________________
न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० ६६ पं० २१पृ० ६६ पं० २१. सर्वत्रा... । (सर्वत्र अर्थान्तराध्यारोपवृत्ति अर्थान्तरहेयतयोत्पन्नं न तज्ज्ञानम् ? सर्व नार्थास्तराध्यारोपवृत्ति अर्थान्तरहेयतयोत्पन्नं तज्ज्ञानम् ??)।
पृ० ६७ पं० १-३. कारकतापि 'धूमानुमिताग्निवत् । दृश्यतां पृ० ११० पं० ६-९। पृ० ६७ पं० ७. यस्मिन् । दृश्यतां पृ० ९२ टि० ७ । पृ०६८पं०१-४. कारकताया ....... | दृश्यतां पृ० १ . पं. ९-११ । - 'पृ० ६९ पं० १-४. रूपैक । दृश्यतां पृ० ११० पं० ११-१५ ।
पृ०६९ पं० ५. भावानामेकवचसाधारण ...। अत्र भावानां मेचकवत् साधारणभवनत्वाभवनत्वात् इति य०प्रत्यनुसारी पाठः समीचीनो भाति ।
__ पृ० ६९ पं० १२. अनग्ने । अत्र 'अनग्नेरन्यस्य' इति भा० प्रतिपाठे 'अग्नितोऽन्यस्य अनग्नेः' इत्यर्थो शेयः, 10'अनग्नेरग्नेरन्यस्य' इति य० प्रति पाठेऽपि स एवार्थो ज्ञेयः।
पृ० ७० पं० १-२. नाणुषु...."। दृश्यतां पृ० ११० पं० १५-१६ । पृ० ७० पं० ३,२०,२३. प्रत्यक्षविधि: । दृश्यतां पृ० ७६ पं० २।
पृ० ७० पं० १७. प्रमेय.। "अनैकान्तिकः षट्प्रकारः- साधारणः, असाधारणः, सपक्षैकदेशवृत्तिर्विपक्षव्यापी, विपक्षैकदेशवृत्तिः सपक्षव्यापी, उभयपक्षकदेशवृत्तिः, विरुद्धाव्यभिचारी चेति । तत्र साधारणः 'शब्दः प्रमेयत्वाद् नित्यः' इति, 15 तद्धि नित्यानित्यपक्षयोः साधारणत्वादनैकान्तिकम्-किं घटवत् प्रमेयत्वादनित्यः शब्द आहोस्विदाकाशवत् प्रमेयत्वाद् नित्यः? इति । असाधारणः 'श्रावणत्वाद् नित्यः' इति । तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वाद् नित्यानित्यविनिर्मुक्तस्य चान्यस्यासम्भवात् संशयहेतुः-किम्भूतस्यास्य श्रावणत्वम् ? इति ।"-न्यायप्र० ।
__ पृ० ७२ पं० ९. मायेयदिनाविव । मायाया अपत्यं मायेयो बुद्ध इत्यर्थः । “शाक्यमुनिस्तु यः ॥ १४ ॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५॥"-अमरको० । 'दिन्न'विषये दृश्यतां 20 पृ० ५४७ टि० ९।
पृ. ७२ पं० १५. सति सम्भवे... "सम्भवव्यभिचाराभ्यां स्याद् विशेषणमर्थवत् । न शैत्येन न चौष्ण्येन वह्निः कापि विशि(शे)प्यते ॥"-तन्त्रवा० पृ० २०८ । “सम्भवव्यभिचाराभ्यां विशेषणविशेष्ययोः । दृष्टं विशेषणं लोके यथेहापि तथेक्ष्यताम् ॥"-बृहदा० वा. पृ० २०१२ । “सम्भवे व्यभिचारे च विशेषणविशेष्यभावः ।"-हेतुबि० टी० पृ. २१२ । दृश्यतां प्रमाणमी० १२॥
तु संयुक्तसमवायादग्नेवैशेषिकम् [ वै० सू० १०।१८ ], अणूनां पाकजरूपाद्यारम्भे अणुभिः संयुक्तेऽमौ समवेतमुष्णस्पर्श वैशेषिक गुणमपेक्षते संयोगः । द्रव्यं वर्जयित्वा अन्यत्र संयोगः सापेक्षः कारणम् । अतीन्द्रिये भूतादावर्थे लैङ्गिके प्रमाणं व्याख्यातम् [वै० सू० १०॥१९ ], लैङ्गिकं परोक्षमुच्यते, 'भविष्यति' इत्यादि कार्याणां येनावगम्यते तदनुमानं प्रमाणं व्याख्यातम् । शास्त्रादौ धर्मो व्याख्येयतया प्रतिज्ञातः, अतस्तस्य प्रत्याम्नायानुसन्धानार्थ सूत्रद्वयं गतमपि पुनरुच्यते-दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय [वै० सू० १०।२०], श्रुतौ स्मृतौ च दृष्टानां दृष्टस्य प्रयोजनस्याभावे प्रयोगोअभ्युदयाय धर्मायेत्यर्थः । तस्य चाम्नायात् समधिगम उक्तः । आम्नायस्य च सिद्धं प्रामाण्यम् , तद्वचनादानायप्रामाण्यमिति [वै० सू० १०।२१], तनुभुवनादिकार्यतया विज्ञातो भगवानीश्वरः, तत्प्रणयनाच्चाम्नायस्य सिद्धं प्रामाण्यम् । 'इति'शब्दः समाप्त्यर्थः । एवं द्रव्यादीनां साधर्म्यवैधर्म्यपरिज्ञानाद् वैराग्यद्वारेण ज्ञानोत्पत्तेः 'आत्मा ज्ञातव्यः' इत्यादिवाक्येभ्यश्चोपासनाक्रमेण विज्ञानावाप्तेनिःश्रेयसाधिगमः।।
जगतोऽस्यानन्दकर विद्याशवर्या सदैव यश्चन्द्रम् ।
आनन्दयति स वृत्तिं चन्द्रानन्दो व्यधादेताम् ॥" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० ३१-३४ । दृश्यतां टिपृ० ८ पं० २२ । ____ 1 दृश्यता वै० सू० १०।६। 2 दृश्णतां वै० सू० ६।२।१ । टिपृ० ३६ पं० १९। 3 दृश्यता वै० सू० १३१६३ । पृ. ४४४ टि. ४। 4 इत्यादिना वाक्येभ्यश्चोपासाक्रमेण विज्ञानाव्याप्तेनिःश्रेयसाधिगमः-वृ०। 5 विद्यासर्वर्याः-वृ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org