________________
पृ० १६ पं० १३.]
टिप्पणानि । तद्यथा ओषधिवनस्पतीनां वृद्धिहासौ, ज्योतिषां गतिरिति । कोऽसौ अनुमानः? इह समाने वष्र्मणि परिणाहे चान्यत् तुलाग्रं भवति लोहस्य, अन्यत् कार्पासानाम् , यत्कृतो विशेषस्तद् द्रव्यम् । तथा कश्चित् स्पृशन्नेव च्छिनति कश्चिल्लम्बमानोऽपि न छिनति, यत्कृतो विशेषस्तद् द्रव्यम् । तथा कश्चिदेकेनैव प्रहारेण व्यपवर्ग करोति कश्चिद् द्वाभ्यामपि न करोति यस्कृतो विशेषस्तद् द्रव्यम् । अथवा यस्य गुणान्तरेषु प्रादुर्भवत्स्वपि तत्त्वं न विहन्यते तद् द्रव्यम् । किं पुनस्तत्त्वम् ? तद्भावस्तत्त्वम् । तद्यथा-आमलकादीनां फलानां रक्तादयः पीतादयश्च गुणाः प्रादुर्भवन्ति आमलकं बदरमित्येव भवति ।। अन्वर्थ खल्वपि निर्वचनम्-गुणसन्द्रावो द्रव्यमिति।" इति पातञ्जलमहाभाष्ये ५।१।११९। पातञ्जलमहाभाष्यस्य सांख्यमतानुसारित्वं 'स्त्रियाम् [पा० ४।१।३।] इति सूत्रे पातञ्जलमहाभाष्यस्य उद्दयोतात् प्रदीपाच्चावगन्तव्यम् ।
पृ० १५ पं० २०. क्रियावद् । दृश्यतां पृ० ४४० टि० ५। दृश्यतां टिपृ० ८ पं० २२ । पृ० १५ पं० २२. भवितुं शीला | "भा क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु"-पा० ३।२।१३४॥
पृ० १६ पं० ८. क्षेत्रमपि। “खेत्तं मयमागास सव्वदव्वावगाहणालिंग। तं दध्वं चेव निवासमेत्तपज्जायओ 10 खेतं ॥ २०८८॥....."इह दव्वं चेव निवासमेत्तपज्जायभावओ खेत्तं ।......॥ ३३४३॥"-विशेषाव. भा० । अर्थस्त्वासां गाथाना कोहार्यादिविरचितवृत्तिभ्योऽवसेयः ।
पृ० १६ पं० १३. रूपरसगन्धस्पर्शवती पृथिवी । वैशेषिकदर्शनसूत्रमिदम् । दृश्यतां टिपृ० ८ पं० २२।।
१ "एवं द्रव्यादीनां नानात्वे सिद्धे पृथिव्यादीनां द्रव्यलक्षणाविशेषादेकत्वे प्राप्ते लक्षणभेदेन वैधर्म्यमाह-रूपरसगन्धस्पर्शवती पृथिवी [वै० सू० २।१।१], एतेऽस्या रूपरसगन्धस्पर्शा विशेषगुणाः, अन्ये तु सङ्ख्या-परिमाण-पृथक्त्वसंयोग-विभाग-परत्वा-ऽपरत्व-गुरुत्व-नैमित्तिकद्रवत्व-संस्काराः । रूपं शुक्लादि, रसो मधुरादिः, गन्धः सुरभिरसुरभिश्च, स्पर्शोऽस्या अनुष्णाशीतत्वे सति पाकजः, कार्य बाह्यमाध्यात्मिकं च । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च [वै० सू० २।१।२], शुक्ल-मधुर-शीता एव रूप-रस-स्पर्शाः । द्रवा इति सांसिद्धिकं द्रवत्वम् । स्निग्धा इति आसामेव स्नेहः । सङ्ख्या-परिमाण-पृथक्त्वसंयोग-विभाग-परत्वा-ऽपरत्व-गुरुत्व-संस्काराश्च । कार्य पूर्ववत् । तेजो रूपस्पर्शवत् [वै० सू० २१११३], रूपं भाखरं शुक् च, स्पर्श उष्ण एव । सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-नैमित्तिकद्रवत्व-संस्काराश्च । कार्य पूर्ववत् । वायुः स्पर्शवान् [वै० सू० २।१।४], अनुष्णाशीतोऽपाकजः स्पर्शः । सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-संस्काराश्च । कार्य पूर्ववत् । भौमादिदेहा भूम्यादिलोकेषु । त आकाशे न विद्यन्ते [वै० सू० २।१।५], ते रूपरसगन्धस्पर्शा न सन्त्याकाशे । तस्य गुणाः शब्द-सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभागाः । सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवताऽद्भिः [P. पृ० ११ ] सामान्यम् [वै० सू० २।११६], [ मधूच्छिष्टं ] सिक्थकम् । सर्पिषो जतुनो मधूच्छिष्टस्य चामिसंयोगाद् द्रवता या सञ्जायते तदद्भिः समानत्वं पृथिव्याः । त्रपुसीसलोहरजतसुवर्णानां तैजसाना. मग्निसंयोगाद् द्रवताऽद्भिः सामान्यम् [वै० सू० २।१।७], एषां च तैजसानां यदग्निसंयोगाद् द्रवत्वमुपजायते तदद्भिः सामान्यं तेजसः । विषाणी ककुमान् प्रान्तेवालधिः सानावानिति गोत्वे दृष्टं लिङ्गम् [वै० सू० २।११८ ], दृष्टान्तार्थ सूत्रम् । गोत्वे इति गोत्वावच्छिन्ना व्यक्तिः, विषाणं ककुदं साना च अस्यास्तीति विषाणी ककुमान् सास्नावान् । प्रान्तशब्देन कटिभागः, वाला अस्मिन् धीयन्त इति वालधिशब्देन पुच्छः, प्रान्ते वालधिरस्येति प्रान्तेवालधिः । विषाण्यादिभिः शब्दैस्तद्वत्प्रतिपादकैरपि अर्थव्यापाराद् धर्मा एव व्यपदिश्यन्ते । यथा अप्रत्यक्षायां गोव्यक्तौ कथञ्चिद् गृह्यमाणा विषाणादयो लिङ्गं दृष्टमनुमापकास्तथा स्पर्शश्च [वै० सू० २।११९], स्पर्श उपलभ्यमानो निराश्रयस्यानुपपत्तेर्वायुमनुमापयति । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः [वै० सू० २।१।१० ], यदि खल्वयं क्षित्यादिस्पर्शोऽभविष्यद् गन्धरसरूपैः सहोपलभेमहि, न चैवम् , तस्मात् पृथिव्यादिव्यतिरिक्तस्य वायोलिङ्गम् । अद्रव्यवत्त्वाद द्रव्यम् [वै० सू० २।१।११], यः परमाणुखभावो वायुः स खलु अद्रव्यवत्त्वात् समवायिकारणरहितत्वाद् द्रव्यम् । द्रव्यं ह्यद्रव्यमनेकद्रव्यं च । क्रियावत्त्वाद गुणवत्वाच [वै० सू० २।१।१२ ], 'क्रियावद् गुणवत्' [ १११११४ ] इति द्रव्यलक्षणाद् यत्र क्रिया गुणाश्च समवेताः सोऽपि महान् वायुर्द्रव्यम् । अद्रग्यवत्त्वेन नित्यत्वमुक्तम् [वै० सू० २।१।१३ ], परमाणुलक्षणस्य वायोरद्रव्यवत्त्वेन समवायिकारणरहितत्वेन नित्यत्वमुक्तम् । वायोर्वायुसम्मूर्छनं नानात्वे लिङ्गम् [वै० सू० २।१।१४ ], तिर्यग्गामिनो वायोर्वायु
1 सक्थिक-पृ.१ "मधूच्छिष्टशब्देन सिक्थकाभिधानम्"-न्यायकन्दली पृ० २९। 2 गोत्वाविच्छिन्ना-दृ.। .
नय. दि. ३ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org