________________
पृ०७४ पं० २१.]
टिप्पणानि। पृ० ७२ पं० १९. रूपत इति रूप्यम् । अत्र 'रूप्यत इति रूपम्' इति पठनीयम् । पृ० ७३ पं० १,८. प्रत्येक । दृश्यतां पृ० ९६ ५० ३०।
पृ० ७३ पं० १३. विजानाति । दृश्यतां तत्त्वार्थसूत्रसर्वार्थसिद्धिः १।१२। शास्त्रवार्तासमुच्चये [ श्लो० ३३२] अनेकान्तजयपताकास्वोपज्ञवृत्तौ [पृ० ११२३३, २०२०२] च 'एकमर्थं विजानाति न विज्ञानद्वयं यथा । विजानाति न विज्ञानमेकमर्थद्वयं तथा ॥' इति पाठो हरिभद्रसूरिभिः स्वीकृत इति ध्येयम् । “अयमत्र भावः-क्षणिकत्वाभ्युपगमे बौद्धस्य । न कदाचित् क्वचित् कश्चिदप्यर्थ एकसन्तानवर्तिभ्यां द्वाभ्यां ज्ञानाभ्यां ज्ञातुं शक्यः क्रमभावित्वादुभयोः । तथा द्वावर्थक्षणी क्रमभाविनावेकेन ज्ञानक्षणेन न येते क्षणिकत्वादेवेति ।"-अनेकान्तजय० खो० वि० पृ० १२३३ ।
पृ० ७३ पं० १६. प्रत्यक्षं कल्पना । इदं न्यायमुखेऽप्यस्ति, दृश्यतां टिपृ० ३० पं० ३०, टिपृ० ३१ पं०६। पृ० ७३ पं० २५. गुणसन्द्रावो"। दृश्यतां टिपृ० १६ पं० ३५। पृ० ७४ पं० ३. मायेयीयः । मायेयो बुद्धः । मायेयीयो बुद्धसम्बन्धीत्यर्थः ।
10 पृ० ७४ पं० १३. °पादनाय [अयं] त्वित्यादि । (°पादनादयं त्वित्यादि ? पादनेऽयं त्वित्यादि ?)। पृ० ७४ पं० १४. शब्दादिभि । दृश्यतां पृ० २६८ टि० १।
पृ०७४ पं० २१. संघाता एव""। “उभाभ्यामपि चक्षुभ्या॑ पश्यति व्यक्तदर्शनात् । चक्षुःश्रोत्रमनोऽप्राप्तविषयं यमन्यथा ॥ १।४३ ॥ तद्यदि चक्षुः पश्यति किमेकेन चक्षुषा रूपाणि पश्यति आहोस्विदुभाभ्याम् ? नात्र नियमः। 'उभाभ्यामपि चक्षुभ्यां पश्यति व्यक्तदर्शनात्' । उभाभ्यामपि चक्षुभ्यां पश्यतीति आभिधर्मिकाः। तथाहि-द्वयोर्विवृतयोः परिशुद्धतरं 18 दर्शनं भवति, एकस्मिंश्चोन्मीलिते चक्षुषि द्वितीये चार्धनिमीलिते द्विचन्द्रादिग्रहणं भवति, नैकतरान्यथाभावात् । न चाश्रयविच्छेदाद् विच्छेदप्रसङ्गः, विज्ञानस्य देशाप्रतिष्ठितत्वाद् रूपवदिति । यदि चक्षुः पश्यति श्रोत्रं शृणोति यावद् मनो विजानाति, किमेषां प्राप्तो विषयः आहोस्विदप्राप्तः ? 'चक्षुःश्रोत्रमनोऽप्राप्तविषयम्' । तथाहि-दूराद्रूपं पश्यति, अक्षिस्थमञ्जन न पश्यति । दूराच्छब्दं शृणोति । सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह ध्यायिनां नोपजायेत घ्राणादिवत् । यद्यप्राप्तविषयं चक्षुः, कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च ? कथं तावदयस्कान्तो न सर्वमप्राप्तमयः कर्षति ? प्राप्तविषयत्वेऽपि 20 चैतत् समानम्, कस्माद् न सर्व प्राप्तं पश्यति अञ्जनं शलाकां वा ? यथा च घ्राणादीनां प्राप्तो विषयो न तु सर्वः सहभूगन्धाधग्रहणात् एवं चक्षुषोऽपि अप्राप्तः स्याद् न तु सर्वः । मनस्तु अरूपित्वात् प्राप्तुमेव अशक्तम् । केचित् पुनः श्रोत्रं प्राप्ताप्राप्तविषयं मन्यन्ते कर्णाभ्यन्तरेऽपि शब्दश्रवणात् । शेषं तु घ्राणजिह्वाकायाख्यं 'त्रयमन्यथा' प्राप्तविषयमित्यर्थः । घ्राणं कथं प्राप्तविषयम् ? निरुच्चासस्य गन्धाग्रहणात् । केयं प्राप्तिर्नाम ? निरन्तरोत्पत्तिः । किं पुनः परमाणवः स्पृशन्ति अन्योन्यमाहोस्विन्न ? न स्पृशन्तीति काश्मीरकाः । किं कारणम् ? यदि तावत् सर्वात्मना स्पृशेयुः, मिश्रीभवेयुद्धव्याणि । अथैकदेशेन, 25 सावयवाः प्रसज्येरन् । निरवयवाश्च परमाणवः । कथं तर्हि शब्दाभिनिष्पत्तिर्भवति? अत एव । यदि हि स्पृशेयुः हस्तो हस्तेऽभ्याहतः सज्जेत उपलश्चोपले । कथं सञ्चितं प्रत्याहतं न विशीर्यते ? वायुधातुसन्धारितत्वात् । कश्चिद्धि वायुधातुर्विकिरणाय प्रवृत्तो यथा संवर्तन्याम् । कश्चित् सन्धारणाय यथा विवर्तन्यामिति । कथमिदानीं निरन्तरपात्या प्राप्तविषय यमुच्यते ? तदेवैषां निरन्तरत्वं यद् मध्ये नास्ति किञ्चित् । अपि खलु संघाताः सावयवत्वात् स्पृशन्तीत्यदोषः । एवं च कृत्वा अयमपि ग्रन्थ उपपन्नो भवति विभाषायां 'किं नु स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकम्' इति प्रश्नयित्वा 30 भाह-कारणं प्रति कदाचित् स्पृष्टहेतुकम् * अस्पृष्टमुत्पद्यते यदा विशीर्यते । कदाचिदस्पृष्टहेतुकं स्पृष्टं यदा चयं गच्छति । कदाचित् स्पृष्टहेतुकं स्पृष्टं यदा चयवतां चयः । कदाचिदस्पृष्टहेतुकमस्पृष्टं यथा वातायनरज इति । यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थान स्यादिति भदन्तवसुमित्रः । न स्पृशन्ति । निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः । भदन्तमतं चैष्टव्यम् । अन्यथा हि साम्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत यतः सप्रतिघा इष्यन्ते । न च परमाणुभ्योऽन्ये संघाता इति। त एव ते संघाताः स्पृश्यन्ते यथा रूप्यन्ते। यदि च परमाणोदिग्भागभेदः कल्प्यते स्पृष्टस्यास्पृष्टस्य वा सावयवत्वप्रसङ्गः । 35
..१ अभिधर्मकोशभाष्यस्यायमंशः श्रीप्रह्लादप्रधानमहोदयानां [ Principal, Fakir Mohan College, Balasore, Orissa] सौजन्यादधिगतः । * एतच्चिह्नपर्यन्तोऽल्पीयानंशः श्रीवासुदेवविश्वनाथगोखलेमहोदयाना [ Poona] सविधेऽपि एकस्मिन् पत्रे विद्यते । प्र० पुस्तके वा० पत्रात् क्वचित् क्वचित् पाठभेदोऽस्ति । 'रूपाणि' प्र० पुस्तके नास्ति। २ 'अन्योन्यम्' प्र० पुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org