________________
૪૮
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० ८४ पं०६भगवतः...। संविग्नैः 'इदमेव जिनवचनं तत्त्वम्' इत्येवं सुखेनावगम्यते यत् तत् संविग्नसुखामि(धि?)गम्यम् । "एवंविधगुणाध्यासितस्य जिनवचनस्य सामायिकादिविन्दुसारपर्यन्तश्रुताम्भोधेः कल्याणमस्तु ।”-सन्मतिवृ० ।
पृ० ८४ पं० ६. द्रव्यस्य ।। दृश्यतां टिपृ० १४ पं०१। - पृ० ८५ पं० ५. भेद: । दृश्यतां टिपृ० ४१ पं० १। 5. पृ. ८५ पं० १९. विरोध-सङ्करा: । शास्त्रवार्तासमु० ॥३४-३८ । प्रमाणसं० पृ. १०३ पं. ४ । तत्त्वार्थश्लोकवा० पृ० ४३५ । अष्टसह० पृ० २२७ । प्रमेयक० पृ० ५२६ । न्यायकुमु. पृ. ३६० । सन्मतिवृ० पृ. ४५२ । स्याद्वादर. पृ० ७३८ । प्रमेयरत्नमा० ४।१ । प्रमाणमी. १।११३२ । स्याद्वादमं० श्लो० २४ ।-इत्यादिग्रन्थेभ्यो विरोधादिदोषस्वरूपमवगन्तव्यम्, तत्खण्डनमपि तेषु वर्तते । पूर्वोक्तग्रन्थेषु एते दोषाः क्वचित् संख्यानिर्देशं विना निर्दिष्टाः, क्वचित्तु सप्त क्वचिच्च अष्टौ परिगणिताः । “तदुक्तम्-'संशयविरोधवैयधिकरण्यसङ्करमथोभयं दोषः । अनवस्थाव्यतिकरमपि जैनमते 10 सप्त दोषाः स्युः ॥ १॥' इति ।"-स्याद्वादर० पृ. ७३८ । एतेषु कतिपये दोषा ब्रह्मसूत्रशाङ्करभा० २।२।३३ । तत्त्वसं० का० १७२२-१७३० । हेतुबिन्दुटी० ।-इत्यादिग्रन्थेषु आपादिता दृश्यन्ते ।
पृ० ८५ पं० २१. परस्पर । श्लोकाधमेतदिति भाति । · पृ० ८५ पं० २२-२५. सर्व । अत्र यथाक्रमं साङ्ख्य-बौद्ध-वैशेषिकमतानि वर्णितानि ।
पृ० ८६ पं० ९-१०. अनेकार्थः। दृश्यतां पृ० ८९ पं० २७, पृ० ९१ पं० ९ । प्रमाणवार्तिकालं० ३.१९३ पृ० 15 २७९, प्रमाणवा० म० २११९४ ।
पृ० ८६ पं० २६. अन्यापृक्तत्वा । (अन्यापृथक्त्वाद...?)।
पृ० ८७ पं० १२. आरोटना। (आरोहणा...?)। - पृ० ८७ पं० १४-१५. अचाक्षुषः। दृश्यतां पृ० ५५ पं० ११-१२, टिपृ० २० ५० १५-१६ ।
पृ० ८८ पं० १६. भेद..। अत्र 'भेद'शब्दस्य वस्तुविशेष इत्यर्थो भाति । 20 पृ० ८८ पं० ३२. ह्यनुमानम् । अत्र 'अनुमानम्' इति पठितव्यम्, दृश्यतां प्रमाणवार्तिकालं. पृ० १६९ । तत्त्वार्थराजवा० १।१२ पृ० ५६ पं० ३० ।
पृ० ८९ पं० ११. अदृष्टार्थम्, प्रत्यक्षदृष्टार्थ । अत्र 'अदृष्टार्थं प्रत्यक्षम् , दृष्टार्थ...' इति प्रतिस्थः पाठ एव समीचीनः । ... पृ० ८९ पं० १३. तद्विस्तरोऽपरो । (तद्विस्तरपरोऽपरो?)। अत्र अपरो ग्रन्थः प्रमाणसमुच्चयादिशेयः ।
पृ० ८९ पं० १८. तादृशः । षष्ठयन्तमेतत् । ..पृ० ९.५०२,१२. आरात्परा...। दृश्यतां पृ० ८७ पं० ।
पृ० ९० पं० ३. सामान्यानात्मकत्वात् । अत्र 'सामान्यात्मकत्वात्' इति पठनीयम् ।
पृ० ९० पं० १३. °मननुमानत्व"। अत्र '.."मनुमानत्व...' इति पाठः सङ्गत एव । ... पृ० ९० पं० २० ते विषयो । अत्र 'स विषयो' इति भा० प्रतिपाठः समीचीन एव । 30 पृ० ९१ पं०३. स्वाभासां.. "आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । विज्ञानपरिणामेऽसौ परिणामः स च त्रिधा
॥१॥..... कथमेतद् गम्यते-विना बाह्येनार्थेन विज्ञानमेवाकारमुत्पद्यत इति? बाह्यो ह्यर्थः स्वाभासविज्ञानजनकत्वेन विज्ञानस्यालम्बनप्रत्यय इष्यते; न कारणत्वमात्रेण, समनन्तरादिप्रत्ययादिविशेषाप्रसङ्गात् । सञ्चितालम्बनाश्च पञ्च विज्ञानकायाः, तदाकारत्वात् । न सञ्चितमवयवसंहतिमात्रादन्यदू विद्यते, तदवयवानपोह्य सञ्चिताकारविज्ञानाभावात् । तस्माद विनैव बाह्येनाथेन विज्ञानं सञ्चिताकारमुत्पद्यते । न च परमाणव एव सञ्चितास्तस्य आलम्बनम्, परमाणूनामतदाकारत्वात् । न ह्यसञ्चितावस्थातः सञ्चितावस्थायां परमाणूनां कश्चिदात्मातिशयः । तस्मादसञ्चितवत् सञ्चिता अपि परमाणवो नैवालम्बनम् ।...एवं बाह्यार्थाभावाद् विज्ञानमेवार्थाकारमुत्पद्यते।" इति वसुबन्धुरचितत्रिंशिकाविज्ञप्तिकारिकागां स्थिरमतिविरचिते भाष्ये। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org