SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [पृ० १०४ १० ११___पृ० १०४ १० ११. अनभिलाप्यतथावस्थानां । अत्र 'अनभिलाप्यतयावश्य' इति भा०प्रत्यनुसारी पाठः समीचीनो भाति। पृ० १०५ पं० १४. दोषाकाङ्क्षमेव । (दोषाक्रान्तमेव?)। पृ० १०५ पं० २२. द्यौः क्षमा......| "तथा च यदैकत्वं काष्ठामनुप्राप्तं तदा सर्वत्र तदेव प्रकार इत्याह-द्यौः क्षमा 5 वायुरादित्यः सागराः सरितो दिशः। अन्तःकरणतत्त्वस्य भागा बहिरव(रिव ?) स्थिताः ॥ [वाक्यप० ३।७४१] अथवा आस्तां कतिपयवस्तुविषय एकत्वानेकत्वविचारः । चरमे द्योश्च आकाशं पृथिवी च द्यावा-पृथिव्यौ महत्यौ महाभूतसंज्ञके जल-द्युती तदन्तरे च वायुरपि तृतीयः । यदादित्यलक्षणमपि सकलतेजसां प्रधानं दिव्यतेजः, आपः सरितः समुद्रः गौर्वाविततरा (?) सर्वाण्येव एतानि महाभूतानि सकलजगजीवितभूतानि, दिशो वा लोकव्यवहारनियमनिमित्तभूताः, कालश्च वक्ष्यमाणः । तदेतत् सर्वमन्तःकरणतत्त्वस्येति । अन्तःकरणत्वेन अ(आ?)न्तररूपतया प्रतिभासमानं यत् तस्यैवैते भागाः 10 प्रतिबिम्बकाः आभासाः बहिरव(रिव ?)स्थिताः । परमार्थे तु कीदृशोऽन्तर्बहिर्भावः, एकमेव सच्चिन्मयं परं शब्दब्रह्म यथा तथाऽवस्थितमिति कारिकार्थः।"-वाक्यपदीयहेलाराजवृ० पृ. २००। पृ० १०६ पं० २,१५. विज्ञान | "रूपधातुररूपधातुः कामधातुरिति त्रैधातुकं जगत्"-न्यायवा० ता० १।१।१४ । "महायाने त्रैधातुकं विज्ञप्तिमात्रं व्यवस्थाप्यते"-विंशतिकाविज्ञप्तिमात्रतासिद्धिवृ० पृ. १। "विज्ञप्तिमात्रमेवेदं त्रैधातुकम्"तत्त्वसं० पं० पृ० ५५० । विस्तरेण धातुत्रयनिरूपणम् अभिधर्मकोशस्य तृतीये कोशस्थाने विलोकनीयम् । 15 पृ० १०७ पं० ४,२४. श्रोत्रादि । दृश्यतां टिपृ० ३२ पं० २। पृ० १०८ पं० ८. नपुंसक। दृश्यतां पृ० २४२ टि० ४ । पृ० १०८ पं०४-५. तत्तु प्रत्यक्षम् । एतत्स्थाने 'न तु त्वन्मतवत्' इत्येतावन्मात्रमपि स्यात् । पृ० १०८ पं० १५ तत्तु प्रत्यक्षम्,..."। अत्र 'न तु त्वन्मतवत्, न त्वेवं लक्षणं प्रत्यक्षं त्वन्मत इव त्वन्मतवत्' इत्येवमपि पाठो भवेत् । दृश्यतां टिपृ० ५० ५० १७ । ४ ऽन्यो निरोधोऽप्रतिसंख्यया। अनागतानां धर्माणामुत्पादस्यात्यन्तविघ्नभूतो विसंयोगाख्योऽन्यो निरोधः सोप्रतिसंख्यानिरोधः । न ह्यसौ प्रतिसंख्यया लभ्यते । किं तर्हि ? प्रत्ययवैकल्यात् । यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपाणि शब्दगन्धरसस्प्रष्टव्यानि च अत्ययन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यं पुनरुत्पत्तुम् । न हि ते शक्ता अतीतं विषयमालम्बयितुमिति । अतस्तेषामप्रतिसंख्यानिरोधः प्रत्ययवैकल्यात् प्राप्यते । चतुष्कोटिकं च भवति-सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव लभ्यते, तद्यथा - अतीतप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् । सन्ति येषामप्रतिसंख्यानिरोध एव, तद्यथा अनुत्पत्तिधर्माणामनास्रवसंस्कृतानाम् । सन्ति येषामुभयम् , तद्यथा - सास्रवाणामनुत्पत्तिधर्माणाम् । सन्ति येषां नोभयम् , तद्यथा-अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामनास्रवाणामिति । उक्तं त्रिविधमसंस्कृतम् । यत्तूक्तं 'संस्कृता मार्गवर्जिताः सास्रवाः' इति कतमे ते संस्कृताः? ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् । रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेत्येते संस्कृता धर्माः, समेत्य सम्भूय प्रत्ययैः कृता इति संस्कृताः । न ह्येकप्रत्ययजनितं किञ्चिदस्तीति । तज्जातीयत्वादनागतेष्वविरोधो दुग्धेन्धनवत् । त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः। त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः, अद्यन्तेऽनित्यतयेति वा । कथा वाक्यम् , तस्या वस्तु नाम, सार्थकवस्तुग्रहणात्तु संस्कृतं कथावस्तूच्यते, अन्यथा हि प्रकरणग्रन्थो विरुध्येत – 'कथावस्तूनि अष्टादशभिर्धातुभिः संगृहीतानि' । निःसरणं निःसारः सर्वस्य संस्कृतस्य निर्वाणम् , तदेषामस्तीति सनिःसाराः। सहेतुकत्वात् सवस्तुकाः। हेतुवचनः किलार्थ(?) वस्तुशब्द इति वैभाषिकाः । इत्येते संस्कृतपर्यायाः।" इति वसुबन्धुविरचितेऽभिधर्मकोशभाष्ये १।५-७। हस्तलिखितोऽयमभिधर्मकोशभाष्यांशो विद्वद्वरश्रीप्रह्लादप्रधानमहोदयैः [Principal, Fakir Mohan College, Balasore, Orissa.] सौजन्यात् प्रदत्तः। - १“यथाह भर्तृहरिः – 'द्यौः क्षमा वायुरादित्यः .. बहिरिव स्थिताः' इति ।" इत्येवं महायानसूत्रालङ्कारटीकायामुद्धृतेयं कारिका अस्वभावेन । दृश्यताम् Tibetan citations of Bhartrihari's verses and the problem of his date by Hajime Nakamura, Professor, University of Tokyo, Japan, p. 122, 135. published in the Studies in Indology and Buddhology, Presented in Honour of Professor S. Yamaguchi, Kyoto: Hozokan, 1955, Japan. अत्र च अस्वभावस्य समयः 450530 A. D. अथवा 470-550 A. D. इति सम्भावितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy