________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [ पृ० ६५ पं० १५
'अस्यार्थस्य प्रतिपत्तावयं शब्दः कारणम्' इति प्रसिद्धसङ्केतः ततः शब्दात् कारणादर्थं प्रतिपद्यते, यथा अभिनयादेरपि अर्थ प्रतिपद्यन्ते लौकिकाः एवं शब्दोऽर्थस्य सङ्केतवशेन व्यञ्जकत्वात् कारणमिति वृत्तिकारः । एवमुपमा[ना] दीनामन्तर्भावः । एवं द्वे एव प्रमाणे । प्रमाणत्वं च प्रमीयतेऽनेनेति प्रमाणं प्रमा प्रमाणमिति वा । अनुमानाङ्गं स्मृतिरुच्यते – आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः [ वै० सू० ९1१९], अग्न्यर्थिनो धूमदर्शनं यदुत्पन्नं तदपेक्षादात्मान्तःकरणसंयोगाद् विशिष्टाच्च भावनाख्यसंस्काराद् 'यत्र धूमस्तत्राग्निः' इति स्मृतिस्त्पयते । तथा स्वप्नस्वप्नान्तिकम् [ वै० सू० ९।२० ], तथा खप्नः स्वप्नेऽपि स्वप्नज्ञानं स्वप्नान्तिकं च । उपरतेन्द्रियस्य प्रलीनमनस्कस्यान्तःकरणेनैव ज्ञानं स्वप्नः, [Po ३२ A] स्वप्नेऽपि स्वप्नज्ञानं स्वप्नान्तिकम्, तदुभयं पूर्वप्रत्ययापेक्षादात्ममन:संयोगविशेषाद् भावनासहायादुत्पद्यते । धर्माच्च [ वै० सू० ९।२१ ], अननुभूतार्थविषयमपि स्वप्नज्ञानं शुभाशुभसूचकं धर्मात् 'च' शब्दादधर्माच्चेति । जाग्रतस्तु इन्द्रियदोषात् संस्काराच्चाविद्या [वै० सू० ९२२] वातादिदोषेणोपहतेन्द्रियस्य पूर्वरजतानुभवजनितात् संस्कारादात्ममनः संयोगाच्च विशिष्टादधर्मापेक्षात् अतस्मिंस्तदिति ज्ञानं यथा शुक्तिकायां रजतमिति । अनध्यवसायो यथा दाक्षिणात्यस्योष्ट्रदर्शने । तद्दुष्टं ज्ञानम् [वै० सू० ९/२३ ], यदेतत् संशयविपर्ययानध्यवसायस्वप्नलक्षणं तद् दुष्टमप्रमाणमिति । अदुष्टं विद्या [ वै० सू० १३], यददुष्टं प्रत्यक्षानुमानाख्यं तद्विद्येत्युच्यते । आर्ष सिद्धदर्शनं च धर्मेभ्यः [ वै० सू०९/२४ ], तत्र यङ्गिनिरपेक्षमतीतानागतवर्तमानेषु धर्मादिषु अतीन्द्रियेषु ग्रन्थैरनुपात्तेषु देवर्षीणां यत् प्रातिभमुत्पद्यते विज्ञानं लौकिकानां कदाचिदेव 'वो मे भ्राता आगन्ता, हृदयं मे कथयति' इति अनवधारणफलं केवलं तर्केण नीयते तदार्षमित्युच्यते । अञ्जनरसायनादिसिद्धानां तु सूक्ष्मव्यवहित विप्रकृष्टार्थविषयं यद्वा दिव्यान्तरिक्षादिनिमित्तेभ्यः प्राणिनां धर्माधर्मविपाकपरिज्ञानं तत् सिद्धदर्शनम् । तच्च प्रत्यक्षानुमानाभ्यां न भिद्यते, आर्षं भियत इति वर्णयन्ति । तदेतदार्ष सिद्धदर्शनं च विशिष्टाद् धर्मादात्ममनः संयोगाच्चोत्प नवमोऽध्यायः ।
४२
बुद्धिप्रसङ्ग एवं पर्यवसिते सुखदुःखबुद्ध्योरालम्बने सुखदुःखे च कथयति । तथाहि - 'सुखदुःखमोहमयानि भूतानि ' इत्याहुः । तदयुक्तम्, आत्मसमवायः [P. पृ० ३३ 4] सुखदुःखयोः पञ्चभ्योऽर्थान्तरत्वे हेतुस्तदाश्रयिभ्यश्च गुणेभ्यः [वै० सू० ' १०1१], आत्मन्येव यः समवायः सुखदुःखयोरसौ पञ्चभ्यः क्षित्यादिभ्यस्तदाश्रयिभ्यश्च गुणेभ्यो गन्धरसरूपस्पर्शेभ्योऽर्थान्तरत्वे हेतुः, अन्यगुणानामन्यत्रासमवायात् । आत्मसमवाय श्वैतयोरहङ्कारेण एकवाक्यभावात् । आत्मसमवायित्वेऽपि इष्टानिष्टकारणविशेषाद् विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः [वै० सू० १०।२ ], रूयादिकारणजन्यं सुखम् । परस्परविरुद्धे च सुखदुःखे, अन्योन्यविनाशेनोत्पत्तेः । अतोऽनयोर्भेदः, नैकत्वमेकार्थसमवायात् । संशयनिर्णयौ परस्पराभावमात्रम् न वस्तुसन्ताविति चेत्, संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्तरत्वे हेतुः [ वै० सू० १०।३ ], अर्थान्तरात् परस्पर विलक्षणात् कारणाद् भाव उत्पत्तिः संशयनिर्णययोः । तथाहि – विशेषं जिज्ञासोरगृहीतविशेषस्य सामान्यालोचनात् संशयो जायते । संशयात् परतः प्रमाणान्तरेण विशेषग्रहणात् 'स्थाणुरेवायम्' इति निश्चयः । यदि चैतौ न वस्तुसन्तौ भवेतां नैतौ विलक्षणकारणाभ्यामुत्पद्येयाताम् । अतो ज्ञानान्तरभूतौ संशयनिर्णयौ परस्परतः । निर्णयस्तु प्रत्यक्षानुमानाभ्यां न भियत इति केचित् । तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता [ वै० सू० १०१४ ], यथा स्मृतिमत आत्मनः प्रत्यक्षं लिङ्गं दृष्ट्वा अप्रत्यक्षे ज्ञानमुत्पद्यते तथैव सामान्यमात्रदर्शनात् स्मृतिमतो विशेषं जिज्ञासोरगृहीते विशेषे 'स्थाणुः पुरुषो वा' इति जायते संशयः । यथा च भूतार्थसम्बन्धवशेन 'अयमेवंभूतोऽर्थः ' इति प्रत्यक्षमुत्पद्यते तथैव विशेषसम्बन्धवशेन निवृत्ते संशये 'इदमेवंभूतम्' इति निर्णयो जायते । [ P. पृ० ३३ B. ] इदानीं कार्यकारणबुद्धी निरूपयति- भूतमिति प्रत्यक्षं व्याख्यातम् [ वै० सू० १० ५ ], स्वकारणेभ्य उत्पन्ने कार्ये भूतं निष्पन्नमिदं कार्यंमित कार्यज्ञानम्, ‘विशेषणज्ञानाद् विशेष्यज्ञानम्' इति न्यायेन तद् व्याख्यातम्, तच्च मुख्यम्, अन्यत्र त्वौपचारिकं कार्याभावात्, तथाहि — निष्पत्स्यमाने कार्ये भविष्यतीति कार्यान्तरे दृष्टत्वात् [ वै० सू० १०1६ ], यथाभूतायाः सामय्या अनन्तरं पटादि कार्यमुत्पन्नं दृष्टं तथाभूतसामग्रीदर्शनादिदानीमनुत्पन्नेऽपि कार्ये कार्यशब्दमुपचर्य 'भविष्यति कार्यम्' इति जायते कार्यबुद्धिः । निष्पद्यमानेऽपि तथा भवतीति सापेक्षेभ्योऽनपेक्षेभ्यश्च [वै० सू० १०७ ], यदा प्रस्तारितांशून
-
1 तुच्यते – वृ० ।
2 ' तथा स्वस्वान्तिकम्' - वृसू० मध्ये नास्ति । 3 धर्मेभ्यः । नवमोऽध्यायः । —सू० । 4 बुद्धिप्रसंगा गापर्यवसिते सुखदुःखबुद्धयोरालम्बनसुखदुःखे च वृ० 15 सू० मध्ये वृसू० मध्ये च दशमाध्याये आह्निकमेदो नास्ति । 7 भवति-वृसू० । सूत्रमिदं प्रशस्तपादभाष्ये संयोगनिरूपणे उद्धृतम्, व्याख्यातं च तद्
8 प्रस्तारिताः शून्यपूर्वपूर्व–वृ० ।
6 कार्यान्तरदृष्टत्वात् - सू० । योमवत्यां न्यायकन्दल्यां च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org