________________
पृ० १०४ ६० ६.]
टिप्पणानि । पृ० ९१ पं० ३,१७. स्वाभासां हि विज्ञप्ति । अत्र 'स्वाभासं हि' इति य० प्रतिपाठानुसरणे तु स्वाभासं हि विज्ञानं इति पाठो मूले [पं० ३] युक्तः ।
पृ. ९१ पं० १५. वन्ध्यापुत्रपुत्रत्वा । (वन्ध्यापुत्रत्वा... ?)। पृ० ९१ पं० २५-२६. स्ववचन । दृश्यतां पृ० ६२ पं०४ ।
पृ० ९२ पं० २५. चत्वार्यपि..। अस्य व्याख्या-"अबार्थे द्वे अपि सत्ये इति सत्यप्रसङ्गेनेदमुच्यते । घटाम्बुवदिति । दृष्टान्तद्वयोपन्यासो भेदद्वयोपप्रदर्शनार्थः । उपक्रमभेदिनश्च घटादयः । बुद्धिभेदिनश्च जलादयः, जलादिषूपक्रमेण रसाचपकर्षणानुपपत्तेः । अथवा द्विविधा संवृतिः-संवृत्यन्तरव्यपाश्रया द्रव्यमानव्यपाश्रया च । तत्र यासौ संवृत्यन्तरव्यपाश्रया तस्यां भेदोऽपि सम्भवति अन्यापोहोऽपि । या त्वसौ द्रव्यमात्रव्यपाश्रया तस्यामन्यापोह एव सम्भवति, न भेदः। न हि परमाणोरष्टद्रव्यकस्य अवयवविश्लेषः शक्यते कर्तुमिति । संवृतिसदिति संव्यवहारेण सत् । परमार्थसदिति परमार्थेन सत् स्वलक्षणेन सदित्यर्थः । एवं वेदनादयोऽपि द्रष्टव्या इति वेदना-चेतना-संज्ञादयोऽपि द्रव्यसन्त एव द्रष्टव्याः । कथम् ? वेदनादीनां धर्मा-10 णाम(धर्मान ?)पोह्य बुद्धया वेदनास्वभावे बुद्धिर्भवतीति द्रव्यसती वेदना । एवं संज्ञा-चेतनादयोऽपि योज्याः। घटश्चाम्बु चास्तीति ब्रुवन्तः सत्यमेवाहुः, न मृषेति संवृतिसत्यस्य वचने प्रयोजनं दर्शयति । 'द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ १ ॥' तथा परमार्थसत्यमिति परमस्य ज्ञानस्यार्थः परमार्थः, परमार्थश्च सत्यं च तत् परमार्थसत्यम् । यथान्येन ज्ञानेन गृह्यते तथा संवृतिसत्यम् , संवृत्या संव्यवहारेण ज्ञानेन वा क्लिष्टेन अक्लिष्टेन वा गृह्यत इति संवृतिसत्यम् । त्रिविधं हि योगाचाराणां सत्-परमार्थ सत् ] संवृतिसद् द्रव्यसच्च, द्रव्यतः स्वलक्षणतः सद् द्रव्यसदिति ।"-16 अभिधर्मकोशस्फुटार्था पृ० ५७४ ।
पृ० ९२ पं० ३०. चेति....संवृतिसत् । अत्र 'चास्तीति संवृतिसत्यम्' इति पठनीयम् । पृ० ९४ ६० ७. विजानाति दृश्यतां टिपृ० ४४ पं० २१ । पृ० ९५ पं० २-३. कारकादकान्तवतः । अयं पाठः प्रमादादायात इति परित्याज्यः । पृ० ९५ पं० १५. हेतुप्रत्येयस्य । (हेतुप्रत्ययस्य ??)। पृ० ९७ ६० ४, १७. स्वनिर्भास"। दृश्यतां टिपृ० ४८ पं० ३० । पृ० ९७ पं० ८. प्रत्यक्षमितत्वात् । प्रत्यक्षेण अवगतत्वादित्यर्थः । पृ० ९७ पं० १०. अभ्युपगम्य । अत्र अभ्युपगमय्य इति भा० प्रतिपाठः समीचीनो भाति । पृ० ९७ पं० २२. प्रत्यक्षत्वाभावात । अत्र 'प्रत्यक्षाभावात' इति भा० प्रत्यनुसारी पाठोऽपि रम्यः । पृ० ९९ पं० ६, २७. प्रत्येकं । दृश्यतां पृ० ९६ पं० ३० ।
25 पृ० १०४ पं० ६. आकाश...| "अनास्रवं मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् । आकाशं द्वौ निरोधौ च तत्राकाशमनावृतिः ॥ प्रतिसङ्ख्यानिरोधो यो विसंयोगः पृथक् पृथक् । उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसङ्ख्यया ॥ ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् । त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः॥"-अभिधर्मको० ११५-७ ॥
१ "अनास्रवाः कतमे ? अनानवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् । कतमत् त्रिविधम् ? आकाशं दो निरोधौ च । कतमौ द्वौ ? प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्चेति । एतदाकाशादि त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः । किं कारणम् ? न हि तेष्वास्रवा अनुशेरते इति । यदेतत् त्रिविधमसंस्कृतमुद्दिष्टम् तत्राकाशमनावृतिः । अनावरणखभावमाकाशं यत्र रूपस्य गतिः । प्रतिसंख्यानिरोधो यो विसंयोगः, यः सास्रवैर्धमैर्विसंयोगः स प्रतिसंख्यानिरोधः । दुःखादीनामार्यसत्यानां प्रतिसंख्यानं प्रतिसंख्या प्रज्ञाविशेषः, तेन प्राप्यो निरोधः प्रतिसंख्यानिरोधः, मध्यपदलोपात्, गोरथवत् । किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्या निरोधः? नेत्याह । किं तर्हि ? पृथक पृथक यावन्ति संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि । अन्यथा हि दुःखदर्शनहे यक्लेशनिरोधसाक्षात्करणात् सर्वक्लेशनिरोधसाक्षाक्रिया प्रसज्येत । सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् । यत् तमुक्तम् 'असभागो निरोधः' इति अस्य कोऽर्थः ? नास्य कश्चित् सभागहेतुरस्ति नासौ कस्यचिदित्ययमस्य वाक्यस्यार्थः, न तु नास्य कश्चित् सभागोऽस्तीति । उक्तः प्रतिसंख्यानिरोधः । उत्पादात्यन्त विनो
नय.टि. ७ Jain Education International For Private & Personal Use Only
www.jainelibrary.org