________________
पृ० १२२ पं० ३.]
टिप्पणानि ।
पृ० ११८ पं० २०, पृ० ११९ पं० २. देशकाला। दृश्यतां चरकसं० १।५-६, ११९-१०, ३।१ । पृ० १२० पं० १३. शक्येते । अत्र प्रतिषु वाक्येते इति पाठः तदनुसारेण 'वाच्येते' इत्यपि भवेत् । ( उच्येते ? ) । पृ० १२० पं० १७. प्रमाणानि । दृश्यतां टिपृ० २८ पं० १३ ।
पृ० १२१ पं० १०. विधिः, अनुवादः । “विधिर्विधायकः । स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः । विधिविहितस्यानुवचनमनुवादः । " - न्यायसू० २।१।६३ - ६५ । विस्तरार्थिभिर्न्यायभाष्यादिकमवलोकनीयम् ।
5
पृ० १२१ पं० २०. अग्निष्टोमादि । "अष्टका पार्वणः श्राद्धं श्रावणी आग्रहायणी चैत्री आश्वयुजीति संप्स पाकयज्ञसंस्थाः । अग्न्याधेयम् अग्निहोत्रम् दर्शपूर्णमासौ आग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणी इति सप्त हविर्यज्ञसंस्थाः । अग्निष्टोमः अत्यभिष्टोमः उक्थ्यः षोडशी वाजपेयः अतिरात्रः अप्तोर्याम इति सप्त सोमसंस्थाः ।" - गौतमधर्मसू० ८। १६-१८ | यज्ञशब्दो यागमात्रे वषट्कारप्रदाने रूढः । " वषट्कारप्रदाना यजतयः । स्वाहाकारप्रदाना जुहोतयः ।"कात्यायनश्रौतसू० १।२।६-७ । “बेडुत्तरे - अत्यग्निष्टोमः उक्थ्यः षोडशी वाजपेयः अतिरात्रः अप्तोर्यामः” - कात्यायन- 10 श्रौतसू० १०।९।२६ ।
पृ० १२१ पं० २०. वसन्ते ब्राह्मणो
पृ० १२२ पं० ३. न तु घटवद । दृश्यतां पृ० १५२ पं० १० ।
वाजपेयेन वैश्यः । दृश्यतां पृ० २१० पं० २०–२१ ।
Jain Education International
५३
१ "सप्तग्रहणमेकैकस्य गणनार्थम् । 'पाक' ग्रहणं स्थालीपाकसम्बन्धार्थम् । यज्ञग्रहणमग्निसम्बन्धार्थम् । संस्थाः सम्यक् स्थिता गृह्य एवोक्ता इत्यर्थः ।" - मस्करिभा० पृ० १२९. Government Library Series, Mysore । २ षडुत्तरे [ अग्निष्टोमसंस्थायाः ] षड् विकारा इत्यर्थः । - कर्कभा० । ३ कात्यायनश्रौतसूत्रप्रस्तावनायां यज्ञादिखरूपं सम्यक् विचारितमस्ति, तथाहि – “सूत्राणां प्रस्थानत्रयम् - धार्मिकं विषयमवलम्ब्य सूत्राणि श्रौतसूत्र गृह्यसूत्र-धर्मसूत्रात्मना प्रथितानि । तत्र वेदोकानां त्रेतासाध्यानां कर्मणामनुष्ठानक्रमबोधकानि श्रौतसूत्राणि । जातकर्मादिसंस्कारकर्मणामेका मिसाध्यानां कर्मणां प्रतिपादको ग्रन्थो गृह्यसूत्रम् । साधारणवर्णाश्रमधर्मप्रतिपादको ग्रन्थो धर्मसूत्रमिति । [ पृ० २८ ]......"यज्ञादिस्वरूपम् - तत्र श्रुतौ तावत् वैदिकानि कर्माणि पञ्चधा विभक्तानि । स एष यज्ञः पञ्चविधः - अग्निहोत्रं, दर्शपूर्णमासी, चातुर्मास्यानि, पशुः, 'सोमः । स्मृतौ तु औपासनहोमः, वैश्वदेवम्, पार्वणम्, अष्टका, मासि श्राद्धम्, श्रवणा, शूलगवः, इति सप्त पाकयज्ञसंस्थाः । अग्निहोत्रं, दर्शपूर्णमासौ, आग्रयणम्, चातुर्मास्यानि, निरूढपशुबन्धः, सौत्रामणी, पिण्डपितृयज्ञादयो दर्वीहोमा इति सप्त हविर्यज्ञसंस्थाः । अग्निष्टोमः, अत्यग्निष्टोमः, उक्थ्यः, षोडशी, वाजपेयः, अतिरात्रः, अप्तोर्यामः, इति सप्त सो संस्था इति श्रौतानि स्मार्तानि मिलित्वा एकविंशतिरुक्तानि । तत्र स्मार्ताः सप्त पाकयज्ञसंस्थाः स्मृतौ गृह्ये वा निरूपिता इति न सूत्रकारेण तासामत्र निरूपणं कृतम् । तथापि तेषामपि स्वरूपमतिसंक्षेपेण निरूप्यते किञ्चिदिव । तत्र या इमाः स्मार्ताः संस्थाः ता गृहीतस्मार्ताग्निना पुरुषेण स्वाम्नावनुष्ठेयाः । [ पृ. ३०-३१] ... • ततः श्रौताः सप्त हविर्यज्ञसंस्थाः ॥ [पृ. ३२] वाजपेययज्ञः - अथ वाजपेयस्वरूपमुच्यते - स च ब्राह्मण-क्षत्रियमात्रकर्तृकः, न वैश्याधिकारिकः । एतदतिरिक्ते सप्तसंस्थान्तर्गते वाजपेये तु वैश्योऽप्यधिकारी । कालश्चास्य शरदृतुः । [ पृ० ३८ ]अग्निहोत्रे द्रव्यं देवता च - एवमाधानसिद्धेषु वैतानिकाभिषु अग्निहोत्रादीनि कर्माण्यनुष्ठेयानि । तत्राग्निहोत्रं नाम अभ्युद्देशेन सायं प्रातः क्रियमाणो होमविशेषः । अत्र द्रव्याणि पयआदीनि बहून्याम्नातानि । तत्र पयो मुख्यं द्रव्यं कत्वङ्गतया आन्नातम्, इतराणि च यवागूतण्डुलदधिघृतरूपाणि द्रव्याणि काम्यानि श्रुतावान्नातानि । ..... । अत्रापि अग्निर्मुख्या देवता, प्रजापतिरङ्गदेवता विष्ट - कृत्स्थानीया सायंकाले । प्रातश्च सूर्यो मुख्या देवता, प्रजापतिरङ्गदेवता । अत एव च अग्निदेवताकत्वं प्रवृत्तिनिमित्तमादाय अग्निहोत्रशब्दः कर्मनामधेयम् । अस्यैव च श्रौतस्य कर्मणोऽग्निहोत्रमिति संज्ञा, न तु स्मार्तस्योपहासनहोमस्य । अस्य च अग्निहोत्रस्य महत् प्राशस्त्यम्; अकरणे च महान् प्रत्यवायो जन्मनो वैयर्थ्यं च बहु प्रतिपादितं श्रुतौ स्मृतौ च । [ पृ० ३३ ]......अथ सोमयागनिरूपणम् – [ अग्निष्टोमः ] अत्रानुष्ठाने कल्पद्वयम् । यदा सोमेन यियक्षति तदा कस्मिंश्चिद् वसन्तेऽनीनाधाय समनन्तरमेव सोमेन इष्ट्वा दर्श- पूर्णमासादिकमनुतिष्ठेदित्येकः । आधानादिकं दर्शपूर्णमासादिकम् इष्टे (ट्वैवानन्तरं सोमेन यजेतेत्यपरः । अत्र च द्रव्यं सोमरसः । सोमो नाम लताविशेषः । तं कस्माच्चित् पुरुषात् क्रीत्वा ततो र निष्काश्य तेन च होमः क्रियते, अत एवास्य सोमयाग इति व्यवहारः । इयं तु लता नेदानीं भारते देशे समुपलभ्यते, पूर्वमपि न सर्वत्रोपलब्धाऽभूत् किं तर्हि ? पवित्रे देशविशेषे एव । तानि च स्थानानि पूर्वाचार्यैः संगृहीतानि । इदानीमस्या
१ दृश्यताम् ऐतरेय ब्रा० ।
For Private & Personal Use Only
www.jainelibrary.org