________________
पृ० ६५ पं० १५. ]
टिप्पणानि ।
४१
पृ० ६४ पं० २२. सङ्घात... “भेद सङ्घाताभ्यां चाक्षुषाः । ५ । २८ । भेदसंघाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते । अचाक्षुषस्तु यथोक्तात् संघाताद् भेदात् संघातभेदाच्चेति । तत्त्वार्थभा० । “ परस्परस्पृष्टगतिर्भावनापचया ध्वनिः । *स्पृष्टग्राह्यश्रुते सम्यगर्थभावोपयोगतः ॥ १९ ॥ ११ ॥ संघातभेदोभयतः परिणामाच्च सम्भवः । बद्धस्पृष्टग ( स ) मयादिस्नेहरौक्ष्यातिशयनात् ॥ १९॥१२ ॥ " - सिद्ध० द्वात्रिं ० ।
पृ० ६५ पं० १ - ४. तत्र प्रतिविविक्त...
......। दृश्यतां पृ० १०९ पं० २५-२८, पृ० ११० पं० ३ । पृ० ६५ पं० ७. रूपधातु । " धातवोऽष्टादश-चक्षुर्धातुः, रूपधातुः, चक्षुर्विज्ञानधातुः, श्रोत्रधातुः, शब्दधातुः, श्रोत्रविज्ञानधातुः प्राणधातुः, गन्धधातुः, घ्राणविज्ञानधातुः, जिह्वाधातुः, रसधातुः, जिह्वाविज्ञानधातुः, कायधातुः, स्प्रष्टव्यधातुः, काय विज्ञानधातुः, मनोधातुः, धर्मधातुः, मनोविज्ञानधातुश्च । [ पृ० १] । धात्वर्थः कतमः ? सर्वधर्मबीजार्थः स्वलक्षणधारणार्थः कार्यकारणभावधारणार्थः सर्वप्रकारधर्मसंग्रहधारणार्थश्च । ” - अभिधर्मसमु० पृ० १८ । ...... । अत्र विषयि इन्द्रियमित्यर्थः । दृश्यतां टिपृ० ४६ पं० २८ ।
1
पृ० ६५ पं० ८. स्वविषय्या.
पृ० ६५ पं० १३. नीलं ...... । दृश्यतां पृ० ६१ पं० १ ।
पृ० ६५ पं० १५. हेतुरपदेशो ...। वैशेषिकसूत्रस्य PÂतौ नवमेऽध्याये आह्निकविभागाभावात् नवमाध्यायस्यै सप्तदशमिदं सूत्रम्, तत्र च ' हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्यनर्थान्तरम्' इति पाठः ।
1 ' तथा ' वृसू० मध्ये नास्ति । 2 सूत्रमिदं नास्ति सू० मध्ये | 3 ० सू० ३ | १८ | दृश्यतां टिपृ० ३२ पं० २१ । नय० टि० ६
१ * * एतच्चिह्नान्तर्गतः पाठो यद्यपि मुद्रितायां द्वात्रिंशिकायां नास्ति तथापि पुण्यपत्तने भाण्डारकर प्राच्यविद्यामन्दिरे [ Bhandarkar Oriental Research Institute, Poona 4 ] विद्यमानायां हस्तलिखितायां विद्यते इति ध्येयम् । २ दृश्यतां टिपृ० ८ पं० २२ । ३P चै० सू० नवमाध्यायस्य चन्द्रानन्दविरचितवृत्तिसहितानि आदितोऽष्टौ सूत्राणि पृ० ४८९ टि० ६ इत्यत्रावलोकनीयानि । नवमं तु सूत्रं सवृत्तिकं पृ० ४६० टि० १ इत्यत्र विलोकनीयम् । अवशिष्टानि सूत्राणि वृत्त्या सह अत्र प्रदर्श्यन्ते - " [P पृ० ३१B] प्रत्यक्ष परोक्ष विषयत्वाद् योगिप्रत्यक्षं प्रत्यक्षानुमानयोर्मध्ये व्याख्यायते - आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् [वै० सू० ९1१० ], आहृत्य विषयेभ्य इन्द्रियाणि तेभ्यश्च मन आत्मन्येव यदा समाधीयते तदा योगजधर्मापेक्षादात्मान्तःकरणसंयोगाद् विशिष्टात् तत्रभवतां स्वस्मिन्नात्मनि ज्ञानं प्रत्यक्षमुत्पद्यते । तेथा द्रव्यान्तरेषु [ वै० सू० ९1११ ], प्रतिषिद्धात्मसंयोगेषु व्यापकद्रव्येषु आत्मना असंयुक्तेषु अपतिषिद्धात्मसंयोगेषु च परमाण्वादिषु उभाभ्यां संयुक्तेषु ज्ञानमुत्पयते । किञ्च, आत्मेन्द्रियमनोर्थसन्निकर्षाच्च [वै० सू० ९।१२], सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु तेषां चतुष्टयसन्निकर्षादपि प्रत्यक्षं जायते । तथास्मदादिप्रत्यक्षेषु । तत्समवायात् कर्मगुणेषु [वै० सू० ९।१३ ], यथा अन्तःकरणसंयोगाद् द्रव्यान्तरेषु ज्ञानमुत्पद्यते तथैव तद्द्रव्यसमवेतेषु कर्मगुणेषु ज्ञानमुत्पद्यते । यथा च चतुष्टयसन्निकर्षात् सूक्ष्मादिष्वस्मत्प्रत्यक्षेषु च ज्ञानं तथैव तत्समवेतेषु गुणकर्मसु ज्ञानमुत्पद्यते संयुक्तसमवायात् । आत्मसमवायादात्मगुणेषु [वै० सू० ९ | १४ ], यथा आत्ममनः संयोगात् स्वस्मिन्नात्मनि ज्ञानं तथैव खात्मसमवेतेषु सुखादिषु ज्ञानमुत्पयते । योगिप्रत्यक्षं व्याख्यायानुमानं व्याचष्टे - अस्येदं कार्य कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् [वै० सू० ९1१५], अस्येदमिति सम्बन्धमात्रं दर्शयित्वा 'कार्य कारणम्' इत्यादिना विशिनष्टि । ‘कार्यकारण’ग्रहणेन समवायिमात्रोपलक्षणाज्जात्यादेरपि ग्रहणम् ; 'सम्बन्धि' शब्देन संयोगिनो ग्रहणं धूमादेः । अन्यद् व्याख्यातं ' संयोग्यादिसूत्रे । [P पृ० ३२ ] तत्र ' एवंविधप्रसिद्धसम्बन्धस्य अथैकदेशमसन्दिग्धं पश्यतः शेषानुव्यवसायो यः स लिङ्गाद्दर्शनात् ( लिङ्गदर्शनात् ? ) सञ्जायमानो लैङ्गिकम्' इति वृत्तिकारः । एतेन शाब्दं व्याख्यातम् [ वै० सू० ९।१६ ], यथा कार्यादिस्मृतिसव्यपेक्षमनुमानं त्रिकालविषयमतीन्द्रियार्थं तथैव शाब्दं सङ्केतस्मृत्यपेक्षं त्रिकालविषयमतीन्द्रियार्थं च । अतोऽनुमानेनैकयोगक्षेमत्वादनुमानमेवेत्युक्तं भवति । कः शब्दोऽर्थस्य चेत्, तदुच्यते - हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्यनर्थान्तरम् [वै० सू० ९1१७], हेत्वादिशब्दैस्तात्पर्येण कारणं कथयति । हेतुरपदेशः कारणमित्यर्थः । एवं शब्दः कारणं सदर्थस्य प्रतिपत्तौ लिङ्गं कुत इति चेत्, अस्येदमिति बुद्ध्यपेक्षत्वात् [ वै० सू० ९1१८ ], यथा 'अर्थ प्रतिपत्तावियं हस्तचेष्टा कारणं प्रतिपत्तव्या' इति वृत्तसङ्केतः तां हस्तचेष्टां दृष्ट्वा ततः शब्दात् कारणात् अर्थं प्रतिपद्यते एवम्
Jain Education International
5
For Private & Personal Use Only
10
www.jainelibrary.org