________________
न्यायागमानुसारिणीवृत्त्यलकृतस्य नयचक्रस्य
[पृ० २१ पं० २२
सम्बन्धो व्यवस्थाकारणम् । असम्बन्धे हि शब्दमात्रादर्थमात्रे प्रत्ययप्रसङ्गः । तस्मादप्रतिषेधः सम्बन्धस्येति । अत्र समाधिः-. सामयिकत्वाच्छब्दादर्थे प्रत्ययस्य ।२।१५५॥ न सम्बन्धकारितं शब्दार्थव्यवस्थानम् । किं तर्हि ? समयकारितम् । यत् तदवोचाम 'अस्येदम्' इति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽनुज्ञातः शब्दार्थसम्बन्ध इति समय तमवोचाम इति । का पुनस्यं समयः? अस्य शब्दस्येदमर्थजातमभिधेयमिति अभिधानामिष्यनियमनियोगः । तस्मिन्नुपयुक्ते शब्दादर्थे प्रत्ययो 5 भवतीति । विपर्यये हि शब्दश्रवणेऽपि प्रत्ययाभावः । सम्बन्धवादिनोऽपि चायमवर्जनीय इति-न्यायभा० ।
एतस्मात् त्रिकारणाद् महतो यद् विपरीतं द्वयणुकपरिमाणं तदणु प्रत्येतव्यम् । अणु महदिति तस्मिन् 'विशेषभावाद् विशेषाभावाच्च [वै० सू० ७।१।१८], तस्मिन् महति वस्तुनि कुवलादावामलकापेक्षया अणुब्यवहारः, आमलके तु बिल्वापेक्षया। एवं प्रकर्षस्य भावाभावाभ्यामेकस्मिन्नेव अणुमहद्वयवहारो भाक्तः । कुतः? एककालत्वात् [वै० सू०७।१।१९], यत एकस्मिन्नेव वस्तुनि अन्यापेक्षया द्वौ पुरुषावणुमहद्वयबहार विरुद्धं कुर्वाते अतो जानीमहे 'भाक्तोऽयम्' इति । तत्रापेक्षिकाणुवस्तुनि दृष्टान्ताच्च [वै. सू. ७।१।२०], यथा शुलतन्तुजनिते कार्ये शुक्लतैव, न कृष्णता, एवमतो दृष्टान्ताद् महद्भिरारब्धे महत्त्वमेव, नाणुत्वम् । [P पृ० २६B] अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैाख्यातः [वै० सू० ७१।२१], यथा गुणकर्माणि निर्गुणानि कार्यस्य रूपादेवयवगुणैरेकार्थसमवायाभावात् एवं कारणबहत्वादिभिरेकार्थसमवायाभावादणुत्वमहत्त्वयोस्तदभावः । अणुत्तमहत्त्वाभ्यां कर्मगुणा अगुणाः [वै० सू० ७।१।२२ ], कारणबहुत्वादिभिरेकार्थसमवायाभावादणुत्वमहत्त्वे यथा अणुत्वमहत्त्वशून्ये एवं कर्मगुणा अणुत्वमहत्त्वशून्याः। एतेन दीर्घत्वहस्वत्वे व्याख्याते [वै० सू० ७१।२३], उपलब्ध्यनुपलब्धी महत्त्वाणुत्ववत्, कारणमहत्त्वादिभ्यश्च जायते दीर्घत्वम् , विपरीतं ह्रस्वत्वम् विशेषभावादित्वौ (त्यौ ?)पचारिकत्वम् । तथैव तयोर्दीर्घत्वह्रखत्वाभाव इत्या[त्य?]तिदेशः। कर्मभिः कर्माणि गुणैर्गुणाः [वै० सू० ७।१।२४ ], यथा कारणबहुत्वाद्येकार्थसमवायाभावादणुत्वमहत्त्वशून्या एवं दीर्घत्वह्रखत्वशून्या एते कर्मगुणाः । [ए?]
त्यम् [वै० सू० ७।१।२५] एतच्चतुर्विधं परिमाणमनित्ये वर्तमानत्वादनित्यम् ।..."तभावादणु मनः [ वै० सू० ७।१।३० ], विभवस्याभावाद् मनसोऽणत्वं ज्ञानायौगपद्याच्च । गुणैर्दिर व्याख्याता [ वै० सू० ७।१।३१], यत्र यत्रावधिं करोति तत्र तत्र 'इदमस्मात् पूर्वेण' इत्यादिव्यवहारो मूर्तेषु प्रवर्तते, अतो मूर्तसंयोगाख्यगुणैर्दिग व्याख्याता महत्त्ववती। तथा [P पृ०२७A ] कारणेनं कालः [वै० सू० ॥१॥३२] इति, येन कारणेन परापरव्यतिकरादिना कालोऽनुमीयते तस्य सर्वत्र भावात् तेनैव कारणेन कालो विभुयाख्यातः । सप्तमस्याद्यमाह्निकम् ।
___ रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् । तयोर्नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते। निष्पत्तिश्च। एकत्वपृथक्त्वयोरेकत्वपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः [वै० सू० ७।२।१-४], एकत्वैकपृथक्त्वयोरवयवगुणैकार्थसमवायाभावाद् नैकत्वपृथक्त्वे स्त इत्यर्थः। कर्मभिः कर्माणि गुणैर्गुणाः [वै० सू० ७॥२।५], तथैवावयवगुणैकार्थसमवायाभावात् कर्मगुणा नैकत्वपृथक्त्ववन्तः। ननु सर्वेषामेव पदार्थानामेकत्वं सदविशेषात् , निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते [वै० सू० ७॥२।६ ], कर्मणां गुणानां च [P पृ०२७B] संख्यारहितत्वात् सवैकत्वं नास्ति । भाक्तमेकत्वं गुणादिष्विति चेत्, एकत्वस्याभावाद् भाक्तं न विद्यते [वै० सू० ७२।७], मुख्यस्य एकत्वस्याभावाद् गुणादिषु भाक्तमित्यत एतीप्रसंगात् (भाक्तमिति न, अतिप्रसङ्गात् ?) । ननु कार्यकारणयोरेकत्वं प्राप्तं द्रव्ये संख्यानिर्विशेषात् एकत्वभावादेव पृथग्भावः स्यात् , मैतत् , कार्यकारणैकत्वपृथक्त्वाभावादेकत्वपृथक्त्वे न विद्यते [वै० सू० ७।२।८ ], द्वित्वात् कार्यकारणयोनैकत्वं कार्यस्य कारणव्यतिरिक्ताश्रयाभावाद् नापि पृथक्त्वम् । एतदनित्ययो
ाख्यातम् [वै० सू० ७२।९], एतत् पूर्वसूत्रमनित्यविषयमपि "नित्येष्वप्याकाशादिषु यथासंभवं व्याख्यातं बोद्धव्यम् । तथाहि - शब्दाकाशयोः कार्यकारणयोरेकत्वं [न ], नापि पृथक्त्वम् । अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । एतेन विभागो व्याख्यातः । संयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां
1 विशेषाभावाच्च-सू०। विशेषाभावाद् विशेषाभावाच्च-सू०। 2 °भ्यामेतस्मिन्नेव-वृ०। 3 वै० सू०७।१।१८। 4 तदनिसे ऽनित्यम् - सू० । अनित्ये-वृसू०। 5 परिमाणं नित्ये निवर्तमानत्वादनित्यम्-वृ०। 6 इतः परं चन्द्रानन्दीयवृत्तिसहितानि चत्वारि सूत्राणि पृ० ४४६ टि. १ इत्यत्र द्रष्टव्यानि । 7 गुणैर्व्याख्याताः-सू० । 8 कारणेन कालः ॥ सप्तमस्य प्रथममाह्निकम्-सू०। 9 येन कालेन परापर-वृ०। 10 एतत्सूत्रत्रयस्य चन्द्रानन्दविरचिता वृत्तिः पृ० ४५३ टि. ४ इत्यत्रावलोकनीया। 11 निवृत्तिश्च-वृ०॥ 12 सूत्रमिदं नास्ति वृसू०। (एकत्वैकपृथक्त्वयो ?)। 13 एकस्याभावाद्-सू०। 14 व्ये-वृ०।15 °कत्वापृथ-वृसू० । 16 तदनि -वृसू०। 17 नित्येष्वत्याकाशादिषु-वृ०। 18 एतत्सूत्रपञ्चकस्य चन्द्रानन्दकृता वृत्तिः पृ० ५१६ टि० ४ इत्यत्र द्रष्टव्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org