________________
न्यायागमानुसारिणीवृत्त्यलकृतस्य नयचक्रस्य [पृ० १६६०१४-१५पृ० १६६० १४-१५. शब्दस्पर्श । सांख्यमतमिदम् । कक्खटलक्षणा वेति बौद्धमते । एवं घटोऽपीत्यादि मतत्रयं यथाक्रमं वैशेषिक-सांख्य-बौद्धानामिति ज्ञेयम्।
पृ० १७ पं० १. अनेकप्रभेदो। दृश्यतां पृ० २७ पं० १४ ।
पृ० १७ पं० ५-६. परिणामवती । “कलणं पजायाणं कलिज्जए तेण वा जझो वत्थु । कलयंति तयं तम्मि व 5 समयाइकलासमूहो वा ॥ २०२८ ॥..... सूरकिरियाविसिहो गोदोहादिकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयखित्तम्मि समयाइ ॥ २०३५ ॥ सो वत्तणाइस्वो कालो दव्वस्स चेव पज्जाओ । किंचिम्मेत्तविसेसेण दव्वकालाइववएसो ॥२०३६॥"-विशेषाव. भा० । व्याख्यानं त्वस्य कोट्टार्यादिविरचितटीकाभ्योऽवगन्तव्यम् । दृश्यतां तत्त्वार्थराजवा० ४।१४, ५।२२। दृश्यतां टिपृ० १९५० १३ । योऽर्थः स शब्दः [वै० सू० २।२।२४ ], श्रोत्रेण यो गृह्यतेऽर्थः स शब्दः । श्रोत्रेण यो गृह्यते सामान्यादीनामर्थशब्दस्यासङ्केतितत्वाच्छब्दत्वं शब्दो मा भूदित्यर्थग्रहणम् । तस्मिन् द्रव्यं कर्म गुण इति संशयः [वै० सू० २।२।२५], साधारणरूपत्वाद् द्रव्यादित्वेन शब्दे संशयः । तदाह-तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्योभयथादृष्टत्वात् [वै० सू० २।२।२६], पृथिवीत्वं सजातीयात् सलिलादेः पृथिव्या विशेषो दृष्टः असजातीयाभ्यां [च गुणकर्मभ्याम् ], ततः शब्देऽपि किमयं श्रोत्रग्राह्यत्वं विशेषो गुणैस्तुल्यस्यार्थान्तरभूतस्य वेति संशयः, नैतत् , एकद्रव्यवत्त्वान्न द्रव्यम् [वै० सू० २।२।२६], एकस्मिन् द्रव्ये आकाशे वर्तमानत्वान्न द्रव्यमयं शब्दः, द्रव्यं ह्यद्रव्यं परमाण्वादि अनेकद्रव्यं वा घटादि । अचाक्षुषत्वाच्च न कर्म [वै० सू० २।२।२७], द्रव्यं कर्म वा यदिन्द्रियान्तरप्रत्यक्षं तच्चाक्षुषमपि दृष्टम् , अयं तु शब्दः श्रोत्रप्रत्यक्षोऽपि सन्न चाक्षुषः । एवं स्थितो गुणः । किन्तु गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् [वै० सू० २।२।२८ ], कर्मभिरस्य पुनर्गुणभूतस्यापि साधर्म्यमपवर्गो विनाशः, उत्पत्त्यनन्तरमग्रहणाद् विनाशोऽनुमीयते । सतोऽपि निमित्तादग्रहणमिति चेत् , न, सतो लिङ्गाभावात् [वै० सू० २।२।२९ ], यत् सदपि निमित्तान्न गृह्यते तस्य लिङ्गं सद्भावग्राहकं भवति, शब्दस्य तूच्चारणादूर्ध्वं संयोग्यादेर्लिङ्गस्याभावादसत्तेव । किञ्च, नित्यवैधात् [वै० सू० २।२।३० ], उच्चरितप्रध्वंसो नित्यैर्वधर्म्यम् , तस्मादनित्यः । किञ्च, कार्यत्वात् [वै० सू० २।२।३१], कार्यश्च शब्दः संयोगादिभ्य उत्पत्तेः । तस्मादनित्यः । किध, अभावात् [वै० सू० २।२।३२], प्रागभावादित्यर्थः । प्रागभाववतो विनाशात् । प्रागभावश्चास्य कारणेभ्य उत्पत्तेः । न च [P. पृ० १५ A] तानि व्यञ्जकानि, कुतः ? कारणतो विकारात् [वै० सू० २।२।३३ ], यस्माद् भेर्यादिकारणेभ्यः शब्दस्य विकारोऽवगम्यते, महति भेर्यादौ महान् अल्पेऽल्पः । अभिव्यक्तौ तु दोषात् [वै० सू० २।२।३४], नित्यत्वेनाभिव्यक्तौ शब्दोऽन्येन यज्ञे प्रयुक्तो नान्येन प्रयुज्यत दर्भादिवद् यातयामत्वादिदोषात् । तस्मादनित्यः । कुतः कार्यत्वम् ? इत्याहसंयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तेः [वै० सू० २।२।३५], मेरीदण्डसंयोगाद् वस्त्रदलविभागाच्छब्दाच्च शब्दस्य वीचिसन्तानवन्निष्पत्तर्मन्यामहे - कार्यः शब्द इति । लिङ्गाच्चानित्यः [वै० सू० २।२।३६ ], 'तेभ्यस्त्रय(यो ?) वेदा अजायन्त' इति वचनाद् वैदिकाल्लिङ्गादनित्यः । ननु नित्यः शब्दः, द्वयोस्तु प्रवृत्त्योरभावात् [वै० सू० २।२।३७], कार्याणां हि भावानां द्वे प्रवृत्ती- ऐका निर्वृत्तिः, अन्या कार्यविनियोगरूपा । शब्दस्य पुनरर्थप्रतिपत्त्यथैव प्रवृत्तिरुच्चारणाख्या, नात्मार्था, तस्मान्नित्यः । संख्याभावात् [वै० सू० २।२।३८ ], उच्चरितप्रध्वंसित्वे शब्दस्य 'द्विरयमानातः' इति विनष्टत्वात् *संख्याभ्यावृत्तिन भवेत् , अस्ति च, तस्मानित्यः। प्रथमाशब्दात् [वै० सू० २।२।३९], प्रथमाशब्दादिति 'त्रिः प्रथमामन्वाह'
रितविनाशित्वे शब्दस्य प्रथमाया ऋचोऽभ्याबृत्तिगणनं न स्यात् , अस्ति च, तस्मान्नित्यः। संम्प्रतिपत्ति भावाश्च [ वै० सू० २।२।४० ], विनाशित्वे शब्दस्य [स] एवायं गोशब्दः' इति सम्प्रतिपत्तिः प्रत्यभिज्ञा न स्यात् , तस्मान्नित्यः । नैतत् सारम् , सन्दिग्धाः सति बहुत्वे [ वै० सू० २।२।४१], प्रदीपादावद्विप्रवृत्तत्वं दृष्टम् , द्विर्विद्युन्निःसृतेति संख्याभावः, सम्प्रतिपत्तिोलादौ । तस्मादनित्येष्वपि भावाद् बहवोऽप्यमी हेतवः संशयिताः । तस्मादनित्यः । संख्याभाव: सामान्यतः [वै. सू० २।२।४२], प्रथमाशब्दः सम्प्रतिपत्तिभावश्चेति सादृश्यादेते द्रष्टव्याः । इति द्वितीयोऽध्यायः ।"वै० सू०चन्द्रा०P. पृ. १०-१५ । दृश्यतां टिपृ.८ पं० २२ । ____1 अत्र सू० पाठानुसारेण 'अचाक्षुषत्वान्न ।२।२।२७। प्रत्यक्षस्य गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् ।।२८' इति सूत्रद्वयमभिमतम् । वृसू०पाठानुसारेण तु अचाक्षुषत्वाञ्च न कर्म २।२।२७। गुणस्य सतोऽपवर्गः कर्मभिः साधम इति पाठोऽभिप्रेतः । नयचक्रवृत्तौ तु [पृ० ८७ पं० १४. पृ० ५५ पं० ११. इत्यत्र ] 'अचाक्षुषप्रत्यक्षस्य गुणस्य सतोऽपवर्गः कर्ममिः साधर्म्यम्' इति पाठ इष्ट इति ध्येयम् । 2 °च्छब्दाच्च निष्पत्तेः-वृसू० । 3 एका निवृत्तिः-वृ०। (एका आत्ममि वृत्तिः १)। 4 संख्याथावृत्तिन-वृ० । 5 (वृत्तिर्गणनं १)।6 सम्प्रतिपत्तिभावाच्च । द्वितीयोऽध्यायः ।-सू०17 सूत्रमिदं नास्ति सू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org