीनाद्वा नगरादागच्छामि' इत्युक्ते नगरविशेषात् पाटलिपुत्रादागच्छामि इति गम्यते ।..... कालात्तु खलु व्यवस्था दृश्यते, यथा शिशिरे 'द्वारम्' इत्युक्त 'पिधेहि' इति, ग्रीष्मसमये त्वेवमभिधाने 'समुद्धाटय' इति गम्यते । एतच्च शब्दार्थनिर्णयोपायाना दिमात्रप्रदर्शनं बोद्धव्यम् । तथा चापरैः संसर्गादयः शब्दार्थावच्छेदहेतवः प्रदर्शिता इत्याह-संसर्गो विप्रयोगश्च...... ॥ २।३१७ ॥....."विशेषस्मृति हेतवः ॥ २॥३१८ ॥.........संसर्गादिभिरवच्छेदः क्रियते...."संसर्गादिभिरर्थनिर्णयः क्रियते ।.."सामर्थ्यमेव हि संसर्गादिभिर्व्यज्यत इति । तत्र संसर्गाद् यथा 'सकिशोरा धेनुरानीयताम्' इत्यत्र नियतेन संसर्गिणा किशोरलक्षणेन विशेषावसायनिमित्तेन वडवाया एव सम्प्रत्ययः । यथा च 'सवत्सा धेनुः' इत्यत्र वत्ससंसर्गाद् गोधेनोरेव सम्प्रत्यय इति संसर्गादर्थनिर्णयः । "तथा संसर्गवद् विप्रयोगोऽपि अवच्छेदहेतुः ।..."अकिशोरा धेनुः अवत्सा अकरभा वा आनीयताम्' इति किशोरादिविप्रयोगेन विशिष्टजातीयाया एव धेनोरवगतिरुपजायत इति ।.. साहचर्याद् यथा 'रामलक्ष्मणौ' इत्युक्ते लक्ष्मणसाहचर्याद् दाशरथेरेव प्रतीतिः ।.."विरोधादप्यर्थोऽवधार्यते, यथा 'रामार्जुनौ' इत्यत्र अर्जुनस निधाने निसर्गवैरिणो जामदग्न्यस्यैव प्रतीतिः । अर्थप्रकरणदेशकालौचित्यैर्विशेषेऽवस्थापनं प्राक् प्रदर्शितम् । लिङ्गाच वाक्यान्तरे दृष्टाद् भेदः प्रसिद्धः प्रतीयते, यथा 'अक्ताः शर्करा उपदधाति' इत्यत्र अनेकस्याञ्जनद्रव्यस्य सम्भवे तेजोघृतस्य स्तुतिरुक्ता । एतस्मालिङ्गाद घृतसाधनत्वमजिक्रियायाः शर्कराकर्मिकाया निर्धार्यते । शब्दान्तरसंनिधानादपि विशेषावगतिः, यथा 'अर्जुनः कार्तवीर्यः' 'रामो जामदायः' इति । सामर्थ्याद् विशेषप्रतिपत्तिः, यथा 'अनुदरा कन्या' इति सामर्थ्यादुदरविशेषप्रतिषेधप्रतीतिः ।... व्यक्तिर्लिङ्गम् । तस्मान्निर्णयो यथा 'तद् प्रामस्याध लभेत' इत्यत्र समप्रविभागेऽर्धशब्दो नपुंसकेन परामर्शात् । तस्माद् प्रामस्या सममेव प्रतीयते । 'तं ग्रामस्यार्धम्' इत्यत्र तु तमिति पुंलिङ्गेन परामर्शाद् ग्रामैकदेशमात्रं प्रतीयते ।...खराद यथा 'स्थूलपृषतीमालमेत' इत्यत्रान्तोदात्तस्य श्रवणात् 'स्थूला चासौ पृषती' इत्येवंविधार्थप्रतीतिः । पूर्वपदप्रकृतिस्वरत्वदर्शने 'स्थूलानि पृषन्ति यस्याम्' इत्यन्यपदार्थप्रतीतिः । णत्वनत्वाभ्यां यथा प्रणायक इत्यत्र उपसर्गाश्रयणत्वसद्भावे प्रणयन क्रियाकर्तुः प्रतीतिः । णत्वाभावे तु प्रगता नायका अस्माद्देशादसौ 'प्रनायको देशः' इत्यन्यपदार्थप्रतीतिरिति । तदेवमेते शब्दार्थस्य सन्देहनिराकरणद्वारेण नियतार्थावसायहेतुत्वाद् विशेषस्मृतिहेतवो निर्णयहेतवः संसोदय इति बोद्धव्यम् ।” इति पुण्यराजविरचितायां वाक्यपदीयवृत्तौ २१३१६-३१८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy