Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 533
________________ ४० न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [ पृ० ६४ ०१-४ अस्य योगभाष्यस्य तत्त्ववैशारद्यां व्याख्यायाम् “अत्रैव षष्टितन्त्रशास्त्रस्यानुशिष्टिः" इति व्याख्यातवान् वाचस्पतिमिश्रः, ब्रह्मसूत्रशाङ्करभाष्यन्याख्यायां भामत्यां [ २|१|३| ] तु " तस्मात् प्रमाणभूतादपि योगशास्त्रान्न प्रधानादिसिद्धिः । अत एव योगशास्त्रं व्युत्पादयिता आह स्म भगवान् वार्षगण्यः - 'गुणानां परमं रूपं ॥ इति, योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः, न तु भावतः तेषामतात्त्विकत्वादित्यर्थः । अलोकसिद्धानामपि प्रधानादीनामनादिपूर्वपक्ष5 न्यायाभासोटी क्षितानामनुवाद्यत्वमुपपन्नम् ।" इत्यभिहितं तेनैव वाचस्पतिमिश्रेण । प्रमाणसमुच्चयेऽपोहपरिच्छेदे दिङ्गागेनापि उद्धृतेयं कारिका सांख्यमतनिर्देशावसरे । दृश्यतां लघीयस्त्रयस्व ० ५/४१ | न्यायकुमु० पृ० ६२८ । प्रमाणवार्तिकालं० पृ० ४८० | तत्त्वोपप्लव० पृ० ८०। अष्टसहस्री पृ० १४४ | सिद्धिवि० टी० पृ० ७४ B । सांख्यका० जयमं० पृ० ६३। अस्याः कारिकाया विस्तरेणार्थी योगभाव्यव्याख्यादिभ्योऽवगन्तव्यः । पृ० ६४ पं० १-४. रूपादिमविषयता । दृश्यतां पृ० १०८ पं० ५- पृ० १०९ पं० १६ । पृ० ६४ पं० ६. केशोण्डुकादि । "वेशोण्डुकं यथा मिथ्या गृह्यते तैमिरैर्जनैः ।” - लंकावतारसृ० पृ० २७४ | कथमसति अर्थादौ विज्ञानं तदाभासमुत्पद्यते ? न हि पुरुषेऽसति स्थाणुः पुरुषाभासो भवति । नैष दोषः । अर्थाभासं हि विज्ञानम् । बाला विज्ञानात् पृथगर्थास्तित्वमभिनिविशन्ति तैमिरिकस्य केशोण्डुकादिवत् । तस्मात् तदभिनिवेशत्याजनार्थमुच्यते विज्ञानमेवेदमर्थाभासमुत्पद्यते तैमिरिकाणामिव केशोण्डुकाद्याभासं विनापि अर्थसत्वादिना इति ।" - मध्यान्तविभागटी ० पृ० १७–१८। “केशोण्डुका नाम पक्षिणः ये केशमूलान्युत्पाटयन्ति " - शिक्षासमु० पृ० ७० । “यथा चिरकालीनाध्ययनादि15 खिन्नस्योत्थितस्य नीललोहितादिगुणविशिष्टः केशोण्डूकाख्यः कश्चिन्नयना परिस्फुरति, अथवा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डूकः " - शास्त्रदीपिका युक्ति० पृ० ९९| 10 www. पृ० ६४ पं० ९. भ्रान्तिसंवृति | "भ्रान्तिसंवृति ' "प्रत्यक्षाभं सतैमिरम् ॥ द्विविधः प्रत्यक्षाभो विकल्पो विप्लवश्व | पुनश्चतुर्विधः, तदाह — त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्भवम् । अविकल्पकमेकं च प्रत्यक्षाभं चतुर्विधम् । ३ । २८९ ॥ स एव द्विविधो विकल्पस्य त्रिधा भेदाच्चतुर्विधः । कल्पनापोढं प्रत्यक्षम् । ततो विकल्पस्त्रिविधोऽपि प्रत्यक्षाभासः । तत्र 20 भ्रान्तिज्ञानं मृगतृष्णिकादिषु तोयादिकल्पना प्रवृत्तत्वात् प्रत्यक्षाभासम्, संवृतिसत्सु अर्थान्तराध्यारोपात् तद्रूपकल्पनाप्रवृत्त* त्वात्, अनुमानतत्फलादिज्ञानं पूर्वानुभूतकल्पनयेति न प्रत्यक्षम् । प्रभास्वरस्पन्दमानमरीचिनिचयप्रतिभासं प्रत्यक्षमेव । तोयादिकल्पना तु प्रत्यक्षाभासः तोयेऽसाक्षात्करणाकारत्वात् । संवृतिसत्स्वपि रूपादिग्रहणमात्रमेव प्रत्यक्षम् । अवयव तत्समवायिकारणत्वाभिमते न साक्षात्करणम् अर्थान्तरस्य पूर्वदृष्टस्याध्यारोपात् द्रव्यस्य वा पूर्वपूर्वप्रत्ययेन कल्पितस्य, नावयवी रूपादिव्यतिरेकेण क्वचित् प्रत्यक्षे प्रतिभासत इति । अनुमानज्ञानं लिङ्गज्ञानम्, तत्फलं लिङ्गिज्ञानं न पूर्वानुभूति25 मन्तरेण । ” – प्रमाणवार्तिकालं० पृ० ३३२ | " नन्वविकल्पकं प्रत्यक्षम्, ततस्त्रयमपीदं सविकल्पकत्वादेकः प्रत्यक्षाभासः । तत् किं भ्रान्तिज्ञानं मृगतृष्णिकायां जलावसायि, संवृतिसतो द्रव्यादेज्ञनम्, अनुमानं लिङ्गज्ञानम्, आनुमानिकं लिङ्गिज्ञानम्, स्मार्त स्मृतिः, आभिलाषिकं चेति विकल्पप्रभेद आचार्यदिङ्गागेन उक्तः ? इत्याह--अनक्षजत्वसिद्ध्यर्थम् " प्रमाणवा० मनो० पृ० २०५ । “ Therefore in this way I [implicitly ] assume that memory, induction, desire, doubt, confused knowledge etc. perception of water 30 in mirage etc. cannot be called direct perception, since those constructions of thought are present which are the result of previous experiences. " - न्यायमुख. पृ० ५१ । दृश्यतां प्रमाणवा • मनो० टि० पृ० २०५ । तत्त्वसं० पं० पृ० ३९४ | सन्मतिवृ० ५२७ । ·।"— पृ० ६४ पं० १०. सतैमिरम् तैमिरेण द्विचन्द्रादिज्ञानेन सहितं पूर्वोक्तं भ्रान्त्यादिज्ञानं प्रत्यक्षाभासमित्यर्थः । पृ० ६४ पं० १४. नित्यं सम्प्र० । ( चित्तसम्प्र ??? ) । १ "अत्रैव षष्टितन्त्रशास्त्रस्यानुशिष्टिः माया इव, न तु माया, सुतुच्छकं विनाशि । यथा हि माया अह्नायैव अन्यथा भवति एवं विकारा अपि आविर्भावतिरोभावधर्माणः प्रतिक्षणमन्यथा । प्रकृतिर्नित्यतया मायाविधर्मेण परमार्थेति ।”— योगभाष्यतत्त्ववैशा० ४। १३ । २ " योगशास्त्रस्य हैरण्यगर्भपातञ्जलादेः" इति भामत्याम् [२1१1३] अभिहितत्वात् तदानीं हिरण्यगर्भादिरचितान्यपि योगशास्त्राण्यासन् इति भाति । ३ * * एतदन्तर्गतः पाठः दिङ्गागविरचितायां प्रमाणसमुच्चयवृत्तावपि विद्यते । ४ दृश्यतां टिपृ० ३१ टि० १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662