________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ०७४ पं० २६नो चेत् स्पृष्टस्याप्यप्रसङ्गः।" इति वसुबन्धुविरचितेऽभिधर्मकोशभाष्ये १।४३ । विस्तरेण त्वस्य व्याख्यानं यशोमित्रविरचितायां स्फुटायां व्याख्यायामवलोकनीयम् ।
पृ० ७४ पं० २६. पिण्डोऽणुमात्रकः । “न तदेकं न चानेकं विषयः परमाणुशः । न च ते संहता यस्मात् परमाणुन सिध्यति ॥ ११॥ इति, किमुक्तं भवति ? यत् तद् रूपादिकमायतनं रूपादिविज्ञप्तीनां प्रत्येक विषयः स्यात् तदेकं वा स्याद् यथा अवयविरूपं कल्प्यते वैशेषिकैः ? अनेकं वा परमाणुशः? संहता वा त एव परमाणवः ? न तावदेकं विषयो भवति अवयवेभ्योऽन्यस्य अवयविरूपस्य क्वचिदप्यग्रहणात् । नाप्यनेकम् , परमाणूनां प्रत्येकमग्रहणात् । नापि ते संहता विषयीभवन्ति, यस्मात् परमाणुरेक द्रव्यं न सिध्यति । कथं न सिध्यति? यस्मात् , षट्केन युगपद् योगात् परमाणोः षडंशता । षड्भ्यो दिग्भ्यः षभिः परमाणुभिर्युगपद् योगे सति परमाणोः षडंशता प्राप्नोति, एकस्य यो देशस्तनान्यस्यासम्भवात् ।
घण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः ॥ १२ ॥ अथ य एवैकस्य परमाणोर्देशः स एव षण्णाम्, तेन सर्वेषां समान10 देशत्वात् सर्वः पिण्डः परमाणुमात्रः स्यात् परस्पर(रा?)व्यतिरेकादिति न कश्चित् पिण्डो दृश्यः स्यात् ।" इति वसुबन्धु। विरचितायां खवृत्तिसहितायां विंशतिकायां विज्ञप्तिमात्रतासिद्धौ।
पृ० ७४ पं० २६,३१. सप्रतिघत्व। 'सनिदर्शन"। "अपि खलु त्रिभिः कारणैः सप्रतिघं द्रष्टव्यम् । जातितोऽपि उपचयतोऽपि अपरिकर्मकृततोऽपि । तत्र जातितः यद्य(द)न्योन्यमावृणोति आवियते च । तत्रोपचयतः परमाणोरूर्वम् । तत्रापरिकर्मकृततो यद् न समाधिवशवर्तिरूपम् । अपि खलु प्रकोपपदस्थानतः सप्रतिघम् ।"-अभिधर्मसमु० पृ० १७ । 15 पृ० ७५ पं० ८. गतिप्रतिबन्धाभाव। दृश्यतां टिपृ० ४५ पं० ३४ ।
पृ० ७५ पं० २३. प्रत्येकं । दृश्यतां पृ० ९६ पं०३०। पृ० ७६ पं० १९. रूपरसा । अत्र 'रूपरसादिवदन्यरूपम्' इति यथाश्रुतपाठोऽपि कथञ्चित् सङ्गच्छते । पृ. ७७ पं० १३. यस्मिन् भिन्ने...। दृश्यतां पृ० ९२ टि०७।। पृ० ७७ पं० २४. नामजात्यादि। दृश्यतां टिपृ० ३० पं० २१ । पृ० ७८ पं० ६. प्रमाण। "प्रमाणे द्वयसज्दनमात्रचः"-पाणिनि० ५।२।३७ ।
पृ० ७८ पं० २,९,३८. यदेतद...अस्य अभिधर्मकोशभाष्यस्य यशोमित्ररचिता स्फुटार्था व्याख्या-“यदा तत्प्रकार. व्यवच्छेद इति यदा नीलादिप्रकारनिमित्ताभोगः। एवं श्रोत्रादिविज्ञानमिति । य एष बहुविधः शब्द उक्तः तत्र कदाचिदेकेन भव्येण श्रोत्रविज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति कदाचिद्बहुभिर्यदा न व्यवच्छेदः । तद्यथा तूर्यशब्दसमूहमनेका
१"ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः कति अनिदर्शनाः ? सनिदर्शन एकोऽत्र रूपम् । स हि शक्यते निदर्शयितुम् 'इदमिहामुत्र' इति । उक्तं भवति अनिदर्शनाः शेषा इति । कति सप्रतिघाः कति अप्रतिघाः ? सप्रतिघा
पणः। य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः। प्रतिघो नाम प्रतिघातः । स च त्रिविधः आवरणविषयालम्बनप्रतिघाततः। तत्र आवरणप्रतिघातः खदेशे परस्योत्पत्तिप्रतिबन्धः, यथा हस्तो हस्तेन प्रतिहन्यते उपले वा, उपलोऽपि सयोः । विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु । यथोक्तं प्रज्ञप्तौ-अस्ति चक्षुर्जले प्रतिहन्यते न स्थले, यथा मत्स्यानाम् । अस्ति स्थले न जले, प्रायेण मनुष्याणाम् । अस्त्युभयत्र शिशुमारमण्डूकपिशाचकैवतादीनाम् । अस्ति नोभयत्र, एतानाकारान् स्थापयित्वा । अस्ति चक्षुर्यद्रात्रौ प्रतिहन्यते, न दिवा, तद्यथा तितीलोलूकादीनाम् । दिवा, न रात्रौ, प्रायेण मनुष्याणाम् । रात्री दिवा च, श्वशृगालतुरगद्वीपिमार्जारादीनाम् । नोभयत्र, एतानाकारान् स्थापयित्वा । इत्ययं विषयप्रतिघातः। आलम्बनप्रतिघातश्चित्तचैत्तानां खेष्वालम्बनेषु । कः पुनर्विषयालम्बनयोर्विशेषः? यस्मिन् यस्य कारित्रं स तस्य विषयः, यश्चित्तचैत्तैह्यते तदालम्बनम् । कः पुनः [आलम्बनप्रतिघातः] ? खस्मिन् विषये प्रवर्तमानमालम्बने वा प्रतिहन्यत इत्युच्यते तस्मात् परेणाप्रवृत्तेः । निपातो वात्र प्रतिघातः या स्वविषये प्रवृत्तिः । तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यम् , अन्योन्यावरणात् ।......... 'यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यते परैः कर्तुम् । तत् सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टम् ॥' इति भदन्तकुमारलातः । उक्ताः सप्रतिघा अप्रतिघाश्च । एषामष्टादशधातूनां कति कुशलाः कति अकुशलाः कति अव्याकृताः? अव्याकृता अष्टौ । कतमे अष्टौ ? य एते सप्रतिघा दशोक्ताः त एवारूपशब्दकाः । पञ्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातपश्च, एतेऽष्टौ कुशलाकुशलभावेनाव्याकरणादव्याकृताः । विपाकं प्रति अव्याकरणादित्यपरे । एवमनास्रवेऽपि प्रसङ्गः।" इति घसुबन्धुविरचिते अभिधर्मकोशभाष्ये १।२९ [श्रीप्रह्लादप्रधानमहोदयानां ] Principal, Fakir Mohan College, Balasore, Orissa [ सौजन्यादधिगते हस्तलिखिते ] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org