Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 512
________________ पृ० १६ पं० १३.] टिप्पणानि । पुष्पगन्धमेवोपलभामहे । तस्मात् 'अनारब्धे कार्य पुष्पगन्धेन गन्ध आरभ्यते' इत्ययुक्तम् , मन्धान्तरप्रसङ्गात् । एतेनाप्सूष्प्यता व्याख्याता [वै० सू० २।२।२], अपां तेजसा संयोगे सति विलक्षणस्पर्शानुत्पत्तिरौण्याभावस्य लिङ्गम् , [P.पृ० १३ A] अयावद्व्यभावित्वं च सलिले औष्ण्यस्य । सूक्ष्माणां पुष्पावयवामा वस्त्रे तेजोवयवानां चाप्सु सङ्कान्तेः संयुक्तसमवायाद् गन्धस्पर्शोपलब्धिः । न यावद्याबिनो रूपादयः, वस्त्रोदकयोः पुष्पगन्धोष्णस्पशीपलम्भकाले स्वगन्धशीतस्पशोनुपलब्धः, व्यवस्थितः पृथिव्यां गन्धः [ वै० सू० २।२।३], पार्थिवे वाससि व्यवस्थितोऽपि खगन्धः पुष्पगन्धाभिभवानोपलभ्यते। किञ्च, तेजस्युष्णता [वै० सू० २।२।४ ], तेजस्येवोष्णता व्यवस्थिता, नाप्सु संकामति । तथा औष्ण्योपलब्धिकाले अप्सु शीतता [वै० सू० २।२।५], तेजोवयवानुप्रवेशात् संयुक्तसमवायात् उष्णोपलब्धावपि अनुपलभ्यमानापि सलिलशीतता व्यवस्थितैव अभिभवान्नोपलभ्यते । काल इदानीं कथ्यते -अपरस्मिन् परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि [वै० सू० २।२।६], ...... । किञ्च, द्रव्यत्वनित्यत्वे वायुना व्याख्याते [वै० सू० २।२।७], अद्रव्यवत्त्वात् परमाणुवायोरिव द्रव्यत्वनित्यत्वे कालस्य । तत्त्वं भावेन [वै० सू० २।२।८], यथा सलिझाविशेषाद् विशेषलिङ्गाभावाच्चैको भावस्तथा [P.पृ० १३ B] काललिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकः कालः । कालस्यैकत्वे कथमारम्भकालादिव्यपदेश इत्यत्राह-कार्यविशेषेण नानात्वम् [वै० सू० २।२।९], कार्य क्रिया, क्रियाविशेषेण आविष्टस्य वस्तुन आरम्भ-स्थितिविनाशक्रिया दृष्टा एकस्यापि कालस्य नानात्वोपचारादारम्भकालादिव्यपदेशः । ननु क्रियामात्रं कालः, कुतः? काललिङ्गाना नित्येष्वभावादनित्येषु भावात् [वै० सू० २।२।१०, यदि क्रियाव्यतिरिक्तः स्यान्नित्यः कालः एवं नित्येष्वपि आकाशादिषु काललिङ्गानि प्रतिभासेरन् । अनित्येष्वेव तु भवन्ति । तस्मादभिनिर्वर्त्यमानेष्वेवावधिः कालः । तस्मात् क्रियैव काल इति । नैतत्, वस्तुनिवृत्त्युत्तरकालभाबित्वात् काललिङ्गानि अनित्येषु भवन्ति, न तु क्रियायाः कालत्वात् । तेषां तु कारणे कालाख्या [वै० सू० २।२।११], एषां काललिङ्गानां निर्निमित्तानामसम्भवात् । क्रियानिमित्तत्वे 'कृतम्' इति स्यात्, न 'युगपत्' इति । तस्मादेषां यत् कारणं तस्मिन् कालाख्या । इत इदमिति यतस्तदिशो लिङ्गम् [वै० सू० २।२।१२], मूर्तद्रव्यमवधिं कृत्वा यत एतद् भवति 'इदमस्मात् पूर्वेण' इत्यादिप्रत्ययस्वद् दिशो लिङ्गम् । गुणाः संख्या-परिमाण-पृथक्त्व-संयोग-विभागाः। किञ्च, द्रव्यत्वनित्यत्वे वायुना व्याख्याते [वै० सू० २।२।१३ ], अद्रव्यवत्त्वाद् वायुवद् द्रव्यत्वनित्यत्वे दिशः। तत्त्वं भावेन [वै० सू० २।२।१४], दिग्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैका दिगित्यर्थः । सत्येकत्वे कार्यविशेषेण नानात्वम् [वै० सू० २।२।१५], पूर्वेण देवयजनं दक्षिणेन पितृयजनमित्यादिना क्रियाविशेषेण नानात्वस्य दिशः पूर्वदक्षिणादेरुपचारः । इतरेतराश्रयमिति चेत् , एवं तर्हि आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च प्राची [वै० सू० २।२।१६ ], सवितुरहरादौ येन कल्पितदिक्प्रदेशेन संयोगोऽभूद् भवति भविष्यति वा [ P. पृ० १४ A.] तस्मादादित्यसंयोगात् 'प्राची' इति व्यपदेशः, प्राश्चत्यत आदित्यमिति । तथा दक्षिणा प्रतीची उदीची च [वै० सू० २।२।१७], अस्मादेवादित्यसम्प्रयोगाद् दक्षिणादिव्यपदेशः । एतेन दिगन्तराणि व्याख्यातानि [वै० सू० २।२।१८], अनेनैव प्रकारेण ऊर्धादीनि दिगन्तराणि व्याख्यातानि । तत्रेदानीमात्मा करणैरधिगन्तव्यः, करणानि शब्दादिभ्यो गुणेभ्यः । ननु [गुण त्वमसिद्ध शब्दादीनां सिद्धं कृत्वोच्यते । ननु गुणत्वे कुतः संशयः? आह-किं संशयोऽपि हेतुमान् ? एवमेतत् । को हेतुः तदाहसामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः [वै० सू० २।२।१९], स्थाणुपुरुषयोरूर्ध्वतां सामान्य पश्यन् विशेषहेतून् पाण्यादिकोटरादीनपश्यन् स्मरति च विशेषान् , अतः संशयः 'किमयं स्थाणुः पुरुषो नु वा' इति । स द्विविधः-बाह्योऽभ्यन्तरश्च । बाह्योऽपि द्विविधः-प्रत्यक्षोऽप्रत्यक्षश्च । अप्रत्यक्षे तावत् दृष्टमदृष्टम् [वै० सू० २।२।२० ], प्राप्तो मनुष्य इत्युक्ते किमिमं दृष्टं पश्येयमदृष्टमिति श्रवणमात्रादेव संशयः । प्रत्यक्षे तु दृष्टं च दृष्टवत् [वै० सू० २।२।२१], सम्प्रति दृष्ट्वा पुरुषं तमेव दृष्टमालोचयतः किमयं मया दृष्टपूर्वः कदाचिदुतादृष्ट इति संशयः। दृष्टं यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् [वै० सू० २।२।२२], आदौ कुन्तली देवदत्तो दृष्टो मध्ये मुण्डः तृतीयस्यामवस्थायां कुन्तली चतुर्थ्यामालापादिभिरवंगतः, आलापमात्रेण च सन्ध्यादौ 'किमयं कुन्तली स्याद् मुण्डो वा' इति संशयः । पूर्वसूत्रेऽनेकार्थानुस्मृतेः संशयः, अनेन त्वेकार्थे विशेषानुस्मरणात् । अभ्यन्तरस्तु विद्याविद्यातश्च संशयः [वै० सू० २।२।२३], विद्या सम्यग्ज्ञानम् , अविद्या मिथ्याज्ञानम् । दैवज्ञेन शुभमादिष्टं सत्यमभूत् , द्वितीयमसत्यम् , तृतीयस्यामवस्थायां संशयः---[ P. पृ. १४ B] किमाद्यावस्थावत् सत्यमुत द्वितीयावस्थावदसत्यमिति । एवं कथितः संशयः। तत्र शब्द एव तावत् कथ्यताम्-श्रोत्रग्रहणो 1 (ननु न यावद्रव्यभाविनो?)। 2 अस्य सूत्रस्य चन्द्रानन्दविरचिता वृत्तिः पृ० ४५३ टि. २ इत्यत्र अवलोकनीया । 3 पूर्वत्यादि घृ०। 4 पूर्वादीनि-वृ० । (दक्षिणपूर्वादीनि ?)। 5 पुरुषो न वा-वृ०। 6 °वगतो आरूपमात्रेण च-वृ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662