________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० १६ ५० १३सम्मूर्छनेन वाय्वन्तरसंश्लेषेण ऊर्ध्वगमनं प्रवर्तते, तत [P.पृ० ११ B] ऊर्ध्वगमनात् संश्लेषः, संश्लेषाद् वायोरनेकत्वमनुमीयते। ननु च वायुरिति *सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते* [वै० सू० २।१।१५], [ चक्षुषा गोः ] सन्निकर्षे सति प्रत्यक्षेण विषाणादीनि तद्योगितया दृष्टानि कदाचिल्लिङ्गम् , नैवं त्वचा वायोः सन्निकर्षे सति अयं वायुरिति प्रत्यक्षेण तद्गुणतया स्पर्श उपलब्धो येनानुपलभ्यमानं कदाचिद् वायुमनुमापयेत् । क्षित्यादिस्पर्शविधर्मत्वादस्यु स्पर्शस्य निराश्रयस्य चाभावाद् वायुराश्रय इति चेत्, सामान्यतो दृष्टाचाविशेषः [वै० सू० २।१।१६], आकाशादीनामपि परोक्षत्वात् प्रतिषेधेन वायोरेवायं स्पर्श इत्ययं विशेष एतस्मात् सामान्यतो दृष्टान्नावगम्यते । विभूनां स्पर्शवत्त्वे भावप्रतिघात इति चेत्, एवं तर्हि वायोरेवायं भवत्प्रसिद्धस्य स्पर्शी न दशमस्य द्रव्यस्येति कथं ज्ञायते ? तस्मादागमिकम् [वै० सू० २।१।१७], तस्माद् वायुर स्तीति वाक्यमागमिकं प्रवादमात्रमित्यर्थः । नैतत्, संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् [वै० सू० २।१।१८], अस्मदादीनां सकाशाद् यो भगवान् विज्ञानादिभिर्विशिष्टो महेश्वरस्तदीयं संज्ञाप्रणयनं नवानामेव द्रव्याणां भावे लिङ्गम् , दशमस्य संज्ञानभिधानात् । तस्मान्नवैव द्रव्याणि । अतो वायोरेव स्पर्शः । 'अस्मद्विशिष्टानाम्' इति पूजायां बहुवचनम् । स कथं ज्ञायत इत्युच्यते-प्रत्यक्ष कत्वात् संशाकर्मणः [वै० सू० २।१।१९], प्रत्यक्षेण हि पदार्थमालोचयन्तः संज्ञाः प्रणयन्ति, दृष्टं च दारकस्य नामकरणे, प्रणीताश्चेमाः खलु संज्ञाः, तस्मान्मन्यामहे-अस्ति भगवानस्मद्विशिष्टो योऽस्मदादिपरोक्षाणामपि भावानां प्रत्यक्षदर्शी येनेदं संज्ञादि प्रणीतमिति । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् [वै० सू० २।१।२०], यदेतद् निष्कमणं प्रवेशनं च पुरुषस्य द्वारादिना भवति न भित्त्यादौ तदाकाशकृतम्, [P.पृ० १२ A] अतो निष्क्रमणप्रवेशने आकाशस्य लिङ्गमिति । मूर्ताभावो ह्याकाशम् । तत्र तदलिङ्गमेकद्रव्यवत्त्वात् कर्मणः [वै० सू० २।१।२१], निष्क्रमणादि कर्म पुरुषे वर्तमानम् ‘एकद्रव्यं कर्म' इत्युक्तत्वानिष्क्रियत्वाच्चाकाशस्य आकाशावृत्ति कथं तद् गमयेदसम्बन्धात् । यथा लोष्टवृत्ति पतनं गुरुत्वस्य लिङ्गमेवं पुरुषवृत्ति निष्कमणमाकाशस्य लिङ्गमिति चेत्, न, कारणान्तरानुक्लप्तिवैधाच्च [वै० सू० २।१। २२], गुरुत्वं कर्मणोऽसमवायिकारणमुक्तम्, तदनुमीयताम् , न त्वाकाशस्यासमवायिकारणत्वं युज्यते नित्यत्वद्रव्यत्वानाश्रितत्वैराकाशस्य गुरुत्वादिना असमवायिकारणेन वैधात् । यदुक्तं 'निष्क्रमणं चाकाशकृतं द्वारादिना' इति, एतन्न, संयोगाभावः कर्मणः [वै० सू० २।१।२३], भित्त्यादिना स्पर्शवद्रव्येण शरीरादेः कर्माधारस्य संयोगाद् निष्क्रमणं निवर्तते, न त्वाकाशाभावात् , तस्य सर्वगतत्वात् तत्रापि भावः, तस्माच्छब्दलिङ्गमेवाकाशम् । मेर्यादीनामेव निमित्तानां शब्दो गुण इति चेत् , न, कारणगुणपूर्वः कार्यगुणो दृष्टः, कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः [वै० सू० २।१।२४ ], इह ये स्पर्शवतां विशेषगुणा एकैकेन्द्रियग्राह्यास्ते कारणगुणैः कार्ये निष्पाद्यन्ते । न च भेर्यवयवेषु रूपादय इव कश्चिच्छब्दभागः समवेत उपलभ्यते । तस्मादकारण गुणपूर्वत्वान्न मर्यादेः स्पर्शवतो विशेषगुणः शब्दः । यश्च स्पर्शवतो विशेषगुणः स कार्य यावत्कार्यमुपलभ्यमानो दृष्टः । न चैवं शब्दः, ततो न स्पर्शवद्विशेषगुणः । किञ्च, स्पर्शवद्विशेषगुण आरब्धे कार्ये कारणगुणैरारभ्यते, न य यदाशब्देन शब्द आरभ्यते तदा किञ्चित् कार्यमुत्पन्नं पश्यामः । तस्मात् कार्यान्तराप्रादुर्भावाच्च [P.पृ० १२ B] न शब्दः स्पर्शवतो विशेषगुण इति । परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः [वै० सू० २।१।२५], परत्र बहिरित्यर्थः । ये खल्वात्मगुणास्ते सुखादय इवान्तःशरीरमुपलभ्यन्ते । न चैवं शब्दः, बहिर्बहुभिरुपलभ्यमानत्वात् । न चात्मगुणो बाह्येन्द्रियग्राह्यः, अयं तु श्रोत्रप्रत्यक्षः, तस्मान्नात्मगुणः । अत एव बहिरुपलभ्यमानत्वाद् बाह्येन्द्रियप्रत्यक्षत्वाच्च न मनोगुणः । श्रोत्रप्रत्यक्षत्वाच न दिकालयोः । तस्माद् गुणः सन् लिङ्गमाकाशस्य [वै० सू० २।१।२६], तस्मादुपलभ्यमानः शब्द आकाशं गमयति । द्रव्यत्वनित्यत्वे वायुना व्याख्याते [वै० सू० २।१।२७], यथा अद्रव्यवत्त्वात् परमाणुभूतो वायुव्यं नित्यश्च एवमाकाशं कारणद्रव्याभावाद् द्रव्यं नित्यं च । तत्त्वं भावेन [वै० सू० २।१।२८], यथा सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावः एवं शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकमाकाशमिति द्वितीयस्याघमाह्निकम् ।।
यदुक्तं 'स्पर्शवद्विशेषगुणा आरब्धे कार्यद्रव्ये गुणानारभन्ते,शब्दस्त्वनारब्धे द्रव्ये शब्दमारभते' इति, तदयुक्तम् , अनारब्धकृतेऽपि पुष्पवस्त्राभ्यां द्रव्यान्तरे पुष्पगन्धस्य वस्त्रे गन्धारम्भात् तथा अप्सु उष्णतायाः । उच्यते-पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् [वै० सू० २।२।१], पुष्पेण खलु संयुक्त वस्त्रे न पुष्पगन्धेन गन्ध आरभ्यते, वस्त्रगन्धस्यापि सम्भवात् पुष्पवस्त्रगन्धाभ्यां द्वाभ्यां विलक्षणं गन्धान्तरमुपजनितमुपलभेमहि, न चैवम् , अपि तु
1 * * एतच्चिद्वान्तर्गतः पाठो नास्ति वृसू० । 2 इति च सामान्यतो-वृ०। 3 °कृतत्वाद्वरादिना-वृ०। 4 कारणे गुणपूर्वः कार्ये गुणो-वृसू०। 5 परत्र प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः-वृसू०। 6 तत्त्वं भावेन । द्वितीयस्य प्रथममाहिकम् ।-सू० । 7 अत्र 'पुष्पेण खलु संयुक्त वस्ने चेत् पुष्पगन्धेन गन्ध आरभ्यते, वरूगन्धस्यामि सम्भवात्' ..........इति पाठः 'पुष्पेण खलु संयुक्त वस्त्रे न पुष्पगन्धेन गन्ध आरभ्यते; यदि युष्पगन्धेन गन्ध आरभ्येत वरूगन्ध स्थापि सम्भवात् ... ... ' इत्येतादृशो वा पाठोऽपि संभवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org