________________
पृ० १६ पं० १३.]
टिप्पणानि ।
पुष्पगन्धमेवोपलभामहे । तस्मात् 'अनारब्धे कार्य पुष्पगन्धेन गन्ध आरभ्यते' इत्ययुक्तम् , मन्धान्तरप्रसङ्गात् । एतेनाप्सूष्प्यता व्याख्याता [वै० सू० २।२।२], अपां तेजसा संयोगे सति विलक्षणस्पर्शानुत्पत्तिरौण्याभावस्य लिङ्गम् , [P.पृ० १३ A] अयावद्व्यभावित्वं च सलिले औष्ण्यस्य । सूक्ष्माणां पुष्पावयवामा वस्त्रे तेजोवयवानां चाप्सु सङ्कान्तेः संयुक्तसमवायाद् गन्धस्पर्शोपलब्धिः । न यावद्याबिनो रूपादयः, वस्त्रोदकयोः पुष्पगन्धोष्णस्पशीपलम्भकाले स्वगन्धशीतस्पशोनुपलब्धः, व्यवस्थितः पृथिव्यां गन्धः [ वै० सू० २।२।३], पार्थिवे वाससि व्यवस्थितोऽपि खगन्धः पुष्पगन्धाभिभवानोपलभ्यते। किञ्च, तेजस्युष्णता [वै० सू० २।२।४ ], तेजस्येवोष्णता व्यवस्थिता, नाप्सु संकामति । तथा औष्ण्योपलब्धिकाले अप्सु शीतता [वै० सू० २।२।५], तेजोवयवानुप्रवेशात् संयुक्तसमवायात् उष्णोपलब्धावपि अनुपलभ्यमानापि सलिलशीतता व्यवस्थितैव अभिभवान्नोपलभ्यते । काल इदानीं कथ्यते -अपरस्मिन् परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि [वै० सू० २।२।६], ...... । किञ्च, द्रव्यत्वनित्यत्वे वायुना व्याख्याते [वै० सू० २।२।७], अद्रव्यवत्त्वात् परमाणुवायोरिव द्रव्यत्वनित्यत्वे कालस्य । तत्त्वं भावेन [वै० सू० २।२।८], यथा सलिझाविशेषाद् विशेषलिङ्गाभावाच्चैको भावस्तथा [P.पृ० १३ B] काललिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकः कालः । कालस्यैकत्वे कथमारम्भकालादिव्यपदेश इत्यत्राह-कार्यविशेषेण नानात्वम् [वै० सू० २।२।९], कार्य क्रिया, क्रियाविशेषेण आविष्टस्य वस्तुन आरम्भ-स्थितिविनाशक्रिया दृष्टा एकस्यापि कालस्य नानात्वोपचारादारम्भकालादिव्यपदेशः । ननु क्रियामात्रं कालः, कुतः? काललिङ्गाना नित्येष्वभावादनित्येषु भावात् [वै० सू० २।२।१०, यदि क्रियाव्यतिरिक्तः स्यान्नित्यः कालः एवं नित्येष्वपि आकाशादिषु काललिङ्गानि प्रतिभासेरन् । अनित्येष्वेव तु भवन्ति । तस्मादभिनिर्वर्त्यमानेष्वेवावधिः कालः । तस्मात् क्रियैव काल इति । नैतत्, वस्तुनिवृत्त्युत्तरकालभाबित्वात् काललिङ्गानि अनित्येषु भवन्ति, न तु क्रियायाः कालत्वात् । तेषां तु कारणे कालाख्या [वै० सू० २।२।११], एषां काललिङ्गानां निर्निमित्तानामसम्भवात् । क्रियानिमित्तत्वे 'कृतम्' इति स्यात्, न 'युगपत्' इति । तस्मादेषां यत् कारणं तस्मिन् कालाख्या । इत इदमिति यतस्तदिशो लिङ्गम् [वै० सू० २।२।१२], मूर्तद्रव्यमवधिं कृत्वा यत एतद् भवति 'इदमस्मात् पूर्वेण' इत्यादिप्रत्ययस्वद् दिशो लिङ्गम् । गुणाः संख्या-परिमाण-पृथक्त्व-संयोग-विभागाः। किञ्च, द्रव्यत्वनित्यत्वे वायुना व्याख्याते [वै० सू० २।२।१३ ], अद्रव्यवत्त्वाद् वायुवद् द्रव्यत्वनित्यत्वे दिशः। तत्त्वं भावेन [वै० सू० २।२।१४], दिग्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैका दिगित्यर्थः । सत्येकत्वे कार्यविशेषेण नानात्वम् [वै० सू० २।२।१५], पूर्वेण देवयजनं दक्षिणेन पितृयजनमित्यादिना क्रियाविशेषेण नानात्वस्य दिशः पूर्वदक्षिणादेरुपचारः । इतरेतराश्रयमिति चेत् , एवं तर्हि आदित्यसंयोगाद् भूतपूर्वाद् भविष्यतो भूताच्च प्राची [वै० सू० २।२।१६ ], सवितुरहरादौ येन कल्पितदिक्प्रदेशेन संयोगोऽभूद् भवति भविष्यति वा [ P. पृ० १४ A.] तस्मादादित्यसंयोगात् 'प्राची' इति व्यपदेशः, प्राश्चत्यत आदित्यमिति । तथा दक्षिणा प्रतीची उदीची च [वै० सू० २।२।१७], अस्मादेवादित्यसम्प्रयोगाद् दक्षिणादिव्यपदेशः । एतेन दिगन्तराणि व्याख्यातानि [वै० सू० २।२।१८], अनेनैव प्रकारेण ऊर्धादीनि दिगन्तराणि व्याख्यातानि । तत्रेदानीमात्मा करणैरधिगन्तव्यः, करणानि शब्दादिभ्यो गुणेभ्यः । ननु [गुण त्वमसिद्ध शब्दादीनां सिद्धं कृत्वोच्यते । ननु गुणत्वे कुतः संशयः? आह-किं संशयोऽपि हेतुमान् ? एवमेतत् । को हेतुः तदाहसामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः [वै० सू० २।२।१९], स्थाणुपुरुषयोरूर्ध्वतां सामान्य पश्यन् विशेषहेतून् पाण्यादिकोटरादीनपश्यन् स्मरति च विशेषान् , अतः संशयः 'किमयं स्थाणुः पुरुषो नु वा' इति । स द्विविधः-बाह्योऽभ्यन्तरश्च । बाह्योऽपि द्विविधः-प्रत्यक्षोऽप्रत्यक्षश्च । अप्रत्यक्षे तावत् दृष्टमदृष्टम् [वै० सू० २।२।२० ], प्राप्तो मनुष्य इत्युक्ते किमिमं दृष्टं पश्येयमदृष्टमिति श्रवणमात्रादेव संशयः । प्रत्यक्षे तु दृष्टं च दृष्टवत् [वै० सू० २।२।२१], सम्प्रति दृष्ट्वा पुरुषं तमेव दृष्टमालोचयतः किमयं मया दृष्टपूर्वः कदाचिदुतादृष्ट इति संशयः। दृष्टं यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् [वै० सू० २।२।२२], आदौ कुन्तली देवदत्तो दृष्टो मध्ये मुण्डः तृतीयस्यामवस्थायां कुन्तली चतुर्थ्यामालापादिभिरवंगतः, आलापमात्रेण च सन्ध्यादौ 'किमयं कुन्तली स्याद् मुण्डो वा' इति संशयः । पूर्वसूत्रेऽनेकार्थानुस्मृतेः संशयः, अनेन त्वेकार्थे विशेषानुस्मरणात् । अभ्यन्तरस्तु विद्याविद्यातश्च संशयः [वै० सू० २।२।२३], विद्या सम्यग्ज्ञानम् , अविद्या मिथ्याज्ञानम् । दैवज्ञेन शुभमादिष्टं सत्यमभूत् , द्वितीयमसत्यम् , तृतीयस्यामवस्थायां संशयः---[ P. पृ. १४ B] किमाद्यावस्थावत् सत्यमुत द्वितीयावस्थावदसत्यमिति । एवं कथितः संशयः। तत्र शब्द एव तावत् कथ्यताम्-श्रोत्रग्रहणो
1 (ननु न यावद्रव्यभाविनो?)। 2 अस्य सूत्रस्य चन्द्रानन्दविरचिता वृत्तिः पृ० ४५३ टि. २ इत्यत्र अवलोकनीया । 3 पूर्वत्यादि घृ०। 4 पूर्वादीनि-वृ० । (दक्षिणपूर्वादीनि ?)। 5 पुरुषो न वा-वृ०। 6 °वगतो आरूपमात्रेण च-वृ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org