________________
पृ० ८४ पं०५.]
टिप्पणानि । कारतारमन्द्रतादिशब्दरूपं शृण्वतः। एवं घ्राणजिह्वाविज्ञाने अपि स्वविषये योज्ये । कायविज्ञानं तु परं पञ्चभिरिति । कथम्? कदाचिदेकेन द्रव्येणोत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति । कदाचिद् द्वाभ्यां यावत्पञ्चभिर्यदा न व्यवच्छेदः । एकेन च श्लक्ष्णत्वादिनेति । किमत्र कारणं? कर्कशत्वादीनामन्यभूतचतुष्काश्रितत्वात् । ननु चैवम् इति बिस्तरः । यथा चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानालम्बनान्यभिसमस्य मनोविज्ञानं गृह्णातीति कृत्वा सामान्यलक्षणविषयं तद् व्यवस्थाप्यते तथा नीलपीतलोहितावदातालम्बनानां चतुर्णी चक्षुर्विज्ञानानां तानि चत्वारि बहुतराणि चालम्ब-5 नान्यभिसमस्य चक्षुर्विज्ञानमेकं गृह्णातीति सामान्यलक्षणविषयं तत् प्राप्नोति, रूपायतनसामान्यलक्षणमस्यालम्बनमिति कृत्वा । तथा श्रोत्रघ्राणजिह्वाकायविज्ञानान्यपि स्वविषयेषु योज्यानि । आयतनखलक्षणं प्रतीति । स्वं लक्षणं स्वलक्षणम् । आयतनानां स्वलक्षणमायतनस्वलक्षणम् चक्षुर्विज्ञानविज्ञेयत्वादि रूपायतनत्वादि वा । तत् प्रति एते पञ्च विज्ञानकायाः खलक्षणविषया इष्यन्ते प्रवचने । न द्रव्यस्खलक्षणं प्रति स्वलक्षणविषया इष्यन्त इति प्रकृतम् । द्रव्याणां नीलादिकानां स्वलक्षणं नीलाद्याकारचक्षुर्विज्ञानादिविज्ञेयत्वं नीलाकारादि वा । न तव्यत्येते पञ्च विज्ञानकायाः स्खलक्षणविषया 10 इष्यन्त इत्यदोषः । युगपद्विषयसंप्राप्ताविति । कायजिह्वेन्द्रिययोर्युगपद्विषयसंप्राप्तिः संभवति । द्वयोश्च विज्ञानयोर्युगपत्प्रवृत्तिर्न संभवति । अतः पृच्छति कतरद्विज्ञानं पूर्वमुत्पद्यत इति । यस्य विषयः पटीयान् । यदि कायेन्द्रियस्य विषयः पटुतरः कायविज्ञानं पूर्वमुत्पद्यते । अथ जिह्वेन्द्रियस्य विषयः पटीयाञ्जिह्वाविज्ञानं पूर्वमुत्पद्यते । समे प्राप्ते तु बिषये तुल्य इत्यर्थः । जिह्वाविज्ञानं पूर्वमुत्पद्यते, कस्मात् ? भोक्तुकामतावर्जितत्वात् संततेः, भोजनेच्छाप्रवणत्वादात्मभावस्येत्यर्थः । पूर्व जिह्वाविज्ञानमुत्पद्यते इति वचनात् पश्चात् कायविज्ञानमुत्पत्स्यत इत्यर्थादुक्तं भवति तेनात्र विचार्यते। किं योऽसौ जिह्वा-16 विषयक्षणेन सह प्राप्तः कायविषयक्षण आसीत् तत्र तत्कायविज्ञानमुत्पद्यते आहोस्विदन्यस्मिन्कायविज्ञानविषयक्षण इति । अन्यस्मिन्नित्याह । कथमालम्बननियमो न भिद्यते । नैष दोषः । यत्तद्विषयालम्बनं विज्ञानं तदप्रसंख्यानिरोधनिरुद्धम् ।। अन्यत्तु तत्सदृशं कायविज्ञानमुत्पद्यत इति । अतः पश्चात् तदुत्पद्यत इत्युच्यते जातिसामान्येनैकत्वोपचारात् ।"
पृ० ७८ पं० १६-३७. रूपं द्विधा... किलास्ति । अस्य व्याख्या यशोमित्रविरचितस्फुटार्थावृत्तितोऽवगन्तव्या।
पृ० ७९ पं० ३. बुद्धवचन । यद्यपीदं वसुबन्धुवचनं तथापि तस्य बौद्धागमानुसारित्वाभिप्रायेण बुद्धवचनत्वेनो- 20 लेखोऽत्र विहित इति भाति ।
पृ० ७९ पं० १७. शानतेत्यत्र । अत्र 'ज्ञानेत्यत्र' इति य० प्रतिपाठोऽपि साधुः । पृ० ८१ ५० ५. संवृतिसत्सामान्या। दृश्यतां पृ० ८२ पं० २१ । पृ० ८१ पं० १०. भेदाभेदविकल्पनात् । (भेदोऽभेदविकल्पनात् ? ?)।
पृ० ८२ पं० २. द्वयं प्रतीत्य। कतमो च भिक्खवे दुक्खस्स समुदयो ? चक्टुं च पटिच्च रूपे च उप्पजति 25 चक्खुविाणं । तिण्ण संगतिफासो । फासपञ्चया वेदना । वेदनापञ्चया तन्हा । अयं खो भिक्खवो दुक्खस्स समुदयो।... कतमो च भिक्खवे दुक्खस्स अत्थंगमो? चखं पटिच्च..... सोतं च पटिच्च सद्दे च.. घानं च पटिच्च गन्धे च.. जिच पटिश्च रसे च.. कायञ्च पटिच्च फोटब्बे च..... मनञ्च पटिच्च धम्मे च..." इति संयुक्तनिकाये निदानवर्गे २१४३।१२।
पृ० ८२ पं० १६. विजानाति...'। दृश्यतां पृ० ७३ पं० १३, टिपृ० ४४ पं०३।
पृ० ८२ पं० १९. जात्याख्याया' [पा० १।२।९] । अत्र 'पा० शश५८' इति पठनीयम् । अस्य व्याख्या-30 "एकोऽप्यर्थो वा बहुवद् भवति । ब्राह्मणाः पूज्याः ब्राह्मणः पूज्यः ।"-पा० सिद्धान्तकौ । "आकृत्यधिकरणन्यायेन घटादिशब्दानां जातिवाचकत्वाजातेश्चैकत्वादेकवचनमेव स्थादित्यारम्भः । जातिशब्दे एकत्वे बहुवचनं वा र
चनमेव स्थादित्यारम्भः । जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः ।"बालमनोरमा।
पृ० ८३ पं० ३. त्राता । मन्त्र 'त्राता सर्ववादभेदयाथार्थ्यपरिपालनात्' इति पठितव्यम् । पृ० ८३ पं० १०. अतीन्द्रियत्वाच्चाक्षुषश्च । अत्र 'अतीन्द्रियश्चाक्षुषश्च' इति पाठः स्यात् ।
पृ० ८४ पं० ५. भई । “भई मिच्छादसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥[सन्मति० ३५९] । भद्रं कल्याणं जिनवचनस्य अस्तु इति सम्बन्धः । मिथ्यादर्शनसमूहमयस्य..। न विद्यते मृतं मरणं यस्मिन् असौ अमृतो मोक्षः, तं सारयति गमयति प्रापयतीति वा, तस्य,...| 'अमयसायस्स' इति वा पाठे अमृतवत् स्वाद्यते इति अमृतस्वादम् अमृततुल्यमिति यावत् । तथा रागाद्यशेषशत्रुजेतृपुरुषविशेषैरुच्यत इति जिनवचनम् , तस्य।
36
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org