Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 544
________________ पृ० ११५ ५० ५.] टिप्पणानि। पृ० १०९ पं० ५. न परमार्थसत्समुदायः । परमार्थसन् समुदायो नैन्द्रिय इति भावः । पृ० १०९ पं० २६. व्यपदेश्या । अयं पाठः संगत एव । तथा च पृ० १०९ इत्यत्र ११ टिप्पणं नादेयम् । पृ० ११० पं० १. आत्मेन्द्रियः। दृश्यतां टिपृ० ३२ पं० ३५। पृ० १११ पं० ६. गुणग्रहणेन । (रूपग्रहणेन ? ?)। पृ० १११ पं० १२. प्रागुक्ता...। दृश्यतां पृ० ६५ पं०१। पृ० ११२ पं० ४. तत्रोक्तः, आज्ञानिकवादः । इह 'तत्रोक्तः, तेष्वाज्ञानिकवादः' इति पाठः समञ्जसः। को ह वैत वेद....। दृश्यतां पृ० ११८ पं० १२।। पृ० ११२ पं० १०-११. भूयस्त्वादू"विशेषात् । दृश्यतां पृ० ४८० पं० २५-२८ । पृ० ११३ पं० ६, २६. निर्णयावगमा। अत्र 'निर्णयानामवगमा...' इत्यपि भवेत् पाठः । दृश्यतां पृ० ११७ पं०१२। 10 पृ० ११३ पं० २०. अब्राह्मणवत्। दृश्यतां पृ० २७९ पं० ६ । न चाज्ञान । दृश्यतां पृ० ११६ पं० ३। पृ० ११३ पं० २३, २४. विशिष्यः । अत्र 'विशेष्य...'इति शोभनम् । पृ० ११३ पं० २८. अबुध वगमने । अत्र 'बुध अवगमने' इति पठितव्यम् । पृ० ११४५०२. अस्त्यर्थः......। "सर्वशब्दानामपरामृष्टाकारविशेषमर्थमात्रं वाच्यमिति केचिदाहः । एतत् सर्वशब्दानां प्रत्याय्यलक्षणम्, प्रत्याय्यस्य वाच्यस्य लक्षणं बोद्धव्यम् । केन तुल्यमेतत् स्यादित्याह-अपूर्वदेवता इत्यादि । भपूर्वक देवतादिपदेषु हि नाकारप्रथनम् । यत्तु गवादिपदेषु आकारप्रथनं तद् नान्तरीयकतया बोद्धव्यम् । अन्यथा अपूर्वशब्दाद देवताशब्दात् स्वर्गशब्दादश्वगवादिशब्दवदाकारादिप्रथनं स्यात् । यतश्च तेभ्यो नास्त्याकारादिप्रथनमतोऽर्थमात्रमेव तैः प्रत्याय्यत इति युक्तम् ।"-वाक्यपदीयपुण्यराजवृ० २।१२० श्लोकोऽयं तत्त्वसंग्रहेऽप्युद्धृतो व्याख्यातश्च तस्य पञ्जिकायां पृ०२८३ । तन्त्रवार्तिकेऽप्युद्धृतः १।३।९।। पृ० ११४ पं० ५. द्रव्यशब्दो दुर्गति । अत्र 'द्रव्यशब्दो द्रोरवयवे, दुर्गति...' इति पाठः शोभनः। 20 पृ० ११४ पं० १३. प्रतिपत्तव्यम् । एतस्मिन्नेव । अत्र 'प्रतिपत्तव्यम् । अस्मिन्नेव' इत्यपि भवेत् पाठः । पृ० ११४ पं० १६. अर्थैकत्वा । “अथ प्रश्लिष्टपठितेषु यजुःषु कथमवगम्येत 'इयदेकं यजुः' इति ? यावता पदसमूहेन इज्यते तावान् पदसमूह एकं यजुः । कियता चेज्यते ? यावता क्रियाया उपकारः प्रकाश्यते तावद् वक्तव्यत्वाद वाक्यमित्युच्यते। तेनाभिधीयते-अर्थैकत्वादेकं वाक्यमिति । एतस्माच्चेत् कारणादेकवाक्यता भवति तस्मादेकार्थः पदसमूहो वाक्यम् , यदि च विभज्यमानं साकाङ्क्ष पदं भवति । किमुदाहरणम् ? 'देवस्य त्वा सवितुः प्रसवे' [तै० सं० ११४] 25 इति ।"-मीमांसासूत्रशाबरभा० २।१।४६। अत्र आक्षेपपरिहारादिकं शाबरभाष्यात् तन्त्रवार्तिकाच्च विज्ञातव्यम् । पृ० ११४ पं० १८. आख्यात । दृश्यतां पृ० ४४८ टि०२। पृ० ११४ पं० २३. लौकिकसम...। अस्यार्थः सिद्धसेनगण्यादिविरचितव्याख्याभ्योऽवगन्तव्यः । पृ० ११५५० ५. [ भगवतीसू० १२।३।४६७ ] । अन १२।३।४६७' इत्यस्य स्थाने '१२।१०।४६८' इति पठनीयम् । सम्प्रति तु "आया भंते ! नाणे अन्नाणे? गोयमा! आया सिय नाणे सिय अन्नाणे, नाणे पुण नियमं आया।" इति 30 पाठो भगवतीसूत्रे दृश्यते। १ अस्य व्याख्या-“अथात्मन एव स्वरूपनिरूपणायाह-आया भंते नाणे इत्यादि, आत्मा ज्ञानम् , योऽयमात्मा असौ ज्ञानम् , न तयोर्भेदः, अथात्मनोऽन्यद् ज्ञानमिति प्रश्नः । उत्तरं तु-आत्मा स्याद् ज्ञानम् , सम्यक्त्वे सति मत्यादिज्ञानस्वभावस्वात् तस्य । स्यादज्ञानम् , मिथ्यात्वे सति तस्य मत्यज्ञानादिखभावत्वात् । ज्ञानं पुनर्नियमादात्मा, आत्मधर्मत्वाद् ज्ञानस्य । न च सर्वथा धर्मो धर्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषात् । दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्तरतः किमपि शुक्लं पश्यति तदा 'किमियं पताका किमियं बलाका?' इत्येवं प्रतिनियतगुणि विषयोऽसौ । नापि धर्मिणो धर्मः सर्वथैवाभिन्नः, सर्वथैवामेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वात् । अतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञानं पुनर्नियमादात्मेत्युच्यत इति । इह चात्मा ज्ञानं व्यभिचरति, ज्ञानं त्वात्मानं न व्यभिचरति खदिरवनस्पतिवदिति सूत्रगार्थ इति ।"-इति अभयदेवसरिरचितायां भगवतीसूत्रवृत्तौ १२।१०।४६८, पृ० ५९२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662