________________
पृ० १२६ पं० २४,३२.]
टिप्पणानि । पुनर्भेदः संसर्गो वा ? इह 'राज्ञः' इत्युक्ते सर्व स्वं प्रसक्तम् , 'पुरुषः' इत्युक्ते सर्वः स्वामी प्रसक्तः । इहेदानीं 'राजपुरुषमानय' इत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः । एवमेतस्मिन्नुभयतो व्यवच्छिन्ने यदि स्वार्थ जहाति कामं जहातु, न जातुचित पुरुषमात्रस्यानयनं भविष्यति ।" इति पातञ्जलमहाभाष्ये २॥११॥
पृ० १२३ पं० २०. येन समानो...। (केन समानो ब्रह्मचारी!)। "चरणे ब्रह्मचारिणि"-पा० ६।३१८६।
पृ० १२४ पं० १,७. प्रमादाधीत । 'प्रमादपाठः' [ शाबरभा० १२१८] 'प्रमतगीतः' [पातञ्जलमहाभा० १।१।। पस्पशा०] इत्यादयः शब्दप्रयोगा बहुलमुपलभ्यन्ते ग्रन्थेषु ।।
पृ० १२४६०१-२. अग्निहोत्राख्यं ।..."तप्रख्यं चान्यशास्त्रम् १ " इति मीमांसादर्शनसूत्रस्य शाबरभाष्ये कुमारिलभट्टविरचिते तन्त्रवार्तिके च 'अग्निहोत्र'शब्दस्य कर्मनामधेयत्वं सिद्धान्तितम् । “अग्निहोत्रं जुहोति [ तै० सं० १।५।९।१, मै० सं० १८६] इत्यत्र 'अग्निहोत्र'शब्दस्य कर्मनामधेयत्वं तत्प्रख्यशास्त्रात् । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य शास्त्रस्य विद्यमानत्वाद् 'अग्निहोत्र'शब्दः कर्मनामधेयमिति यावत् । नन्वयं गुणविधिरेव कुतो न इति चेत्, न, यदि 'अग्नौ 10 होत्रमस्सिम्' इति सप्तमीसमासमाश्रित्य होमाधारत्वेनाग्निरूपो गुणो विधेयः तदा 'यदाहवनीये जुहोति' इत्यनेनैव अग्नेः प्राप्तत्वात् तद्विधानानर्थक्यम् । 'अग्नये होत्रम्' इति चतुर्थीसमासमाश्रित्य अग्निदेवतारूपगुणोऽनेन विधीयत इति चेत्, न, तद्देवतायाः शास्त्रान्तरेण प्राप्तत्वात् । किं तच्छास्त्रान्तरमिति चेत्, 'यदग्नये च प्रजापतये च सायं जुहोति' [मै० सं० १८७] इति केचित् । अपरे तु 'अग्निज्योतिज्योतिरग्निः स्वाहा' [मै० सं० १।६।१०] इति मन्त्रवर्ण एवाग्निरूपदेवताप्रापकः।"-इति लौगाक्षिभास्करप्रणीते अर्थसंग्रहे । मीमांसान्यायप्रकाश पृ. ६.प्रभृतिग्रन्थेष्वपि चर्चितोऽयं विषयः। 15
पृ० १२४ पं० ८. दशदाडिमादिश्लोकावयववत् । “अनर्थकानि–'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः । अधरोरुकमेतत् कुमार्याः स्फैयकृतस्य पिता प्रैतिशीनः ॥' इति ।" इति पातञ्जलमहाभाष्ये १।१।११, १।२।४५ । - पृ० १२५ पं० ३-४. नापि घटादि... दृश्यतां पृ० १५२ ५०११-१२।।
पृ० १२५ पं०९-१०. वाक्यभेदा| "भिन्नाविमावौँ, उभयाभिधाने वाक्यं भिद्येत ।"-शाबरभा० १।२।। "मावृत्त्या उभयविधावावृत्तिलक्षणो वाक्यभेदः ।.."एकवाक्यस्य प्रत्येकमुभयपदाथै व्यापारभेदेनोभयविधायकत्वे वाक्यभेदो भवति ।......विधेयस्योभयत्वे तद्विधायकवाक्यस्यापि व्यापारभेदेनैव तद्विधायकत्वं सम्भवति, नान्यथा।" इति लौगाक्षि भास्करप्रणीतस्य अर्थसंग्रहस्य रामेश्वरभिक्षुकृतायां कौमुद्यां व्याख्यायाम् ।
पृ० १२५ पं० १५. नैतद। "मेध्योऽनड्वान् विभाषित इति । नैतद् विचार्यते अनड्वान् नानडानिति । किं तर्हि ? आलब्धव्यो नालब्धव्य इति ।" इति पातञ्जलमहाभाष्ये १।१।४३। आलब्धव्यो हन्तव्य इत्यर्थो भाति ।
. पृ० १२५ पं० १७. स्वभावसिद्धं...। "एवं तर्हि कर्मसाधनो भविष्यति 'भाव्यते यः स भावः' इति । क्रिया चैव 25 हि भाज्यते । स्वभावसिद्धं तु द्रव्यम् ।" इति पातञ्जलमहाभाष्ये १।३।१ । दृश्यतां पृ० ३८३ पं० १२ ।
पृ० १२५ पं० २५, पृ० १२६ पं० १. अथ पुन: । दृश्यतां पृ० १५२ पं० १९। . पृ० १२६ पं० २४,३२. पूर्वापरीभूतं...। अत्र विस्तरार्थिभिर्वाक्यपदीयतृतीयकाण्डस्याष्टमः क्रियासमुद्देशो विलोकनीयः । दृश्यतां पृ० ३८३ पं० १३, पृ० ४०६ पं० २२ ।
१"भाष्ये 'अन्येभ्यः स्वामिभ्यो निवर्तयति' इत्युक्त्या स्वस्वरूपस्वामितो न निवर्तयतीत्यर्थलाभात् संसर्गो बोधितः । एतेन"भेदप्रतिपादनेऽपि संसर्गाप्रतिपादनान्यूनतेत्यपास्तम् ।" इति उक्ष्योते। २ कृशः। ३ "अपूर्वमनपर सन्तमेकत्वात् पर्वापरीभूतं पूर्वापरमिव पौर्वापर्येणावस्थितमेकमनेकासु क्रियासु आश्रितम् तदभिनिर्वृत्तिवशेनामिनियमानम आचष्टेव्रजतीति । "उपक्रमप्रभृतीति। उपक्रम आरम्भः, तस्मादारभ्य अपवर्गपर्यन्तम् , यावदन्त्या क्रियेत्यर्थः ।' उपक्रमादारभ्य यच्च व्रजितं यच्च व्रज्यते यच्च व्रजिष्यमाणं तत् सर्वमेकीकृत्य वक्तारो भवन्ति-व्रजति देवदत्त इति ।.."तस्मात् प्रसिद्धशास्त्रसमयोऽपि लौकिकप्रसिद्ध्यैव पूर्वापरीभूतं भावमाख्यातेन आचष्टे 'व्रजति, पचति' इत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् । तस्मादुपपन्नमनेकक्रियाभिर्निवर्यमानो भाव आख्यातेनोच्यते । आह च-'क्रियासु बह्वीष्वभिसंश्रितो यः पूर्वापरीभूत इवैक एव । क्रियाभिनिवृत्तिवशेन सिद्ध आख्यातशब्देन तमर्थमाहुः । [बृह० १४।४] इति । 'मूर्त सत्त्वभूतं सत्त्वनामभिः' । कदाचित्तमेव भावं तथैव उपक्रमप्रभृत्यभिनिवर्त्यमानमपवर्गपर्यन्तं मूर्त सन्तं सत्त्वभूतं सत्त्वरूपिणं लिङ्गसंख्यायुक्तैः सत्त्वनामभिराचष्टे । कथम् ? व्रज्या पक्तिरिति । तत्रोक्तो विशेषः - कृदभिहितो भावो द्रव्यवद् भवति ।...... आह च -'क्रियाभिनिर्वृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात् । संख्याविभक्तिव्ययलिङ्गयुक्तो भावस्तदा द्रव्यमिवोपलक्ष्यः ॥ [ बृह० १।४] इति।” इति यास्कविरचितनिरुक्तस्य दुर्गवृत्तौ १११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org