________________
पृ० २१ पं० २२.]
टिप्पणानि। पृ० १७ पं० ८. पृथिवीवीहिकणौदना । अत्र सर्वासु हस्तलिखितप्रतिषु 'पृथिवीव्रीहिनरौदनादिवत्' इति पाठ उपलभ्यते। (व्रीहिनालौदना ? वीहितुषौदना ? 'बीह्यङ्कुरौदना ? 'व्रीहितण्डुलौदना ?) इत्यादयः सम्भवन्तः पाठा अपि अत्र चिन्त्याः ।
पृ० १७ पं० ९. धर्माधर्माः। दृश्यतां टिपृ० ४ पं० १७ ।
पृ० १७५० १२. आदानीयालयो....| "गर्भाधानादि ये मासास्ते च मासा अवधारिणः। विपाचनत्रयश्चापि । त्रयः कालाभिवर्षणाः ॥ १२१७ ॥"-भद्रबाहुसं० ।
पृ० १७ पं० १४. इदान्याः पूर्व उत्तरः......। अत्र 'आदानीयाः पूर्व उत्तरः' इति पाठश्चेत् सम्भवेत् तदा समीचीनम् । “आदानाच्चैव पातोच्च पत(च)नाच विसर्जनात् । मारुतः सर्वगर्भाणां बलवानायकः स्मृतः ॥ ९॥३॥..... पूर्वो वातः स्मृतः श्रेष्ठः तथा चाप्युत्तरो भवेत् । उत्तमस्तु तथैशानो मध्यमस्त्वपरोत्तरः ॥ ९॥२८॥.....'पूर्वामुदीचीमैशानी ये गर्भा दिशमाश्रिताः । ते सस्यवन्तस्तोयाढ्यास्ते गर्भास्तु सुपूजिताः ॥ १२॥१९॥..... मारुतप्रभवा गर्भा धूयन्ते मारुतेन च । 10 वातो वर्षे तु गर्भाश्च करोत्यपकरोति च ॥ १२॥२२ ॥”–भद्रबाहुसं० ।
पृ० १७ पं० १५. धूमज्योतिः......। तुलना-“धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः.....॥ ५॥" इति मेघदूते ।
पृ० १७ पं० १६. देववैक्रियादेरपि । (देवविक्रियादेरपि?)।
पृ० १७ पं० २२. गुण । “गुणपर्यायवद् द्रव्यम् ॥५॥३७॥ गुणान् लक्षणतो वक्ष्यामः । भावान्तरं संज्ञान्तरं च 16 पर्यायः । तदुभयं यत्र विद्यते तद् द्रव्यम् । गुणपर्याया अस्य सन्ति अस्मिन् वा सन्तीति गुणपर्यायवत् ।"-तत्त्वार्थभा० ५।३७ ।
पृ० १७ पं० २३. क्षेत्रकालौ । दृश्यतां टिपृ० २० पं० ४। पृ० १८ पं० ३. अत एतानि । दृश्यतां पृ० २७ पं० ८-१०। पृ० १८ पं० ८. आवीतेनाह । दृश्यतां पृ० ३१४ पं० १ टि० २, पृ० ३१३ टि० ७ ।
पृ० १८ पं० १६. साङ्ख्यादिषु सादृश्या। अत्र साङ्ख्यादीष्टसादृश्या इति भा० प्रत्यनुसारी शोभन: 20 पाठः । सादृश्यं सांख्यानाम् , अन्यापोहो बौद्धानाम् , तत्त्वं वैशेषिकाणां मते इति ध्येयम् ।
पृ० १८ पं० २२. यद् भवन्ति । "सिद्धं तु, यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ । यद्वा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भावः, तदभिधाने।" इति पाणिनीयव्याकरणवार्तिके ५। १।११९ ।
पृ० १९ पं० ७, ९, ११. विशिष्यते । अत्र सर्वत्र विशेष्यते' इति शुद्धः पाठः ।
पृ० २१ पं० २२. सामयिकः.....। वैशेषिकसूत्रे सप्तमाध्याये द्वितीयाह्निके २४ तम' सूत्रमिदम् । दृश्यतां टिपृ० 25 ८पं० २२ । तुलना-"शब्दार्थव्यवस्थानादप्रतिषेधः।२।।५४ शब्दादथै सम्प्रत्ययस्य व्यवस्थादर्शनादनुमीयते शब्दार्थ
१ मुद्रितभद्रबाहुसंहिताया अतीवाशुद्धत्वाद् 'गर्भाधानास्त्रयो मासास्त्रयो मासाश्च धारिणः । विपाचनास्त्रयश्चापि त्रयः कालाभिवर्षणाः ॥' इत्यपि पाठः स्यादिति संभाव्यते । २(धानाच्च?)। ३'ध्रियते' इति पाठान्तरम् । (ध्रियन्ते)।४"व्यवहारनयसमाश्रयणेन तु 'गुणाः' 'पर्यायाः' इति वा भेदेन व्यवहारः प्रवचने, युगपदवस्थायिनो गुणा रूपादयः, अयुगपदवस्थायिनः पर्यायाः। वस्तुतः पर्याया गुणा इत्यैकात्म्यम् ।"-तत्त्वार्थभाष्यसिद्धसेनवृ० ५।३४ दृश्यता तत्त्वार्थराजवा० ५।३७। सन्मति. ३१८-१५। ५ “परिमाणमिदानीं वक्ष्यामः-अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते [ वै० सू० ७।१।१५'], 'नित्ये' इत्यध्यायनाम, 'यदुपलभ्यते तत्रावश्यं महत्त्वम् , अणुत्वे तु परमाणुद्वयणुकमनसा मनुपलब्धिः ' एवं नित्याख्येऽध्याये उपलब्ध्यनुपलब्ध्योः कारणे महत्त्वाणुत्वे कथिते भवतः, उपलब्धौ महत्त्वस्य नियमात् । ज्यणुकस्य महत्त्वेऽप्यनुपलब्धिः, कारणबहुत्वात् कारणमहत्त्वात् प्रचयविशेषाञ्च महत् [वै० सू० ७१।१६], ज्यणुके तत्कारणव्यणुकगता बहुत्वसंख्या महत्त्वं जनयति कारणानाममहत्त्वात् । यमुले कारणाङ्गुलिमहत्त्वं महत्त्वं करोति । प्रशिथिलः संयोगः प्रचयः। द्वितूलके तूलपिण्डयोर्वर्तमानः प्रचयः स्वाधारावयवप्रशिथिलसंयोगापेक्षो महत्त्वमारभते। तद्विपरीतमण [वै० सू० ११११७],
1 इतः पूर्व चन्द्रानन्दीयवृत्तिसहितानि चतुर्दश सूत्राणि पृ० ४५२ टि० ८ इत्यत्र विलोकनीयानि। 2 त्र्यणुकेन तत्कारण-वृ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org