Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 547
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [ पृ० १२२०४ पृ० १२२ पं० ४. वायव्यं ..... " तत्र च प्रथमानुवाकस्यादावैश्वर्यकामिनः पशुं विधत्ते - ' वायव्य‍ श्वेतमालभेत भूतिकामः, वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति, भवत्येव | २|१|१|' इति । वायुर्देवता यस्य पशोः सोऽयं वायव्यः । स च श्वेतवर्णः । तमालभेत संस्पृशेत्, बर्हिः लक्षशाखाभ्यां यागार्थमुपकुर्यादित्यर्थः । यद्यप्यत्र 'यजेत' इति न श्रूयते तथापि द्रव्यदेवतात्मकस्य यागरूपस्य श्रूयमाणत्वादन्यथानुपपत्त्या 'वायव्येन यजेत' इत्येवं 5 यागः कल्पनीयः । न च सत्सु सहस्रसंख्याकेषु देवेषु कुतो वायुरेवापेक्ष्यत इति शङ्कनीयम्, वायोरतिशयेन क्षिप्रगामिदेवत्वात् । श्वेतपशुष्वतिप्रियत्वाद्वायोः स्वकीयो भागः, स्वार्थे 'धेय' प्रत्ययः । यद्वा वर्णव्यत्ययेन दातव्यत्वमुध्यते । तेन च भागधेयेनासाधारणेन वायुमेवोपधावति, समीपं प्राप्नोति, सेवत इत्यर्थः । इतरदेवानामस्मिन् पशावत्यन्तप्रियत्वाभावाद् 'वायुमेव' इत्यवधार्यते । यद्वा यजमानस्यानादरव्यावृत्यर्थम्, 'उपधावत्येव' इति योज्यम् । तेन तुष्टः स वायुरेवैनं यजमानमैश्वर्य गमयति, पूर्ववद् 'गमयत्येव' इति योज्यम् । तदनुग्रदादयं भवत्येव, ऐश्वर्यं प्राप्नोत्येव ।” इति तैत्तिरीयसंहितायाः 10 सायणभाष्ये २1१191 ५४ पृ० १२२ पं० १२. धान्याद्यर्थ ममीक्रिया । अत्र " धान्याद्यर्थमयी क्रिया' इति शुद्धं भाति । पृ० १२३ पं० १९. भेदसंसर्गाभ्यां । “समर्थः पदविधिः | २|१|१| परार्थाभिधानं वृत्तिरित्याहुः।''' अथवा समर्थाधिकारोऽयं वृत्तौ क्रियते । सामर्थ्यं नाम भेदः संसर्गे वा । अपर आह-भेदसंसगौं वा सामर्थ्यमिति । कः अनुपलम्भात् तत्स्थाने पूतीकसंज्ञकं लतान्तरं गृहीत्वा तत्रैव सोमे क्रियमाणान् संस्काराननुष्ठाय तद्रसेनैव यागः क्रियते । यागोऽयं दिनैकसाध्यः, तथापि खाङ्गैः सहितः पञ्चभिः दिनैरनुष्ठीयते, तत्र ऋत्विजः षोडश । अयं सोमयागोऽग्निष्टोम - संस्थाको नष्टोम इत्युच्यते । अग्निष्टोम इति साम्नः संज्ञा । सामवेदे 'यज्ञायज्ञा वोऽग्नये' इत्यृचि गेयत्वेन विहितं साम अग्निटोम इत्युच्यते । संस्थाशब्दः समाप्तिवाची । एतदेवात्र क्रतौ अन्तिमं साम, न ततः सामान्तरमस्ति । इति अनेनैव समाप्यमानत्वादयमेव क्रतुरग्निष्टोमसंस्थाकोऽग्निष्टोम इत्युच्यते । सोमयागस्य येन नाम्ना समाप्तिस्तेन नाम्ना व्यवहारः श्रुतौ बहुधा दृष्टः यथा [ पृ. ४२ ] उक्थ्यः षोडशीत्यादि । अतोऽग्निष्टोमसाम्ना समाप्यमानत्वादस्य अग्निष्टोम इति युक्ता संज्ञा । इयं च ज्योति स्य प्रथमा संस्था । तस्य हि चतस्रः संस्थाः - अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्रश्चेति । अग्निष्टोमसाम्ना समाप्यमानस्य ऋतोरग्निष्टोमशब्दवाच्यत्वमुक्तम् । अग्निष्टोमसामानन्तरं यत्र उक्थ्याख्यसाम्ना स्तूयते न ततः परमस्ति किंचित् साम स उक्थ्यसंस्थाको ज्योतिष्टोमः । उक्थ्यस्तोत्रानन्तरं यत्र षोडश्याख्यं स्तोत्रं क्रियते स षोडशिसंस्थाको ज्योतिष्टोमः । षोडशिस्तोत्रानन्तरं यत्र अतिरात्रसंज्ञकानि सामानि गीयन्ते सोऽतिरात्रसंस्थाको ज्योतिष्टोमः । एवं संख्याचतुष्टयविशिष्टस्य क्रतोर्ज्योतिष्टोम इति संज्ञा । त्रिवृत् पञ्चदश सप्तदश एकविंश इति चत्वारः स्तोमा ज्योतिःपदेन अभिधीयन्ते । ज्योतींषि स्तोमा यस्य स ज्योतिष्टोमः । एतत्पदनिर्वाचके ब्राह्मणे हि एवमेव निरुक्तमस्ति । 'त्रिवृत् पञ्चदश सप्तदश एकविंश एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा:' [ तै० ब्राह्म० १।५।११] इति । एतासामेव चतसृणां संस्थानां क्वचिदावापोद्वापादिना अपरास्तिस्रः संस्थाः सम्पाद्यन्ते । अत्यग्निष्टोमः, वाजपेय अप्तोर्यामश्चेति । अग्निष्टोमस्तोत्रानन्तरमुक्थ्यमकृत्वा यत्र षोडशी क्रियते सोऽत्यग्निष्टोमसंज्ञकः ऋतुः । [ पृ. ४३ ]....इमा एव सप्त संस्थाः स्मृतौ नित्यतया विहिताः । [ पृ. ४४]कल्पोऽयं ब्राह्मणयजमानके सोमयागेऽग्निष्टोमसंस्था के उक्तः । कर्मणां त्रैवर्णिकाधिकारित्वात् राजन्य- वैश्यावप्यत्राधिक्रियेते इति तु निर्विवादमेव । एवं च यदि राजन्यो वैश्यो वा अग्निष्टोममाजिहीर्षति तदा न तत्र सोमो द्रव्यं भवितुमर्हति किन्तु न्यग्रोधवृक्षस्य अङ्कुराणि फलानि वा आहृत्य तानि च सम्यक् पेषयित्वा लौकिकेन दना साकं सम्मेल्य तदेव च द्रव्यं सोमस्थाने कृत्वा यजेरन् । सोमे क्रियमाणाः सर्वेऽपि संस्काराः क्रयादयोऽत्रापि भवन्त्येव । मन्त्राणामपि सोमपदघटितानामनूहेनैव प्रयोगः ।" [ पृ० ५४ ] - कात्यायनश्रौतसूत्रभूमिका [ अच्युतग्रन्थमालायां प्रकाशिता, काशी ] । १ तंत्र भेदः संसर्गाविनाभावित्वादनुमीयमानसंसर्गः सामर्थ्यम्, संसर्गे वा भेदाविनाभाव्यनुमेयभेदः, उभौ वा योगपद्येनाश्रीयमाणौ सामर्थ्यमित्यर्थः । तत्र भेदपक्षे राजा पुरुषं स्वाम्यन्तरेभ्यो निवर्त्य स्वार्थं जहाति । पुरुषस्तु अजहदपि खार्थ स्वान्तरेभ्यो राजानं निवर्तयति ।...एवं संसर्गेऽपि योज्यम् ।" इति कैयटविरचिते पातञ्जलमहाभाष्यप्रदीपे । अस्य प्रदीपस्य विस्तरेण व्याख्यानं तु उद्द्योते विलोकनीयम् । 1 ‘“भेदसंसर्गवदर्थप्रतिपादकत्वमेवैकार्थी भावसामर्थ्यमित्यर्थः । तत्र युक्तिरुक्तैव । तत्र भेद इति । स्वत्व समानाधिकरणो राजभिन्नस्वामिकभेदो राजसंसर्गव्याप्यः । एवं वृत्त्युपस्थाप्यराज सम्बन्धवद्वयक्तिगतराजसम्बन्धो राजभिन्नस्वामिकभेदव्याप्य इति भावः " इति नागोजी भट्टविरचिते उद्योते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662