________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य
[ पृ० १२२०४
पृ० १२२ पं० ४. वायव्यं ..... " तत्र च प्रथमानुवाकस्यादावैश्वर्यकामिनः पशुं विधत्ते - ' वायव्य श्वेतमालभेत भूतिकामः, वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति, भवत्येव | २|१|१|' इति । वायुर्देवता यस्य पशोः सोऽयं वायव्यः । स च श्वेतवर्णः । तमालभेत संस्पृशेत्, बर्हिः लक्षशाखाभ्यां यागार्थमुपकुर्यादित्यर्थः । यद्यप्यत्र 'यजेत' इति न श्रूयते तथापि द्रव्यदेवतात्मकस्य यागरूपस्य श्रूयमाणत्वादन्यथानुपपत्त्या 'वायव्येन यजेत' इत्येवं 5 यागः कल्पनीयः । न च सत्सु सहस्रसंख्याकेषु देवेषु कुतो वायुरेवापेक्ष्यत इति शङ्कनीयम्, वायोरतिशयेन क्षिप्रगामिदेवत्वात् । श्वेतपशुष्वतिप्रियत्वाद्वायोः स्वकीयो भागः, स्वार्थे 'धेय' प्रत्ययः । यद्वा वर्णव्यत्ययेन दातव्यत्वमुध्यते । तेन च भागधेयेनासाधारणेन वायुमेवोपधावति, समीपं प्राप्नोति, सेवत इत्यर्थः । इतरदेवानामस्मिन् पशावत्यन्तप्रियत्वाभावाद् 'वायुमेव' इत्यवधार्यते । यद्वा यजमानस्यानादरव्यावृत्यर्थम्, 'उपधावत्येव' इति योज्यम् । तेन तुष्टः स वायुरेवैनं यजमानमैश्वर्य गमयति, पूर्ववद् 'गमयत्येव' इति योज्यम् । तदनुग्रदादयं भवत्येव, ऐश्वर्यं प्राप्नोत्येव ।” इति तैत्तिरीयसंहितायाः 10 सायणभाष्ये २1१191
५४
पृ० १२२ पं० १२. धान्याद्यर्थ ममीक्रिया । अत्र " धान्याद्यर्थमयी क्रिया' इति शुद्धं भाति । पृ० १२३ पं० १९. भेदसंसर्गाभ्यां । “समर्थः पदविधिः | २|१|१|
परार्थाभिधानं वृत्तिरित्याहुः।''' अथवा समर्थाधिकारोऽयं वृत्तौ क्रियते । सामर्थ्यं नाम भेदः संसर्गे वा । अपर आह-भेदसंसगौं वा सामर्थ्यमिति । कः अनुपलम्भात् तत्स्थाने पूतीकसंज्ञकं लतान्तरं गृहीत्वा तत्रैव सोमे क्रियमाणान् संस्काराननुष्ठाय तद्रसेनैव यागः क्रियते । यागोऽयं दिनैकसाध्यः, तथापि खाङ्गैः सहितः पञ्चभिः दिनैरनुष्ठीयते, तत्र ऋत्विजः षोडश । अयं सोमयागोऽग्निष्टोम - संस्थाको नष्टोम इत्युच्यते । अग्निष्टोम इति साम्नः संज्ञा । सामवेदे 'यज्ञायज्ञा वोऽग्नये' इत्यृचि गेयत्वेन विहितं साम अग्निटोम इत्युच्यते । संस्थाशब्दः समाप्तिवाची । एतदेवात्र क्रतौ अन्तिमं साम, न ततः सामान्तरमस्ति । इति अनेनैव समाप्यमानत्वादयमेव क्रतुरग्निष्टोमसंस्थाकोऽग्निष्टोम इत्युच्यते । सोमयागस्य येन नाम्ना समाप्तिस्तेन नाम्ना व्यवहारः श्रुतौ बहुधा दृष्टः यथा [ पृ. ४२ ] उक्थ्यः षोडशीत्यादि । अतोऽग्निष्टोमसाम्ना समाप्यमानत्वादस्य अग्निष्टोम इति युक्ता संज्ञा । इयं च ज्योति
स्य प्रथमा संस्था । तस्य हि चतस्रः संस्थाः - अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्रश्चेति । अग्निष्टोमसाम्ना समाप्यमानस्य ऋतोरग्निष्टोमशब्दवाच्यत्वमुक्तम् । अग्निष्टोमसामानन्तरं यत्र उक्थ्याख्यसाम्ना स्तूयते न ततः परमस्ति किंचित् साम स उक्थ्यसंस्थाको ज्योतिष्टोमः । उक्थ्यस्तोत्रानन्तरं यत्र षोडश्याख्यं स्तोत्रं क्रियते स षोडशिसंस्थाको ज्योतिष्टोमः । षोडशिस्तोत्रानन्तरं यत्र अतिरात्रसंज्ञकानि सामानि गीयन्ते सोऽतिरात्रसंस्थाको ज्योतिष्टोमः । एवं संख्याचतुष्टयविशिष्टस्य क्रतोर्ज्योतिष्टोम इति संज्ञा । त्रिवृत् पञ्चदश सप्तदश एकविंश इति चत्वारः स्तोमा ज्योतिःपदेन अभिधीयन्ते । ज्योतींषि स्तोमा यस्य स ज्योतिष्टोमः । एतत्पदनिर्वाचके ब्राह्मणे हि एवमेव निरुक्तमस्ति । 'त्रिवृत् पञ्चदश सप्तदश एकविंश एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा:' [ तै० ब्राह्म० १।५।११] इति । एतासामेव चतसृणां संस्थानां क्वचिदावापोद्वापादिना अपरास्तिस्रः संस्थाः सम्पाद्यन्ते । अत्यग्निष्टोमः, वाजपेय अप्तोर्यामश्चेति । अग्निष्टोमस्तोत्रानन्तरमुक्थ्यमकृत्वा यत्र षोडशी क्रियते सोऽत्यग्निष्टोमसंज्ञकः ऋतुः । [ पृ. ४३ ]....इमा एव सप्त संस्थाः स्मृतौ नित्यतया विहिताः । [ पृ. ४४]कल्पोऽयं ब्राह्मणयजमानके सोमयागेऽग्निष्टोमसंस्था के उक्तः । कर्मणां त्रैवर्णिकाधिकारित्वात् राजन्य- वैश्यावप्यत्राधिक्रियेते इति तु निर्विवादमेव । एवं च यदि राजन्यो वैश्यो वा अग्निष्टोममाजिहीर्षति तदा न तत्र सोमो द्रव्यं भवितुमर्हति किन्तु न्यग्रोधवृक्षस्य अङ्कुराणि फलानि वा आहृत्य तानि च सम्यक् पेषयित्वा लौकिकेन दना साकं सम्मेल्य तदेव च द्रव्यं सोमस्थाने कृत्वा यजेरन् । सोमे क्रियमाणाः सर्वेऽपि संस्काराः क्रयादयोऽत्रापि भवन्त्येव । मन्त्राणामपि सोमपदघटितानामनूहेनैव प्रयोगः ।" [ पृ० ५४ ] - कात्यायनश्रौतसूत्रभूमिका [ अच्युतग्रन्थमालायां प्रकाशिता, काशी ] ।
१ तंत्र भेदः संसर्गाविनाभावित्वादनुमीयमानसंसर्गः सामर्थ्यम्, संसर्गे वा भेदाविनाभाव्यनुमेयभेदः, उभौ वा योगपद्येनाश्रीयमाणौ सामर्थ्यमित्यर्थः । तत्र भेदपक्षे राजा पुरुषं स्वाम्यन्तरेभ्यो निवर्त्य स्वार्थं जहाति । पुरुषस्तु अजहदपि खार्थ स्वान्तरेभ्यो राजानं निवर्तयति ।...एवं संसर्गेऽपि योज्यम् ।" इति कैयटविरचिते पातञ्जलमहाभाष्यप्रदीपे । अस्य प्रदीपस्य विस्तरेण व्याख्यानं तु उद्द्योते विलोकनीयम् ।
1 ‘“भेदसंसर्गवदर्थप्रतिपादकत्वमेवैकार्थी भावसामर्थ्यमित्यर्थः । तत्र युक्तिरुक्तैव । तत्र भेद इति । स्वत्व समानाधिकरणो राजभिन्नस्वामिकभेदो राजसंसर्गव्याप्यः । एवं वृत्त्युपस्थाप्यराज सम्बन्धवद्वयक्तिगतराजसम्बन्धो राजभिन्नस्वामिकभेदव्याप्य इति भावः " इति नागोजी भट्टविरचिते उद्योते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org