________________
पृ० २२ पं० ६.]
टिप्पणानि । पृ० २१ पं० १३. वृद्धव्यवहारं । अयं वृद्धव्यवहारो न्यायवार्तिकतात्पर्यटीका[२॥१॥५५]प्रभृतिभ्योऽवसेयः । पृ० २१ पं० १६. संज्ञाकर्म: । दृश्यतां टिपृ० ८ पं० २२ । दृश्यता टिपृ० १८ पं० ८।
पृ० २१ पं०२२-२४.न हि तदेव नित्यं ।"किं पुनराकृतिः पदार्थ आहोस्विद् द्रव्यम् ? उभयमित्याह । ......... किं पुनर्नित्यः शब्द आहोस्वित् कार्यः? संग्रहे एतत् प्राधान्येन परीक्षितं नित्यो वा स्यात् कार्यों वेति । तत्रोक्ता दोषाः प्रयोजनान्यपि उक्तानि । तत्र त्वेष निर्णयो यद्येव नित्योऽथापि कार्य उभयथापि लक्षणं प्रवर्त्यमिति । कथं पुनरिह भगवतः पाणि-5 नेराचार्यस्य लक्षणं प्रवृत्तम् ? सिद्धे शब्दार्थसम्बन्धे । सिद्धे शब्देऽर्थे सम्बन्धे चेति । अथ सिद्धशब्दस्य कः पदार्थः ? नित्यपर्यायवाची सिद्धशब्दः ।..... माङ्गलिक आचार्यों महतः शास्त्रौघस्य मङ्गलार्थ सिद्धशब्दमादितः प्रयुड़े । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि चाध्येतारश्च सिद्धार्था यथा स्युरिति । ..... अथ कं पुनः पदार्थ मत्वैष विग्रहः क्रियते सिद्धे शब्देऽर्थे सम्बन्धे चेति ? आकृतिमित्याह । कुत एतत् ? आकृतिहि नित्या द्रव्यमनित्यम् ।... ननु चोक्तमाकृतिरनित्येति । नैतदस्ति । नित्या आकृतिः। कथम् ? न क्वचिदुपरतेति कृत्वा सर्वतोपरता भवति द्रव्यान्तरस्था 10 तूपलभ्यते । अथवा नेदमेव नित्यलक्षणम्-ध्रुवं कूटस्थमविचाल्यनपायोपजनविकार्यनुत्पत्त्यवृद्धयव्यययोगि यत् तद् नित्यमिति । तदपि नित्यं यस्मिंस्तत्त्वं न विहन्यते । किं पुनस्तत्त्वम् ? तद्भावस्तत्त्वम् । आकृतावपि तत्त्वं न विहन्यते ।" इति पातञ्जलमहाभाष्ये पाठः।
पृ० २१ पं० २४. प्रतिपादनप्रत्याख्याना । दृश्यतां पृ० २४३ पं०११। पृ० २२ पं० ६. तथा विशेषोऽपि......."दनात्मत्वं [पृ० २३ पं० ५] । दृश्यतां पृ० ३२ पं० १२-१६ । 15
wwwm
व्याख्यातः । कर्मभिः कर्माणि गुणैर्गुणाः । युतसिद्धयभावात् कार्यकारणयोः संयोगविभागौ न विद्यते [वै० सू० ७॥२॥१०-१४ ] । [P पृ० २८ A] शब्दस्यार्थेन सम्बन्ध इति चेत् , न, गुणत्वात् [वै० सू० ७१२।१५], आकाशस्य गुणत्वाच्छब्दो नार्थेन सम्बध्यते । गुणे च भाष्यते [वै० सू० ७॥२।१६ ], गुणे च रूपं रस इत्यादिषु प्रयुज्यते क्रियायां च, न च गुणकर्मणां गुणैः सम्बन्धः । निष्क्रियत्वात् [वै० सू० ७।२।१७], अर्थसंयोगे सति शब्दोऽर्थ प्राप्नुयात् , निष्क्रियत्वाच्च गुणस्य गमनाभावः । असति नास्तीति च प्रयोगात् [वै० सू० ७॥२।१८ ], अर्थसंयोगे सति शब्दः असति अभावे 'मास्ति' इति न प्रयुज्येत । न ह्यसता संयोगः । तस्मात् संयोगस्याभावात् शब्दाथावसम्बद्धी[वै० सू० १२।१९] । ननु च संयोगिनो दण्डात समवायिनो विषाणाच [ वै० सू० ७२।२०], संयोगिसमवायिभ्यां दण्डविषाणाभ्यां दण्डिविषाणिनोः प्रत्ययो दृष्टः । अस्ति च शब्दादि]र्थप्रत्ययः, तस्मादस्यापि सम्बन्धोऽस्तीति । नैतत् , दृष्टत्वादहेतः प्रत्ययः । वै० सू० २।२१], दण्डिविषाणिनोईष्टत्वाददोषः, इह तु शब्दार्थयोः सम्बन्धस्योक्तेन न्यायेनादृष्टत्वादहेतुरर्थप्रत्ययः सम्बन्धे, तथा प्रत्ययाभावः [वै० सू० २।२२], यदि शब्दोऽर्थेन सम्बद्धः स्यात् अगृहीतसङ्केतोऽपि ततोऽर्थ प्रतिपद्येत । तस्मादसम्बद्धौ । सम्बन्धसम्बन्धादिति चेत् सन्देहः [वै० सू० ७।२।२३ ], ननु शब्देनाकाशं सम्बद्धम् , आकाशेन चार्थाः, एवं सम्बन्धसम्बन्धादर्थेन सम्बन्ध इति । नैतत् , सर्वार्थानामाकाशेन सम्बन्धात् कस्मिन्नर्थे शब्दः प्रयुक्त इति सन्देहादप्रतिपत्तिः स्यात् । अतो न सम्बन्धः । तस्मात् [P पृ० २८ B] सामयिकः शब्दादर्थप्रत्ययः [वै० सू० ७॥२।२४ ], तस्मात् सङ्केतनिमित्ताः] शब्दा[द]र्थे प्रत्ययो न सम्बन्धात् । एकदिक्कालाभ्यां सन्निकृष्टविप्रकष्टाभ्यां परमपरम् । कारणपरत्वात् कारणापरत्वाच्च [वै. सू. १२।२५-२६] । परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः[वै० स० ७२।२७], परापरदिक्कालप्रदेशसंयोगाः परत्वापरत्वयोः कारणम् । अनयोश्च युतसिझ्यभावेन संयोगाभावात् परत्वापरत्वाभावः । कर्मभिः कर्माणि गुणैर्गुणाः [वै० सू० ७॥२।२८ ], यथा कर्मगुणा अणुत्वमहत्त्वशून्या एवं कर्मगुणा युतसिद्ध्यभावेन दिकालप्रदेशसंयोगाभावात् परत्वापरत्वशून्याः । इहेति यतः कार्यकारणयोः स समवायः [वै० सू० ७।२।२९] । द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः । तत्त्वं च [वै. सू० ७।२।३०-३१]” इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्ती P. पृ. २५-२९ ।
1 असति नास्तीति प्रयोगः-वृसु०।-2 एकदिकाभ्यां सन्नि-वृसू०। अस्य सूत्रदयस्य चन्द्रानन्दविरचिता वृत्तिः पृ० ५५२ टि.१ इत्यत्र द्रष्टव्या। 3 अस्य सूत्रस्य चन्द्रानन्दीया वृत्तिः पृ० ४४५ टि. १४.इत्यत्र द्रष्टव्या। 4 एतत्सूत्रद्वयस्य चन्द्रानन्दीया कृतिः . ५२६ टि. १ इत्यत्र द्रष्टव्या। 5 तत्त्वं च । सप्तमोऽध्यायः-सू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org