Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [पृ० १३० ५० १०पृ० १३० पं० १०. शब्दाव्यवस्थानात् । अत्र य०प्रतिपाठानुसारेण 'शब्दाव्यवस्थानम् , तदव्यवस्थानात्, इत्यपि पाठः संभवेत् ।
पृ० १३० पं० १५-१६. प्रतिज्ञात्यागप्रतिशान्तरगमन"। "प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः । प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ।"-न्यायसू० ५।२।२-३ । विस्तरेण न्यायभाष्यादितो ज्ञेयम् । 5 पृ० १३१ पं० ७,२६. अनुवादादर । कारिकेयं विशेषावश्यकभाष्यकोट्टार्यवृत्ति-कोट्याचार्यवृत्ति पृ० ९७३ ]-बृहकल्पसूत्रवृत्ति[पृ. ४०१-षड्दर्शनसमुच्चयबृहदत्ति| पृ० १२३ प्रभृतिग्रन्थेषु उद्धृतास्ति ।
पृ० १३१६० १७,२४. अर्थपनरुक्तं । दृश्यतां पृ० १५६ पं० २२ । टिपृ० ६२ पं० २४ । पृ० १३२ पं० १. न चात्र कश्चि। दृश्यतां पृ० १४२ पं० १७ ।।
पृ० १३२ पं० ६. धनं घनं । (दानं दानं ? द्रुतं द्रुतं ? द्यूतं यूतं ? ? ?)। 10 पृ० १३२ पं० ६-७. हेतौ कृतकत्वा..। “अनित्यः शब्दः । कृतकत्वात् । कृतकमनित्यं दृष्टं यथा घटः । तथा च कृतकः शब्दः । तस्मात् कृतकत्वादनित्यः।" इति चन्द्रकीर्तिविरचितायां मध्यमकवृत्तौ पृ. २० ।
पृ० १३३ पं० ४. शब्दः, कर्तृ । 'शब्दः प्रयुज्यते, स च कर्तृ...' इत्याशयकः पाठोऽत्रापेक्ष्यते । पृ० १३४ पं० ८. प्रत्यपेक्षित। (प्रत्यवेक्षित...?)। दृश्यतां पृ० १३० पं० ११ ।
पृ० १३४ पं० १३. दशदाडिमादिश्लोक | दृश्यतां टिपृ० ५५ पं० १६ । 15 पृ० १३४ पं० २०. काकवाशितं । "तिरश्चां वाशितं रुतम् ।” इति अमरकोषे १।७॥२५॥
पृ० १३५ पं० १,८,१०. वातिकमन्त्रादि । अत्र सर्वत्र 'वातिक'स्थाने 'धातिक' इति पाठः शुद्धो भाति ।
पृ० १३५ पं० ७. आदिमदनादिप्रसिद्धीनां । आदिमत्यसिद्धीनामनादिप्रसिद्धीनां चेत्यर्थः । अत्र अस्वारस्ये तु 'आदिवद् अनादिप्रसिद्धीनाम्' इति कल्पनीयम् ।
पृ० १३५ पं० ९. 'वातिकानां ज्ञानानि । अत्र प्रतिस्थः “वादिकानां ज्ञानानि' इति पाठ एवादरणीयः । 20 पृ० १३५ पं० १३. नक्षत्रं दृष्ट्वा वाचो विसृजन्ति । "न पुरा नक्षत्रेभ्यो वाचं विसृजेत् , यत् पुरा नक्षत्रेभ्यो वाचं विसृजेत् यज्ञं विच्छिन्द्यात् । उदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं विसृजति ।" इति तैत्तिरीयसंहितायाम् ६।१।४।२७-२८॥ "नक्षत्रं दृष्ट्वा वाच विसृजते।" इति कठसंहितायाम् २३।५। "संतोऽविवक्षा पारार्थ्यम्.......॥१।१३७॥..... 'नक्षत्रं दृष्ट्वा वाचं विसृजेत्' इति कालोपलक्षणार्थ नक्षत्रदर्शन तत् ।" इति भर्तृहरिविरचितायां वाक्यपदीयववृत्तौ। __ पृ० १३६ पं० १,७. युक्ततरी तु । (युक्ततरा तु?)।
१ "तिरोऽश्चन्ति ते तिर्यश्चः, तेषां यद् रुतं तद् वाशितम् । 'वाश शब्दे' [पा० धा० दिवादि० ] । 'वासिता करिणीनार्योर्वासितं सुरमीकृते । ज्ञानमात्रे खगारावे वासितं वस्त्रवेष्टिते ॥' इति विश्वकोषादिदर्शनेन तु दन्त्यवानपि । एकं पक्षिशब्दस्य ।” इति अमरकोषसुधाव्याख्यायाम् । २“तपोयुक्तं च श्रेयांसं भद्रबाहुं निरामयम् ॥४॥..... प्रणम्य शिरसाचार्यमूचुः शिष्या वचस्पतिम् ।...॥६॥"विस्तीर्ण द्वादशाङ्गं तु भिक्षवश्वाल्पमेधसः । भवितारो हि बहवस्तेषां चैवेदमुच्यताम ॥१३॥ सुखग्राहं लघुग्रन्थं स्पष्टं शिष्यहितावहम् । सर्वज्ञभाषितं तथ्यं निमित्तं तु ब्रवीहि नः ॥१४॥ उल्कां समासतो व्यासात् परिवेषांस्तथैव च । विद्युतोऽभ्राणि सन्ध्याश्च मेघान् वातान् प्रवर्षणम् ॥१५॥ गन्धर्वनगरं गर्भान् यात्रोत्पातं तथैव च । ग्रहचारं पृथक्त्वेन ग्रहयुद्धं च कृत्स्नतः ॥१६॥ वातिकं चाथ स्वप्नांश्च मुहूर्ताश्च तिथींस्तथा। करणानि निमित्तं च शकुनं पाकमेव च ॥१७॥.. बलाबलं च सर्वेषां विरोधं च पराजयम् । तत् सर्वमानुपूर्वेण प्रब्रवीहि महामते ॥१९॥ सर्वानेतान् यथोद्दिष्टान् भगवन् वक्तुमर्हसि । प्रश्नं शुश्रूषवः सर्वे वयमन्ये च साधवः ॥२०॥ इति नैर्ग्रन्थे भद्रबाहु के निमित्ते ग्रन्थाङ्गसञ्चयो नाम प्रथमोऽध्यायः।" इति भद्रबाहुसंहितायाम्। ३ अत्र धातिको नाम कश्चिद् धातुविषयमन्त्रादिज्ञो धातुवादी सम्भाव्यते ।“सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाजनकासीससीसलोहाः सहिङ्गुलाः । गन्धकोऽभ्रकमित्याद्या धातवो गिरिसम्भवाः ॥” इति अमरकोषसुधाव्याख्यायाम् २।४।८। ४"सतोऽविवक्षा इति । शब्देनोपात्तस्याप्यर्थस्याविवक्षा पारार्थ्यमिति शब्दोपात्तस्याप्यर्थस्योपलक्षणता । पारार्थ्यस्योदाहरणं नक्षत्रमिति । शब्दोपात्तो हि वाग्विसर्गों नक्षत्रदर्शनपूर्वकः, तत्र नक्षत्रदर्शनेन काल उपलक्ष्यते, यदा नक्षत्रमुदेति तदा वाचंयमेन वाग्विसर्गः कर्तव्य इति।"-वृषभदेवटी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662