________________
पृ० ११५ ५० ५.]
टिप्पणानि। पृ० १०९ पं० ५. न परमार्थसत्समुदायः । परमार्थसन् समुदायो नैन्द्रिय इति भावः । पृ० १०९ पं० २६. व्यपदेश्या । अयं पाठः संगत एव । तथा च पृ० १०९ इत्यत्र ११ टिप्पणं नादेयम् । पृ० ११० पं० १. आत्मेन्द्रियः। दृश्यतां टिपृ० ३२ पं० ३५। पृ० १११ पं० ६. गुणग्रहणेन । (रूपग्रहणेन ? ?)। पृ० १११ पं० १२. प्रागुक्ता...। दृश्यतां पृ० ६५ पं०१।
पृ० ११२ पं० ४. तत्रोक्तः, आज्ञानिकवादः । इह 'तत्रोक्तः, तेष्वाज्ञानिकवादः' इति पाठः समञ्जसः। को ह वैत वेद....। दृश्यतां पृ० ११८ पं० १२।।
पृ० ११२ पं० १०-११. भूयस्त्वादू"विशेषात् । दृश्यतां पृ० ४८० पं० २५-२८ ।
पृ० ११३ पं० ६, २६. निर्णयावगमा। अत्र 'निर्णयानामवगमा...' इत्यपि भवेत् पाठः । दृश्यतां पृ० ११७ पं०१२।
10 पृ० ११३ पं० २०. अब्राह्मणवत्। दृश्यतां पृ० २७९ पं० ६ । न चाज्ञान । दृश्यतां पृ० ११६ पं० ३। पृ० ११३ पं० २३, २४. विशिष्यः । अत्र 'विशेष्य...'इति शोभनम् । पृ० ११३ पं० २८. अबुध वगमने । अत्र 'बुध अवगमने' इति पठितव्यम् ।
पृ० ११४५०२. अस्त्यर्थः......। "सर्वशब्दानामपरामृष्टाकारविशेषमर्थमात्रं वाच्यमिति केचिदाहः । एतत् सर्वशब्दानां प्रत्याय्यलक्षणम्, प्रत्याय्यस्य वाच्यस्य लक्षणं बोद्धव्यम् । केन तुल्यमेतत् स्यादित्याह-अपूर्वदेवता इत्यादि । भपूर्वक देवतादिपदेषु हि नाकारप्रथनम् । यत्तु गवादिपदेषु आकारप्रथनं तद् नान्तरीयकतया बोद्धव्यम् । अन्यथा अपूर्वशब्दाद देवताशब्दात् स्वर्गशब्दादश्वगवादिशब्दवदाकारादिप्रथनं स्यात् । यतश्च तेभ्यो नास्त्याकारादिप्रथनमतोऽर्थमात्रमेव तैः प्रत्याय्यत इति युक्तम् ।"-वाक्यपदीयपुण्यराजवृ० २।१२० श्लोकोऽयं तत्त्वसंग्रहेऽप्युद्धृतो व्याख्यातश्च तस्य पञ्जिकायां पृ०२८३ । तन्त्रवार्तिकेऽप्युद्धृतः १।३।९।।
पृ० ११४ पं० ५. द्रव्यशब्दो दुर्गति । अत्र 'द्रव्यशब्दो द्रोरवयवे, दुर्गति...' इति पाठः शोभनः। 20 पृ० ११४ पं० १३. प्रतिपत्तव्यम् । एतस्मिन्नेव । अत्र 'प्रतिपत्तव्यम् । अस्मिन्नेव' इत्यपि भवेत् पाठः ।
पृ० ११४ पं० १६. अर्थैकत्वा । “अथ प्रश्लिष्टपठितेषु यजुःषु कथमवगम्येत 'इयदेकं यजुः' इति ? यावता पदसमूहेन इज्यते तावान् पदसमूह एकं यजुः । कियता चेज्यते ? यावता क्रियाया उपकारः प्रकाश्यते तावद् वक्तव्यत्वाद वाक्यमित्युच्यते। तेनाभिधीयते-अर्थैकत्वादेकं वाक्यमिति । एतस्माच्चेत् कारणादेकवाक्यता भवति तस्मादेकार्थः पदसमूहो वाक्यम् , यदि च विभज्यमानं साकाङ्क्ष पदं भवति । किमुदाहरणम् ? 'देवस्य त्वा सवितुः प्रसवे' [तै० सं० ११४] 25 इति ।"-मीमांसासूत्रशाबरभा० २।१।४६। अत्र आक्षेपपरिहारादिकं शाबरभाष्यात् तन्त्रवार्तिकाच्च विज्ञातव्यम् ।
पृ० ११४ पं० १८. आख्यात । दृश्यतां पृ० ४४८ टि०२। पृ० ११४ पं० २३. लौकिकसम...। अस्यार्थः सिद्धसेनगण्यादिविरचितव्याख्याभ्योऽवगन्तव्यः ।
पृ० ११५५० ५. [ भगवतीसू० १२।३।४६७ ] । अन १२।३।४६७' इत्यस्य स्थाने '१२।१०।४६८' इति पठनीयम् । सम्प्रति तु "आया भंते ! नाणे अन्नाणे? गोयमा! आया सिय नाणे सिय अन्नाणे, नाणे पुण नियमं आया।" इति 30 पाठो भगवतीसूत्रे दृश्यते।
१ अस्य व्याख्या-“अथात्मन एव स्वरूपनिरूपणायाह-आया भंते नाणे इत्यादि, आत्मा ज्ञानम् , योऽयमात्मा असौ ज्ञानम् , न तयोर्भेदः, अथात्मनोऽन्यद् ज्ञानमिति प्रश्नः । उत्तरं तु-आत्मा स्याद् ज्ञानम् , सम्यक्त्वे सति मत्यादिज्ञानस्वभावस्वात् तस्य । स्यादज्ञानम् , मिथ्यात्वे सति तस्य मत्यज्ञानादिखभावत्वात् । ज्ञानं पुनर्नियमादात्मा, आत्मधर्मत्वाद् ज्ञानस्य । न च सर्वथा धर्मो धर्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषात् । दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्ध्रोदरान्तरतः किमपि शुक्लं पश्यति तदा 'किमियं पताका किमियं बलाका?' इत्येवं प्रतिनियतगुणि विषयोऽसौ । नापि धर्मिणो धर्मः सर्वथैवाभिन्नः, सर्वथैवामेदे हि संशयानुत्पत्तिरेव, गुणग्रहणत एव गुणिनोऽपि गृहीतत्वात् । अतः कथञ्चिदभेदपक्षमाश्रित्य ज्ञानं पुनर्नियमादात्मेत्युच्यत इति । इह चात्मा ज्ञानं व्यभिचरति, ज्ञानं त्वात्मानं न व्यभिचरति खदिरवनस्पतिवदिति सूत्रगार्थ इति ।"-इति अभयदेवसरिरचितायां भगवतीसूत्रवृत्तौ १२।१०।४६८, पृ० ५९२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org