________________
पृ० ६६ पं० १७.]
टिप्पणानि ।
यावत् । दृश्यतां पृ० ११० पं० ३-६ ।
पृ० ६६ पं० १ ४. ननु च पृ० ६६ पं० ८. साध्यधर्म । “एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति, यथा नित्यः शब्दोऽमूर्तत्वात् कर्मवत् परमाणुवत् घटवदिति साध्यसाधनधर्मोभयविकलाः । " - न्यायबि० ।
४३
पृ० ६६ पं० ९. इष्टविघाताद्. । “इष्टविघातकृद् विरुद्धः, यथा परार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवदिति, तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद् विरुद्वः ।” — न्यायबि० ।
पृ० ६६ पं० १७. अन्यथा दाह । श्लोकोऽयं बहुषु ग्रन्थेषु उद्धृतो दृश्यते - शास्त्रवा० का ० ६६७ । अनेकान्त जय० पृ० १। ३९६ । व्योमव० पृ० ५८४ | तत्त्वसं० पं० पृ० २८० । न्यायकुमु० पृ० ५५३ । न्यायमं० | शास्त्रवार्ता समुच्चये अनेकान्तजयपताकायां च अत्रवदेव पाठः । अस्य व्याख्या - " अन्यथा दाहसम्बन्धात् स्वलक्षणानुभवेन दाहं दग्धोऽभिमन्यते पुमान् । तथा अन्यथा दाहशब्देन सामान्यलक्षणाध्यवसायेन दाहार्थः सम्प्रतीयते ।" - अनेकान्तजय० स्वो० । “यदि शब्देन यथावद् बाह्योऽर्थः प्रत्याय्येत तदा शब्दसन्निधापितोऽसौ तामर्थक्रियां कथं न कुर्यात् ? यतश्चाग्निसम्बन्धाद् दग्धो दाहमन्यथा 10 अनुभवति दाहशब्देन च दाहमन्यथाऽवगच्छतीति शब्दार्थयोर्नास्ति कश्चिद् वास्तवः समन्वय इति बोद्धव्यम् । " - वाक्यप० पुण्य० ० ४२५ ।
पूर्वपूर्वसंयोगापेक्षानुपलभमानः पश्चात् पश्चादुत्तरोत्तरतन्तुसंयोगे सति अनपेक्षानुपलभते तदास्य पट्टिकाद्यैवान्तरकार्यं पश्यत उत्पद्यमाने कार्यद्रव्ये निष्पन्नानिष्पन्नसंयोगपर्यालोचनया भवति कार्यमुत्पद्यते कार्यमिति जायते बुद्धिः । यथा चोत्पत्तौ एवं विनाशेऽपि प्रयत्नानन्तरोत्पत्तीनां घटादिद्रव्याणां विनाशे 'अभूत्' इति प्रत्ययस्य 'भूतप्रत्यक्षाभावात्' [ ९ 191६ ] इत्यादिना कथितत्वादिदानीं पारिणामिके शरीरादौ कथ्यते । तत्र विनष्टे अभूदित्यभूतात् [ वै० सू० १०1८ ], अभूताद् विनष्टादित्यर्थः । पाणिपादग्रीवादीनवयवान् विभक्तानुपलभ्य विनष्टादसमवायिकारणात् संयोगाद् विनष्टे कार्ये 'अभूत् कार्यं शरीराख्यम्' इति जायते बुद्धिः । विनश्यति पुनः सति च कार्यासमवायात् [ वै० सू० १०९ ], सति संयोगे 'च' शब्दादसति, घातकादिविनाशकारणव्यापारेऽपि केषाञ्चिद् ग्रीवाद्यवयवानामनिवृत्ते संयोगे विभागाच्च पाण्यादीनां विनिवृत्ते [ P. पृ. ३४ 4 ] कार्यस्य शरीरादेरसमवायाद् विनाशकारणाघ्रातत्वेन प्रचलितत्वाद् विनष्टाविनष्टसंयोगालोचनेन 'कार्यं नश्यति' इति ज्ञानमुत्पद्यते । अन्ये तु ‘अभूत् कार्यम्' इति व्याचक्षते तदयुक्तं तदभिप्रायेणैव कार्यस्य विनष्टत्वात् । एषा च बुद्धिः एकार्थसमवायिषु कारणान्तरेषु दर्शनादेकदेश इत्येतस्मिन् [वै० सू० १०1१० ], शरीरादौ क्वचिदेकस्मिन्नर्थे यदा पाण्यादयोऽवयवाः समवायिन उपलब्धाः अथास्य तेषु एकदेशबुद्धिरुत्पन्ना इदानीं तान् विभज्य विभक्तानुपलभ्य एतस्मिन्नेकदेशिनि ‘अभूत् कार्यम्' इति ज्ञानोत्पत्तिः । के तेऽवयवाः ? इत्याह - शिरः पृष्ठमुदरं पाणिरिति तद्विशेषेभ्यः [वै० सू० १०।११], स्वसामान्यविशेषेभ्यः शिरस्त्वादिभ्यो येषु ज्ञानं जायते [ते] शिरआदयोऽवयवा इत्यर्थः । कारणबुद्धिस्तु कारणमिति द्रव्ये कार्यसमवायात् [ वै० १०।१२], कार्यं द्रव्यं गुणान् कर्म वा समवेतं द्रव्ये पश्यतो 'द्रव्यं कारणम्' इति मुख्या बुद्धिः, कार्यस्य जातत्वात् । अजाते तु संयोगाद्वा [ वै० सू० १०।१३], जनिष्यमाणेऽपि कार्ये तन्त्वादीनां परस्परेण संयोगादस्य पटं प्रति तेषु कारणबुद्धिरुत्पद्यते । कारणसमवायात् कर्मणि [चै० सू० १०।१४ ], संयोगविभागेषु निरपेक्ष कारणत्वात् तत्कारणद्रव्ये समवेतत्वात् कर्मोत्पन्नमात्रमेव कार [ण ] बुद्धिं जनयति । इदानीं गुणेषु, तथा रूपे कारणकारणसमवायाच्च [वै० सू० १०।१५ ], कार्यरूपस्य समवायिकारणे पटादौ यत् समवायिकारणं तन्तवः तेषु कारणकारणेषु समवेतत्वात् कारणं रूपादय इत्युच्यन्ते, 'च'शब्दादनुत्पन्नेऽपि कार्यरूपे कारणबुद्धिः । कारणसमवायात् संयोगे [ वै० सू० १०।१६ ], कार्यस्य पटादेः समवायिकारणेषु तन्त्वादिषु समवेतत्वात् संयोगे द्रव्यं प्रति कारणबुद्धिः । [ P. पृ० ३४ B] गुणकर्मारम्भे तु तथा कारणाकारणसमवायाच्च [वै० सू० १० १७ ], कारणे घटे अकारणे चा अन संयोगः समवेतत्वात् कारणं पाकजानाम् । अभिघात्ये कर्मकारणे समवेतत्वाद् वेगवद्द्रव्यसंयोगः कर्मणः कारणम् । पाकजारम्भे
1 वान्तकार्य - वृ० । 2 दृश्यतां नयचक्रवृ० पृ० ४८९ टि० ६ । 3 अभूतात् वृ० । 4 अभूत - वृ० । 5 ( कार्यस्याविनष्टत्वात् ? ) । 6 इत्येकस्मिन् - सू० । अत्र ' इत्येकस्मिन्' इति पाठ: समीचीनो भाति, शङ्करमिश्रादिभिरपि स एव पाठः स्वीकृतः । 7 ( एकस्मिन्नेकदेशिनि ? ) । 8 द्रव्यगुणाः कर्म वा वृ० । एतदन्तर्गतः पाठो वृसू० मध्ये नास्ति | 10 ' तथा ' वृसू० मध्ये नास्ति । 11 अभिघाते ? ) ।
9
For Private & Personal Use Only
Jain Education International
5
www.jainelibrary.org