________________
न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [पृ० १४ पं० १८भोग्यमिति जानाति भोक्तारमकर्तारं चेतनं च पुरुषमन्यं प्रधानादवैति अचेतनाश्च गुणान् तदा तस्य गुणपुरुषान्तरोपलब्धिरन्ता संसारस्य इति ज्ञानाद् मोक्षः, विपर्ययाद्बन्धः।"-तत्त्वार्थराजवा० १।१।।
पृ० १४ पं० १८. प्रधान-पुरुष-संयोगत्रित्व"। "तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥ २०॥ पुरुषस्य दर्शनार्थः कैवल्यार्थस्तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः 5॥२१॥-सांख्यका० । अनयोः कारिकयोर्विस्तरेण त्वों युक्तिदीपिका-माठरवृत्तिप्रभृतिव्याख्याभ्योऽवसेयः।।
पृ० १५ पं० ८. अन्यर्कियत्तदो निर्धारणे...... । इदमत्रावधेयम्-अस्मिन् ग्रन्थे नयचक्रवृत्तिकृता सर्वत्र पाणिनीयव्याकरणसूत्राण्येवोल्लिखितानि, सम्प्रति तु 'किंयत्तदो निर्धारणे' इति 'अन्य'शब्दरहितमेव पाणिनीयसूत्रमुपलभ्यते। अतो नयचक्रवृत्तिकृतां सिंहसूरिगणिवादिक्षमाश्रमणानां समये 'अन्यकियत्तदो निर्धारणे' इत्यपि अस्य सूत्रस्य पाठान्तरमासीदित्यनुमीयते । चान्द्रव्याकरणे “यत्तदेकाद् द्वाभ्यां निर्धारणे डतरच् ।४।३।७५। जातौ डतमज्बहुभ्यः ।४।३।७६। तौ किमः । 10४।३।७७॥” इति सूत्राणि शाकटायने “यत्तत्किमन्याद् द्वयोर्निर्धार्ये डतरः ।३।४।१०५॥ वैकात् ।३।४।१०६।बहूनां प्रश्ने डतमश्च ।
३।४।१०७॥” इति सूत्राणि । सिद्धहेमशब्दानुशासने "वैकाद् द्वयोर्निर्धार्ये डतरः। ७॥३॥५२॥ यत्तत्किमन्यात् ।।३।५३। बहूनां प्रश्न डतमश्च वा ॥३॥५४॥” इति सूत्राणि । भोजविरचिते सरस्वतीकण्ठाभरणे "किंयत्तदेकान्येभ्यो द्वयोरेकस्य निर्धारणे डतरच् । वा बहूनां जातौ डतमच् । किमो डतरच् । ५।३।१२५-१२॥” इति सूत्राणि । कातन्त्रे “आख्याताच तमादयः ।
२।६।४०1" इति सूत्रम् । “द्वयोर्बहूनां चैकस्य निर्धारणे किमादिभ्योडतरडतमौ वक्तव्यौ। किमादिभ्य इति किम् ? यत्तद्भयो 15 डितौ अतर-अतमौ प्रत्ययौ भवतः । 'च'कारात् 'एक शब्दात् 'अन्य'शब्दादपि डतरडतमौ वक्तव्यौ । एकतरः । एकतमः ।
अन्यतरः । अन्यतमः । इति सारस्वतच्याकरणे । अत्र 'सर्वादीनि सर्वनामानि' [पा. ७।१५२ ] इति सूत्रस्य सिद्धान्तकौमुदी व्याख्या विलोकनीया। 'सर्वादेः स्मै स्मातौ' [सिद्धहेम० १४७] इति सूत्रस्य बृहद्वत्तिरपि अवलोकनीया। . पृ० १५५०१०-११. आतिशयिका...... । अत्र आतिशायिका इति भा० प्रतिपाठ एव शुद्धः। अत्र च 'अतिशायने तमबिष्टनौ ।५।३॥५५॥ द्विवचनविभज्योपपदे तरबीयसुनौ ।५।३।५७' इति पाणिनीयसूत्रद्वयस्य पातञ्जलमहाभाष्यमपि विलोकनीयम् ।
पृ० १४ पं० १६. द्रव्यमपि। "तञ्च द्रव्यं भवनलक्षणम् ' भवनमात्रमेवेदं कृत्स्नम्।" -तत्त्वार्थ सिद्धसेनवृ० ५।२९॥
पृ० १५ पं० १७. सर्वतन्त्रसिद्धान्ते । “सर्वतत्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ।।१।२८॥ यथा घ्राणादीनीन्द्रियाणि, गन्धादय इन्द्रियार्थाः, पृथिव्यादीनि भूतानि, प्रमाणैरर्थस्य ग्रहणमिति ।"-न्यायभा०।।
पृ० १५ पं० १७. द्रव्यं च भव्ये । “द्रोर्भव्ये ।।१।११५। द्रुशब्दात् तस्य तुल्ये भव्येऽभिधेये यः प्रत्ययो भवति । विशिष्टेष्टपरिणामेन भवति इति भव्यम्, अभिप्रेतानामर्थानां पात्रम् । द्रुतुल्यः द्रव्यमयं माणवकः । द्रव्य कार्षापणम् । यथा द्र अग्रन्थि अजिब दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति तथा माणवकोऽपि विनीयमानो विद्या-लक्ष्म्यादिभाजनं भवतीति द्रव्यमुच्यते । कार्षापणमपि विनियुज्यमानं विशिष्टेष्टमाल्याधुपभोगफलं भवतीति द्रव्यमुच्यते । द्रुरिव द्रव्यं राजपुत्रः । यथा द्रुमः पुष्पफलादिभिरर्थिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते । भव्य इति किम् ? तुल्योऽयं न चेतयते ।"-सिद्धहेम० बृहद् ।।
पृ० १५ पं० १८-२०. द्रवति......। “दवए दुयए दोरवयवो विगारो गुणसंदावो । दव्वं भव्वं भावस्स भूअभावं च जं जोगं ॥ २८ ॥ 'दु द्रु गतौ' [पा० धा० ९४४-९४५ ], द्रवतीति द्रव्यम्, स्वपर्यायान् प्रामोति क्षरति चेत्यर्थः । तथा दूयते गम्यते तैरिति द्रव्यम् । तथा दुः सत्ता, तस्या विकारोऽवयवो वेति द्रव्यम् । तथा गुणानां सन्द्रावो द्रव्यम् । गुणा रूपादयः, सन्द्रवर्ण सन्द्रावः, समुदाय इत्यर्थः । तथा 'द्रव्यं च भव्ये[पा०५।३।१०४] इति द्रव्यं भव्य भावस्य योग्यमित्यर्थः । यद् भाविभूतभावं चेति ।"-विशेषाव. भा० खोपज्ञवृ०। 38 पृ० १५५० २०. गुणसन्द्रावो द्रव्यम्। एतच्च सांख्यादीनां मतमिति ज्ञेयम् , दृश्यतां पृ० ३०३ पं० २ । “सिद्धं
तु यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ। सिद्धमेतत् । कथम् ? यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेण भवितव्यम्, न चाभिप्रायादीनां भावाद् द्रव्ये देवदत्तशब्दो वर्तते । किं पुनद्रव्यं के पुनर्गुणाः? शब्दस्पर्शरूपरसगन्धा गुणाः, ततोऽन्यद् द्रव्यम् । किं पुनरन्यच्छब्दादिभ्यो द्रव्यमाहोस्विदनन्यत् ? गुणस्यायं
भावाद् द्रव्ये शब्दनिवेशं कुर्वन् ख्यापयति अन्यच्छब्दादिभ्यो द्रव्यमिति । अनन्यच्छब्दादिभ्यो द्रव्यम्, न ह्यन्यदुपलभ्यते। 10पशोः खच्चपि विशसितस्य पर्गशते न्यत्तस्य नान्यच्छदादिभ्य उपलभ्यते । अन्यच्छन्दादिभ्यो द्रव्यम्, तत्त्वमनुमानगम्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org